योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


चतुःपञ्चाशः सर्गः ५४
श्रीदेव्युवाच ।
तस्माद्ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः ।
आतिवाहिकलोकांस्ते प्राप्नुवन्तीह नेतरे ।। १
आधिभौतिकदेहत्वं मिथ्याभ्रममयात्मकम् ।
कथं सत्ये स्थितिं याति च्छायास्ते कथमातपे ।। २
लीला विदितवेद्या नो परमं धर्ममाश्रिता ।
केवलं तेन सा भर्तुः कल्पितं नगरं गता ।। ३
प्रबुद्धलीलोवाच ।
एवमेषा प्रयाताऽस्तु भर्ता पश्य ममाम्बिके ।
प्रवृत्तः प्राणसंत्यागे कर्तव्यं किमिहाधुना ।।
भावाभावेषु भावानां कथं नियतिरागता ।
कथं भूयोऽप्यनियतिर्मृतिजन्मादिसूचिता ।। ५
कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा ।
कथमग्न्यादिपूष्णत्वं पृथ्व्यादौ स्थिरता कथम् ।। ६
हिमादिषु कथं शैत्यं का सत्ता कालखादिषु ।
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मदृशः कथम् ।। ७
कथमत्यन्तमुच्छ्रायं तृणगुल्मनरादिकम् ।
वस्तु नायात्यनिष्टेऽपि स्थिते स्वोच्छ्रायकारणे ।। ८
श्रीदेव्युवाच ।
महाप्रलयसंपत्तौ सर्वार्थास्तमये सति ।
अनन्ताकाशमाशान्तं सद्ब्रह्मैवावतिष्ठते ।। ९
तच्चिद्रूपतया तेजःकणोऽहमिति चेतति ।
स्वप्ने संविद्यथा हि त्वमाकाशगमनादि च ।। १०
तेजःकणोऽसौ स्थूलत्वमात्मनात्मनि विन्दति ।
असत्यमेव सत्याभं ब्रह्माण्डं तदिदं स्मृतम् ।। ११
तत्रान्तर्ब्रह्म तद्वेत्ति ब्रह्मायमहमित्यथ ।
मनोराज्यं स कुरुते स्वात्मैवं तदिदं जगत् ।। १२
तस्मिन्प्रथमतः सर्गे या यथा यत्र संविदः ।
कचितास्तास्तथा तत्र स्थिता अद्यापि निश्चलाः ।। १३
यद्यथा स्फुरितं चित्तं तत्तथा ह्यात्मचिद्भवेत् ।
स्वयमेवानियमतस्तत्तत्स्यान्नेह किंचन ।। १४
न च नाम नकिंचित्त्वं युज्यते विश्वरूपिणः ।
त्यक्त्वा समस्तसंस्थानं हेम तिष्ठति वै कथम् ।। १५
सर्गादौ स्वयमेवान्तश्चिद्यथा कचितात्मनि ।
हिमाग्न्यादितयाद्यापि सा तथास्ते स्वसत्तया ।। १६
तस्मात्स्वसत्तासंत्यागः सतः कर्तुं न युज्यते ।
यदा चिदास्ते तेनेयं नियतिर्न विनश्यति ।। १७
यद्यथा कचितं यत्र व्योमरूप्यपि पार्थिवम् ।
सर्गादौ तस्य चलितुमद्ययावन्न युज्यते ।। १८
या यथा चित्प्रकचिता प्रतिपक्षविदं विना ।
न सा ततः प्रचलति वेदनाभ्यासतः स्वयम् ।। १९
जगदादावनुत्पन्नं यच्चेदमनुभूयते ।
तत्संविद्व्योमकचनं स्वप्नस्त्रीसुरतं यथा ।। २०
असत्यमेव सत्याभं प्रतिभानमिदं स्थितम् ।
इति स्वभावसंपत्तिरिति भूतानुभूतयः ।। २१
सर्गादौ या यथा रूढा संवित्कचनसंततिः ।
साद्याप्यचलितान्येन स्थिता नियतिरुच्यते ।। २२
गृहीतव्योमसंवित्तिचिद्व्योम व्योमतां गतम् ।
गृहीतकालतासंविच्चिन्नभः कालतां गतम् ।। २३
गृहीतजलसंवित्तिचिद्व्योम वारिवत्स्थितम् ।
स्वप्ने यथा हि पुरुषः पश्यत्यात्मनि वारिताम् ।। २४
स्वप्नचित्संविदाभाति भवत्येषा यथास्थिता ।
चिच्चमत्कारचातुर्यादसदेतत्समूहते ।। २५
खत्वं जलत्वमुर्वीत्वमग्निवायुत्वमप्यसत् ।
वेत्त्यन्तः स्वप्नसंकल्पध्यानेष्विव चितिः स्वयम् ।। २६
मरणानन्तरं कर्मफलानुभवनक्रमम् ।
सर्वसंदेहशान्त्यर्थं मृतिश्रेयस्करं श्रृणु ।। २७
रूढादिसर्गे नियतिर्यैकद्वित्रिचतुःशता ।
पूर्वादिष्वायुषः पुंसां तस्या मे नियतिं श्रृणु ।। २८
देशकालक्रियाद्रव्यशुद्ध्यशुद्धी स्वकर्मणाम् ।
न्यूनत्वे चाधिकत्वे च नृणां कारणमायुषः ।। २९
स्वकर्मधर्मे ह्रसति हसत्यायुर्नृणामिह ।
वृद्धे वृद्धिमुपायाति सममेव भवेत्समे ।। ३०
बालमृत्युप्रदैर्बालो युवा यौवनमृत्युदैः ।
वृद्धमृत्युप्रदैर्वृद्धः कर्मभिर्मृतिमृच्छति ।। ३१
यो यथाशास्त्रमारब्धं स्वधर्मनुमतिष्ठति ।
भाजनं भवति श्रीमान्स यथाशास्त्रमायुषः ।। ३२
एवं कर्मानुसारेण जन्तुरन्त्यां दशामितः ।
भवन्त्यन्तं गतवतो दृङ्मर्मच्छेदवेदनाः ।। ३३
प्रबुद्धलीलोवाच ।
मरणं मे समासेन कथयेन्दुसमानने ।
किं सुखं मरणं किं वा दुःखं मृत्वा च किं भवेत् ।।
श्रीदेव्युवाच ।
त्रिविधाः पुरुषाः सन्ति देहस्यान्ते मुमूर्षवः ।
मूर्खोऽथ धारणाभ्यासी युक्तिमान्पुरुषस्तथा ।। ३५
अभ्यस्य धारणानिष्ठो देहं त्यक्त्वा यथासुखम् ।
प्रयाति धारणाभ्यासी युक्तियुक्तस्तथैव च ।। ३६
धारणा यस्य नाभ्यासं प्राप्ता नैव च युक्तिमान् ।
मूर्खः स्वमृतिकालेऽसौ दुःखमेत्यवशाशयः ।। ३७
वासनावेशवैवश्यं भावयन्विषयाशयः ।
दीनतां परमामेति परिलूनमिवाम्बुजम् ।। ३८
अशास्त्रसंस्कृतमतिरसज्जनपरायणः ।
मृतावनुभवत्यन्तर्दाहमग्नाविव च्युतः ।। ३९
यदा घर्घरकण्ठत्वं वैरूप्यं दृष्टिवर्णजम् ।
गच्छत्येषोऽविवेकात्मा तदा भवति दीनधीः ।। ४०
परमान्ध्यमनालोको दिवाप्युदिततारकः ।
साभ्रदिग्मण्डलाभोगो घनमेचकिताम्बरः ।। ४१
मर्मव्यथाविच्छुरितः प्रभ्रमदृष्टिमण्डलः ।
आकाशीभूतवसुधो वसुधाभूतखान्तरः ।। ४२
परिवृत्तककुप्चक्र उह्यमान इवार्णवे ।
नीयमान इवाकाशे घननिद्रोन्मुखाशयः ।। ४३
अन्धकूप इवापन्नः शिलान्तरिव योजितः ।
स्वयं जडीभवद्वर्णो विनिकृत्त इवाशये ।। ४४
पततीव नभोमार्गात्तृणावर्त इवार्पितः ।
रथे द्रुत इवारूढो हिँमवद्गलनोन्मुखः ।। ४५
व्याकुर्वन्निव संसारं बान्धवानस्पृशन्निव ।
भ्रमितक्षेपणेनेव वातयन्त्र इवास्थितः ।। ४६
भ्रमितो वा भ्रम इव कृष्टो रसनयेव वा ।
भ्रमन्निव जलावर्ते शस्त्रयन्त्र इवार्पितः ।। ४७
प्रोह्यमानस्तृणमिव वहत्पर्जन्यमारुते ।
आरुह्य वारिपूरेण निपतन्निव चार्णवे ।। ४८
अनन्तगगने श्वभ्रे चक्रावर्ते पतन्निव ।
अब्धिरुर्वीविपर्यासदशामनुभवन्स्थितः ।। ४९
पतन्निवानवरतं प्रोत्पतन्निव चाभितः ।
सूत्काराकर्णनोद्भ्रान्तपूर्णसर्वेन्द्रियव्रणः ।। ५०
क्रमाच्छयामलतां यान्ति तस्य सर्वाक्षसंविदः ।
यथास्तं गच्छति रवौ मन्दालोकतया दिशं ।। ५१
पूर्वापरं न जानाति स्मृतिस्तानवमागता ।
यथा पाश्चात्यसंध्यान्ते नष्टा दृष्टिर्दिगष्टके ।। ५२
मनः कल्पनसामर्थ्यं त्यजत्यस्य विमोहतः ।
अविवेकेन तेनासौ महामोहे निमज्जति ।। ५३
यदैवामोहमादत्ते नादत्ते पवनस्तदा ।
नत्वादत्ते यदा प्राणान्मोहमायात्यलं तदा ।। ५४
अन्योन्यपुष्टतां यातैर्मोहसंवेदनभ्रमैः ।
जन्तुः पाषाणतामेति स्थितमित्यादिसर्गतः ।। ५५
प्रबुद्धलीलोवाच ।
व्यथां विमोहं मूर्च्छान्तं भ्रमं व्याधिमचेतनम् ।
किमर्थमयमायाति देहो ह्यष्टाङ्गवानपि ।। ५६
श्रीदेव्युवाच ।
एवं संविहितं कर्म सर्गादौ स्पन्दसंविदा ।
यद्यस्मिन्समये दुःखं कालेनैतावतेदृशम् ।। ५७
स्यान्मे इत्येव संविश्य गुल्मवत्तत्स्वभावजम् ।
वेत्ति चित्तविजृम्भोत्थं नान्यदत्रास्ति कारणम् ।। ५८
यदा व्यथावशान्नाड्यः स्वसंकोचविकासनैः ।
गृह्णन्तिमारुतो देहे तदोज्झति निजां स्थितिम् ।। ५९
प्रविष्टा न विनिर्यान्ति गताः संप्रविशन्ति नो ।
यदा वाता विनाडीत्वात्तदा स्पन्दात्स्मृतिर्भवेत् ।। ६०
न विशत्येव वातो न निर्याति पवनो यदा ।
शरीरनाडीवैधुर्यान्मृत इत्युच्यते तदा ।। ६१
आगन्तव्यो मया नाशः कालेनैतावतेति या ।
पूर्वसंविदिता संविद्याति तच्चोदिता मृतिम् ।। ६२
ईदृशेन मयेहेत्थं भाव्यमित्यादि सर्गजा ।
संविद्वीजकला नाशं न कदाचन गच्छति ।। ६३
संविदो वेदनं नाम स्वभावोऽव्यतिरेकवान् ।
तस्मात्स्वभावसंवित्तेर्नान्ये मरणजन्मनी ।। ६४
क्वचिदावृतिमत्सौम्यं क्वचिन्नद्यां जलं यथा ।
क्वचित्सौम्यं क्वचिज्जीवधर्मेदं चेतनं तथा ।। ६५
यथा लतायाः पर्वाणि दीर्घाया मध्यमध्यतः ।
तथा चेतनसत्ताया जन्मानि मरणानि च ।। ६६
न जायते न म्रियते चेतनः पुरुषः क्वचित् ।
स्वप्नसंभ्रमवद्भ्रान्तमेतत्पश्यति केवलम् ।। ६७
पुरुषश्चेतनामात्रं स कदा क्वेव नश्यति ।
चेतनव्यतिरिक्तत्वे वदान्यत्किं पुमान्भवेत् ।। ६८
कोऽद्ययावन्मृतं ब्रूहि चेतनं कस्य किं कथम् ।
म्रियन्ते देहलक्षाणि चेतनं स्थितमक्षयम् ।। ६९
अमरिष्यन्न वै चित्तमेकस्मिन्नेव तन्मृते ।
अभविष्यत्सर्वभावमृतिरेकमृताविह ।। ७०
वासनामात्रवैचित्र्यं यज्जीवोऽनुभवेत्स्वयम् ।
तस्यैव जीवमरणे नामनी परिकल्पिते ।। ७१
एवं न कश्चिन्म्रियते जायते न च कश्चन ।
वासनावर्तगर्तेषु जीवो लुठति केवलम् ।। ७२
अत्यन्तासंभवादेव दृश्यस्यासौ च वासना ।
नास्त्येवेति विचारेण दृढज्ञातैव नश्यति ।। ७३
अनुदितमुदितं जगत्प्रबन्धं
भवभयतोऽभ्यसनैर्विलोक्य सम्यक् ।
अलमनुदितवासनो हि जीवो
भवति विमुक्त इतीह सत्यवस्तु ।। ७४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० मरणविचारो नाम चतुःपञ्चाशः सर्गः ।। ५४ ।।