योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००७
सप्तमः सर्गः ७
श्रीराम उवाच ।
य एष देवः कथितो यस्मिञ्ज्ञाते विमुच्यते ।
वद क्वासौ स्थितो ब्रह्मन्कथमेनमहं लभे ।। १
श्रीवसिष्ठ उवाच ।
य एष देवः कथितो नैष दूरेऽवतिष्ठते ।
शरीरे संस्थितो नित्यं चिन्मात्रमिति विश्रुतः ।। २
एष सर्वमिदं विश्वं न विश्वं चैष सर्वगः ।
विद्यते ह्येष एवैको न तु विश्वाभिधास्ति दृक् ।। ३
चिन्मात्रमेव शशिभृच्चिन्मात्रं गरुडेश्वरः ।
चिन्मात्रमेव तपनश्चिन्मात्रं कमलोद्भवः ।। ४
श्रीराम उवाच ।
बाला अपि वदन्त्येतद्यदि चेतनमात्रकम् ।
जगदित्येव केवात्र नाम स्यादुपदेशता ।। ५
श्रीवसिष्ठ उवाच ।
चिन्मात्रं चेतनं विश्वमिति यज्ज्ञातवानसि ।
न किंचिदेव विज्ञातं भवता भवनाशनम् ।। ५
चेतनं राम संसारो जीव एष पशुः स्मृतः ।
एतस्मादेव निर्यान्ति जरामरणभीतयः ।। ७
पशुरज्ञो ह्यमूर्तोऽपि दुःखस्यैवैष भाजनम् ।
चेतनत्वाच्चेतनीयं मनोऽनर्थः स्वयं स्थितः ।। ८
चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताथवा ।
अस्य सा भरितावस्था तां ज्ञात्वा नानुशोचति ।। ९
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।। १०
तस्य चेत्योन्मुखत्वं तु चेत्यासंभवनं विना ।
रोद्धुं न शक्यते दृश्यं चेत्यं शाम्यति वै कथम् ।। ११
अचेत्यचित्स्वरूपं यत्तच्चासंभवनं विना ।
क्व स्वरूपोन्मुखत्वं हि केवलं चेत्यरोधतः ।। १२
श्रीराम उवाच ।
यस्मिञ्जीवे हि विज्ञाते न विनश्यति संसृतिः ।
व्योमरूपी पशुस्त्वज्ञः स ब्रह्मन्कुत्र कीदृशः ।। १३
साधुसंगमसच्छास्त्रैः संसारार्णवतारकः ।
दृश्यते परमात्मा यः स ब्रह्मन्वद कीदृशः ।। १४
श्रीवसिष्ठ उवाच ।
यदेतच्चेतनं जीवो विशीर्णो जन्मजङ्गले ।
एतमात्मानमिच्छन्ति ये तेऽज्ञाः पण्डिता अपि ।। १५
जीव एव हि संसारश्चेतना दुःखसंततिः ।
अस्मिञ्ज्ञाते न विज्ञातं किंचिद्भवति कुत्रचित् ।। १६
ज्ञायते परमात्मा चेद्राम दुःखस्य संततिः ।
क्षयमेति विषावेशशान्ताविव विषूचिका ।। १७
श्रीराम उवाच ।
रूपं कथय मे ब्रह्मन्यथावत्परमात्मनः ।
यस्मिन्दृष्टे मनो मोहान्समग्रान्संतरिष्यति ।। १८
श्रीवसिष्ठ उवाच ।
देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।
निमिषेणैव यन्मध्ये तद्रूपं परमात्मनः ।। १९
अत्यन्ताभाव एवास्ति संसारस्य यथास्थितेः ।
यस्मिन्बोधमहाम्भोधौ तद्रूपं परमात्मनः ।। २०
द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्यस्तमयं गतः ।
यदनाकाशमाकाशं तद्रूपं परमात्मनः ।। २१
अशून्यमिव यच्छून्यं यस्मिन्शून्यं जगत्स्थितम् ।
सर्गौघे सति यच्छून्यं तद्रूपं परमात्मनः ।। २२
यन्महाचिन्मयमपि बृहत्पाषाणवत्स्थितम् ।
जडं वा जडमेवान्तस्तद्रूपं परमात्मनः ।। २३
सबाह्याभ्यन्तरं येन सर्वं संप्राप्य संगमम् ।
स्वरूपसत्तामाप्नोति तद्रूपं परमात्मनः ।। २४
प्रकाशस्य यथालोकः शून्यत्वं नभसो यथा ।
तथेदं संस्थितं यत्र तद्रूपं परमात्मनः ।। २५
श्रीराम उवाच ।
सद्रूपं परमात्मेति कथं नाम हि बुध्यते ।
इयतोऽस्य जगन्नाम्नो दृश्यस्यासंभवः कथम् ।। २६
श्रीवसिष्ठ उवाच ।
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अत्यन्ताभावसंबोधे यदि रूढिरलं भवेत् ।। २७
तज्ज्ञातं ब्रह्मणो रूपं भवेन्नान्येन कर्मणा ।
दृश्यात्यन्ताभावतस्तु ऋते नान्या शुभा गतिः ।। २८
अत्यन्ताभावसंपत्तौ दृश्यस्यास्य यथा स्थितेः ।
शिष्यते परमार्थोऽसौ बुध्यते जायते ततः ।। २९
न विदः प्रतिबिम्बोऽस्ति दृश्याभावादृते क्वचित् ।
क्वचिन्नाप्रतिबिम्बेन किलादर्शोऽवतिष्ठते ।। ३०
जगन्नाम्नोऽस्य दृश्यस्य स्वसत्तासंभवं विना ।
बुध्यते परमं तत्त्वं न कदाचन केनचित् ।। ३१
श्रीराम उवाच ।
इयतो दृश्यजातस्य ब्रह्माण्डस्य जगत्स्थितेः ।
मुने कथमसत्तास्ति क्व मेरुः सर्षपोदरे ।। ३२
श्रीवसिष्ठ उवाच ।
दिनानि कतिचिद्राम यदि तिष्ठस्यखिन्नधीः ।
साधुसंगमसच्छास्त्रपरमस्तदहं क्षणात् ।। ३३
प्रमार्जयामि ते दृश्यं बोधे मृगजलं यथा ।
दृश्याभावे द्रष्टृता च शाम्येद्बोधोऽवशिष्यते ।। ३४
द्रष्टृत्वं सति दृश्येऽस्मिन्दृश्यत्वं सत्यथेक्षके ।
एकत्वं सति हि द्वित्वे द्वित्वं चैकत्वयोजने ।। ३५
एकाभावे द्वयोरेव सिद्धिर्भवति नात्र हि ।
द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सदवशिष्यते ।। ३६
अहंतादिजगदृश्यं सर्वं ते मार्जयाम्यहम् ।
अत्यन्ताभावसंवित्त्या मनोमुकुरतो मलम् ।। ३७
नासतो विद्यते भावो नाभावो विद्यते सतः ।
यत्तु नास्ति स्वभावेन कः क्लेशस्तस्य मार्जने ।। ३८
जगदादावनुत्पन्नं यच्चेदं दृश्यते ततम् ।
तत्स्वात्मन्येव विमले ब्रह्मचित्त्वात्स्वबृंहितम् ।। ३९
जगन्नाम्ना न चोत्पन्नं न चास्ति न च दृश्यते ।
हेम्नीव कटकादित्वं किमेतन्मार्जने श्रमः ।। ४०
तथैतद्विस्तरेणाहं वक्ष्यामि बहुयुक्तिभिः ।
अबाधितं यथा तत्त्वं स्वयमेवानुभूयते ।। ४१
आदावेव हि नोत्पन्नं यत्तस्येहास्तिता कुतः ।
कुतो मरौ जलसरिद्द्वितीयेन्दौ कुतो ग्रहः ।। ४२
यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ।
यथा नास्ति नभोयक्षस्तथा नास्ति जगद्भ्रमः ।। ४३
यदिदं दृश्यते राम तद्वह्मैव निरामयम् ।
एतत्पुरस्ताद्वक्ष्यामि युक्तितो न गिरैव च ।। ४४
यन्नाम युक्तिभिरिह प्रवदन्ति तज्ज्ञा-
स्तत्रावहेलनमयुक्तमुदारबुद्धे ।
यो यक्तियुक्तमवमत्य विमूढबुद्धिः
कष्टाग्रहो भवति तं विदुरज्ञमेव ।। ४५
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जगदादिदृश्यासत्ताप्रतिज्ञा नाम सप्तमः सर्गः ।। ७ ।।