योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०६३

विकिस्रोतः तः


त्रिषष्टितमः सर्गः ६३

श्रीवसिष्ठ उवाच ।
यदेतद्ब्रह्मतत्त्वं सर्वथा सर्वदैव सर्वत एव सर्व-
शक्ति सर्वाकारं सर्वेश्वरं सर्वगं सर्वमेवेति ।। १
एष त्वात्मा सर्वशक्तित्वाच्च क्वचिच्चिच्छक्तिं प्रक-
टयति क्वचिच्छान्तिं क्वचिज्जडशक्तिं क्वचिदुल्लासं
क्वचित्किंचिन्न किंचित्प्रकटयति ।। २
यत्र यदा यदेवासौ यथा भावयति तत्र तदा
तदेवासौ प्रपश्यति ।। ३
सर्वशक्तेर्हि या यैव यथोदेति तथैव सा ।। ४
तदास्ति शक्तिर्नानारूपिणी सा स्वभावत इमाः
शक्तयोऽयमात्मेति ।। ५
एवं विकल्पजालं व्यवहारार्थं धीमद्भिः परिक-
ल्पितं लोके नत्वात्मनि विद्यते भेदः ।। ६
यथोर्मितरङ्गपयसां सागरे कटकाङ्गदकेयूरैर्वा
हेम्नः । अवयवावयविनोः संवित्काल्पनिकी द्विता
न वास्तवी ।। ७
यथा यच्चेत्यते हि तथैव तन्न बाह्यतो नान्तरत-
श्चैतत्समुदेति हि ।। ८
सर्वात्मत्वात्समाभासं क्वचित्किंचित्प्रपश्यति ।। ९
सर्वाकारमयं ब्रह्मैवेदं ततं मिथ्याज्ञानवद्भिः
शक्तिशक्तिमत्त्वे अवयवावयविरूपे कल्पिते न पार-
मार्थिके ।। १०
सद्वा भवत्वसद्वा चिद्यत्संकल्पयत्यभिनिविशति
तत्तत्पश्यति सकला तत्सद्ब्रह्मैव चिद्भाति ।। ११
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० चित्तविकारो नाम त्रिषष्टितमः सर्गः ।। ६३ ।।