योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०१२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


द्वादशः सर्गः १२
श्रीवसिष्ठ उवाच
एतस्मात्परमाच्छान्तात्पदात्परमपावनात् ।
यथेदमुत्थितं विश्वं तच्छृणूत्तमया धिया ।।१
सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् ।
सर्वात्मकं च तत्स्थानं तत्र तावत्क्रमं श्रृणु ।। २
तस्यानन्तप्रकाशात्मरूपस्यानन्तचिन्मणेः ।
सत्तामात्रात्मकं विश्वं यदजस्रं स्वभावतः ।। ३
तदात्मनि स्वयं किंचिच्चेत्यतामिव गच्छति ।
अगृहीतात्मकं संविदहंमर्शनपूर्वकम् । ४
भाविनामार्थकलनैः किंचिदूहितरूपकम् ।
आकाशादणु शुद्धं च सर्वस्मिन्भाति बोधनम् ।। ५
ततः सा परमा सत्ता सचेतश्चेतनोन्मुखी ।
चिन्नामयोग्या भवति किंचिल्लभ्यतया तथा ।। ६
घनसंवेदना पश्चाद्भाविजीवादिनामिका ।
संभवत्यात्तकलना यदोज्झति परं पदम् ।। ७
सत्तैव भावनामात्रसारा संसरणोन्मुखी ।
तदा वस्तुस्वभावेन त्वनुत्तिष्ठति तामिमाम् ।।
समनन्तरमेवास्याः स्वसत्तोदेति शून्यता ।
शब्दादिगुणबीजं सा भविष्यदभिधार्थदा ।। ९
अहंतोदेति तदनु सह वै कालसत्तया ।
भविष्यदभिधार्थेन बीजं मुख्यजगत्स्थितेः ।। १०
तस्याः शक्तेः परायास्तु स्वसंवेदनमात्रकम् ।
एतज्जालमसद्रूपं सदिवोदेति विस्फुरत् ।। ११
एवंप्रायात्मिका संविद्बीजं संकल्पशाखिनः ।
भवत्यहंकारकणस्ततः स्पन्दतया मरुत् ।। १२
चिदहं तावती व्योमशब्दतन्मात्रभावनात् ।
स्वतो घनीभूय शनैः स्वतन्मात्रं भवत्यलम् ।। १३
भाविनामार्थरूपं तद्बीजं शब्दौघशाखिनः ।
पदवाक्यप्रमाणाख्यं वेदवृन्दं विकासितम् ।। १४
तस्मादुदेष्यत्यखिला जगच्छ्रीः परमात्मनः ।
शब्दौघनिर्मितार्थौघपरिणामविसारिणः ।। १५
चिदेवंपरिवारा सा जीवशब्देन कथ्यते ।
भाविशब्दार्थजालेन बीजं रूपौघशाखिनः ।। १६
चतुर्दशविधं भूतजालमावलितान्तरम् ।
जगज्जठरगर्तौघं प्रसरिष्यति वै ततः ।। १७
असंप्राप्ताभिधाचारा चिज्जवात्प्रस्फुरद्वपुः ।
सा चैव स्पर्शतन्मात्रं भावनाद्भवति क्षणात् ।। १८
पवनस्कन्धविस्तारं बीजं स्पर्शौघशाखिनः ।
सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति ।। १९
तत्रैव चिद्विलासेन प्रकाशोऽनुभवाद्भवेत् ।
तेजस्तन्मात्रकं तत्तु भविष्यदभिधार्थकम् ।। २०
तत्सूर्याग्निविजृम्भादिबीजमालोकशाखिनः ।
तस्माद्रूपविभेदेन संसारः प्रसरिष्यति ।। २१
भावयंस्तनुतामेव रसस्कन्ध इवाम्भसः ।
स्वदनं तस्य सङ्घस्य रसतन्मात्रमुच्यते ।। २२
भाविवारिविलासात्मा तद्बीजं रसशाखिनः ।
अन्योन्यस्वदने तस्मात्संसारः प्रसरिष्यति ।। २३
भविष्यद्रूपसंकल्पनामासौ कल्पनात्मकः ।
संकल्पात्मगुणैर्गन्धतन्मात्रत्वं प्रपश्यति ।। २४
भाविभूगोलकत्वेन बीजमाकृतिशाखिनः ।
सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति ।। २५
चिता विभाव्यमानानि तन्मात्राणि परस्परम् ।
स्वयं परिणतान्यन्तरम्बुनीव निरन्तरम् ।। २६
तथैतानि विमिश्राणि विविक्तानि पुनर्यथा ।
न शुद्धान्युपलभ्यन्ते सर्वनाशान्तमेव हि ।। २७
संवित्तिमात्ररूपाणि स्थितानि गगनोदरे ।
भवन्ति वटजालानि यथा बीजकणान्तरे ।। २८
प्रसवं परिपश्यन्ति शतशाखं स्फुरन्ति च ।
परमाण्वन्तरे भान्ति क्षणात्कल्पीभवन्ति च ।। २९
विवर्तमेव धावन्ति निर्विवर्तानि सन्ति च ।
चिद्वेधितानि सर्वाणि क्षणात्पिण्डीभवन्ति च ।। ३०
तन्मात्रगणमेतत्स्यात्सा संकल्पात्मिका चितिः ।
वेदनात्रसरेण्वाभमनाकारैव पश्यति ।। ३१
बीजं जगत्सु ननु पञ्चकमात्रमेव
बीजं पराव्यवहितस्थितिशक्तिराद्या ।
बीजं तदेव भवतीति सदानुभूतं
चिन्मात्रमेवमजमाद्यमतो जगच्छीः ।। ३२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जगदुत्पत्तिवर्णनं नाम द्वादशः सर्गः ।। १२ ।।