योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ११६
षोडशोत्तरशततमः सर्गः ११६
श्रीराम उवाच ।
राजसूयफलं प्राप्तं लवणेन किल प्रभो ।
प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे ।। १
श्रीवसिष्ठ उवाच ।
यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम् ।
तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान् ।। २
अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि ।
किमेतदिति यत्नेन पृष्टश्च लवणेन च ।। ३
चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः ।
श्रृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम् ।। ४
राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम् ।
आपद्दुःखं प्राप्नुवन्ति नानाकारव्यथामयम् ।। ५
अतः शक्रेण गगनाद्दुःखाय लवणस्य सः ।
प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः ।। ६
राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम् ।
अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम् ।। ७
तस्मात्प्रत्यक्षमेवैतद्राम नात्र संदेहोऽस्ति । मनो
हि विलक्षणानां क्रियाणां कर्तृ भोक्तृ च तदेव
निर्घृष्य संशोध्य चित्तरत्नमिह हिमकणमिवातपेन
विलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि ।
चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि ।
सा विचित्रकेन्द्रजालवशादिदमुत्पादयति । अवि-
द्याचित्तजीवबुद्धिशब्दानां भेदो नास्ति वृक्षतरुश-
ब्दयोरिवेति ज्ञात्वा चित्तमेवविकल्पनं कुरु । अभ्यु-
दिते चित्तवैमल्यार्कबिम्बे सकलङ्कविकल्पोत्थदोष-
तिमिरापहरणं न तदस्ति राघव यन्न दृश्यते
यन्नात्मीक्रियते यन्न परित्यज्यते यन्न म्रियते यन्ना-
त्मीयं यन्न परकीयं सर्वं सर्वदा सर्वो भवतीति
परमार्थः ।। ८
भावराशिस्तथा बोधः सर्वो यात्येकपिण्डताम् ।
विचित्रमृद्भाण्डगणो यथाऽपक्वो जले स्थितः ।। ९
श्रीराम उवाच ।
एवं मनःपरिक्षये सकलसुखदुःखानामन्तः प्राप्यत
इति भवता प्रोक्तं तत्कथं महात्मंश्चपलवृत्तिरूप-
स्यास्य मनसोऽसत्ता भवति ।। १०
श्रीवसिष्ठ उवाच ।
रघुकुलेन्दो श्रृणु मनःप्रशमने युक्तिं, यां ज्ञात्वा
स्वस्वाचारदूरे मनःसंधिरयमेष्यसि ।। ११
इह हि तावद्ब्रह्मणः सर्वभूतानां त्रिविधोत्पत्ति-
रिति तत्पूर्वोक्तम् ।। १२
तत्रेदंप्रथमया मनःकल्पनया देहीति सा ब्रह्म-
रूपिणी संकल्पमयी भूत्वा यदेव संकल्पयति तदेव
पश्यति तेनेदं भुवनाडम्बरं कल्प्यते ।। १३
तत्रजननमरणसुखदुःखमोहादिकं संसरणं कल्प-
यन्ती कल्पानुरचना बहुनाममन्थरं स्थित्वा स्वयं
विलीयते हिमकणिकेवातपगता ।। १४
कालोदितः संकल्पवशात् पुनरन्यतया जायते
सापि पुनर्विलीयते पुनरप्युदेति सैवेति भूयो-
भूयोऽनुसंसरन्ती स्वयमुपशाम्यति ।। १५
इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु च
समतीता भविष्यन्तीति सन्ति चेतरा अनन्ता
यासां संख्यापि न विद्यते ।। १६
एवमस्यां तादृशि वर्तमानायामीश्वरादागत्यजीवो
यथा जीव्यते विमुच्यते तच्छ्रुणु ।। १७
ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थिताकाशश-
क्तिमवलम्ब्य तत्रस्थपवनतानुपातिनी घनसंक-
लत्वं गच्छति ।। १८
ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकर-
णतां नीत्वा सात्वसूक्ष्मा प्रकृतिर्भूत्वा गगनपवन-
तेजोरूपतासंकल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिं
विशन्ती प्राणिनां गर्भतां च गच्छति ।। १९
जायते तस्मात्ततः पुरुषः संपद्यते ।। २०
तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्या-
ग्रहणं कर्तव्यं गुरवोऽनुगन्तव्याः ।। २१
ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायत्ते ।। २२
स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेय-
विचार उत्पद्यते ।। २३
तादृग्विवेकवति संकलिताभिमाने
पुंसि स्थिते विमलसत्त्वमयाग्न्यजातौ ।
सप्तात्मिकावतरति क्रमशः शिवाय
चेतःप्रकाशनकरी ननु योगभूमिः ।। २४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षो० उत्पत्तिप्रकरणे साधकजन्मावतारो नाम षोडशोत्तरशततमः सर्गः ।। ११६ ।।