योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ४८ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०४९
अज्ञातलेखकः
सर्गः ५० →


एकोनपञ्चाशः सर्गः ४९
श्रीवसिष्ठं उवाच ।
ववुर्वलितनीहारा विकीर्णवनपल्लवाः ।
वायवो धूतवृक्षौघाः सल्लीलापीडपांसवः ।। १
पक्षिवद्भ्रान्तवृक्षौघाः पतनोत्पातनोद्भटाः ।
विकुट्टिताट्टालखण्डाश्चाभ्रभित्तिविभेदिनः ।। २
तेनातिभीमवातेन विदूरथरथोऽप्यथ ।
उह्यमानोऽभवन्नद्या यथा जर्जरपल्लवः ।। ३
विदूरथोऽथ तत्याज पार्वतास्त्रं महास्त्रवित् ।
व्योमापि घनतोयेन समादातुमिवोद्यतम् ।। ४
तेन शैलास्त्रघातेन विराट् प्राणसमीरणः ।
शमं चैतन्यशान्त्येव प्रययौ वायुराततः ।। ५
अन्तरिक्षगता वृक्षपङ्क्तयः पतिता भुवि ।
नानाजनशवव्यूहे काकानामिव कोटयः ।। ६
शेमुः सूत्त्कारडान्कारभांकारोत्कारका दिशाम् ।
प्रलापा इव विध्वस्ताः पूर्ग्रामवनवीरुधाम् ।। ७
गिरीनपश्यन्नभसः पततः पत्रवर्णवत् ।
सिन्धुः सिन्धुरिवोत्पक्षान्मैनाकादीनितस्ततः ।। ८
वज्रास्त्रमसृजद्दीप्तं चेरुर्वज्रगणास्ततः ।
पिबन्तोऽद्रीन्द्रतिमिरमग्निदाहमिवाग्नयः ।। ९
ते गिरीणां तथा क्षिप्ताः कोटितुण्डावखण्डनैः ।
शिरांसि पातयामासुः फलानीवोल्बणानिलाः ।। 3.49.१०
विदूरथोऽथ वज्रास्त्रशान्त्यै ब्रह्मास्त्रमत्यगात् ।
ततो ब्रह्मास्त्रवज्रास्त्रे समं प्रशममागते ।। ११
श्यामाश्यामं पिशाचास्त्रमथ सिन्धुरचोदयत् । ।
तेनोदगुः पिशाचानां पङ्क्तयोऽत्यन्तभीतिदाः ।। १२ ।।
संध्यायामथ भीत्येव दिवसः श्यामतां ययौ । ।
पिशाचा भुवनं जग्मुरन्धकारभरा इव ।। १३ ।।
भस्मनः स्तम्भसदृशास्तालोत्तालविलासिनः । ।
दृश्यमानमहाकारा मुष्टिग्राह्या न किंचन ।। १४ ।।
ऊर्ध्वकेशाः कृशाङ्गाश्च केचिच्च श्मश्रुला अपि ।
कृष्णाङ्गा मलिनाङ्गाश्च ग्राम्या इव नभश्चराः ।। १५ ।।
सभया मूढदृष्टाश्च यत्किंचनकराश्चलाः ।
दीना वज्रासिनः क्रूरा दीना ग्राम्यजना इव ।। १६ ।
तरुकर्दमरथ्यान्तः शून्यगेहगृहाश्चलाः ।।
लेलिहानाः प्रेतरूपा कृष्णाङ्गाश्चपला इव ।। १७ ।
जगृहुस्ते तदा मत्ता हतशिष्टमरेर्बलम् ।
आसंस्तत्सैनिकास्तत्र भिन्नास्त्रक्षुब्धचेतनाः ।। १८ ।
त्यक्तायुधतनुत्राणास्त्रस्तप्राणाः स्खलद्गमाः । ।।
नेत्रैरङ्गेर्मुखैः पादैर्विकारभरकारिणः ।। १९
त्यक्तकौपीनवसना निमग्नावसनोत्तराः ।
विष्ठां मूत्रं च कुर्वन्तः स्थिरमारब्धनर्तनाः ।। 3.49.२०
पिशाचराजी राजानं तस्य यावद्विदूरथम् ।
समाक्रामति तावत्तां मायां स बुबुधे बुधः ।। २१
पिशाचसंग्रामकरीं मायां वेत्ति स भूमिपः ।
तया पिशाचसैन्यं तत्परसैन्ये न्ययोजयत् ।। २२
ततः स्वसैनिकाः स्वस्थाः परयोधाः पिशाचिनः ।
तस्याशु रूपिकास्त्रं च ददावन्यदसौ रुषा ।। २३
उदगुर्भूतलाद्व्योम्नो रूपिका ऊर्ध्वमूर्धजाः ।
निर्मग्नविकरालाक्ष्यश्चलच्छ्रोणिपयोधराः ।। २४
उद्भिन्नयौवना वृद्धाः पीवराङ्ग्योऽथ जर्जराः ।
स्वरूपारूपजघना दुर्नाभ्यो विकसद्भगाः ।। २५
नररक्तशिरोहस्ताः संध्याभ्रारुणगात्रिकाः ।
अर्धचर्वितमांसासृक्स्रवत्सृक्क्याकुलाननाः ।। २६
नानाङ्गवलना नानानमन्नमनसत्तमाः ।
शिलाभुजगवक्रोरुकटिपार्श्वकराङ्गिकाः ।। २७
नारीकृतार्भकशवा हस्ताकृष्टान्त्ररज्जवः ।
श्वकाकोलूकवदना निम्नवक्त्रहनूदराः ।। २८
जगृहुस्तान्पिशाचांस्ता दुर्बलान्दुःशिशूनिव ।
पिशाचरूपिकासैन्यं तदासीदेकतां गतम् ।। २९
निर्मग्ननर्तनोत्तानवदनाङ्गविलोचनम् ।
परस्पराक्रान्तिकरं प्रधावच्च परस्परम् ।। 3.49.३०
निष्कासितमहाजिह्व नानामुखविकारदम् ।
शरभाराढ्यमन्योन्यं ह्रियमाणशवाङ्गकम् ।। ३१
रुधिराम्भसि मज्जं तदुन्मज्जद्धृल्लसत्तनु ।
लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् ।। ३२
रक्तमांसमहापङ्केष्वन्योन्यं वेल्लनाभ्यसत् ।
मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् ।। ३३
यथैव मायासंचारस्तेन तस्य कृतः पुरा ।
तेनापि तस्याशु तथा कृतो बुद्ध्वा स लाघवात् ।। ३४
वेतालास्त्रं ततो दत्ते तेनोत्तस्थुः शवव्रजाः ।
अमूर्धानः समूर्धानो वेताला वेशवल्लिताः ।। ३५
ततः पिशाचवेतालरूपिकोग्रकबन्धवत् ।
तद्बभूव बलं भीममुर्वीनिगरणक्षमम् ।। ३६
अथेतरोऽपि भूपालो मायां संचार्य तां गुरौ ।
राक्षसास्त्रं ससर्जाथ त्रैलोक्यग्रहणोन्मुखम् ।। ३७
उदगुः पर्वताकाराः सर्वतः स्थूलराक्षसाः ।
देहमाश्रित्य निष्क्रान्ताः पातालान्नरका इव ।। ३८
अथोदभूद्बलं भीमं ससुरासुरभीतिदम् ।
गर्जद्रक्षोमहानादवाद्यनृत्यत्कबन्धकम् ।। ३९
मेदोमांसोपदंशाढ्यं रुधिरासवसुन्दरम् ।
क्षीबकूश्माण्डवेतालयक्षताण्डवसुन्दरम् ।। 3.49.४०
कूश्माण्डकोत्ताण्डवदण्डपाद-
क्षुब्धासृगुत्क्षिप्ततरङ्गसिक्तैः ।
संध्याभ्ररागोत्करकोटिकान्ति
भूतैरसृक्स्रोतसि दत्तसेतु ।। ४१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० तृतीयास्त्रयुद्धं नामैकोनपञ्चाशः सर्गः ।। ४९ ।।