योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०५५

विकिस्रोतः तः


पञ्चपञ्चाशः सर्गः ५५
प्रबुद्धलीलोवाच ।
यथैव जन्तुर्म्रियते जायते च यथा पुनः ।
तन्मे कथय देवेशि पुनर्बोधविवृद्धये ।। १
श्रीदेव्युवाच ।
नाडीप्रवाहे विधुरे यदा वातविसंस्थितिम् ।
जन्तुः प्राप्नोति हि तदा शाम्यतीवास्य चेतना ।। २
शुद्धं हि चेतनं नित्यं नोदेति न च शाम्यति ।
स्थावरे जङ्गमे व्योम्नि शैलेऽग्नौ पवने स्थितम् ।। ३
केवलं वातसंरोधाद्यदा स्पन्दः प्रशाम्यति ।
मृत इत्युच्यते देहस्तदासौ जडनामकः ।। ४
तस्मिन्देहे शवीभूते वाते चानिलतां गते ।
चेतनं वासनामुक्तं स्वात्मतत्त्वेऽवतिष्ठति ।। ५
जीव इत्युच्यते तस्य नामाणोर्वासनावतः ।
तत्रैवास्ते स च शवागारे गगनके तथा ।। ६
ततोऽसौ प्रेतशब्देन प्रोच्यते व्यवहारिभिः ।
चेतनं वासनामिश्रमामोदानिलवत्स्थितम् ।। ७
इदं दृश्यं परित्यज्य यदास्ते दर्शनान्तरे ।
स स्वप्न इव संकल्प इव नानाकृतिस्तदा ।। ८
तस्मिन्नेव प्रदेशेऽन्तः पूर्ववत्स्मृतिमान्भवेत् ।
तदैव मृतिमूर्च्छान्ते पश्यत्यन्यशरीरकम् ।। ९
आत्मन्यस्ति घटापुष्टमन्यस्य व्योम केवलम् ।
आकाशभूतले साकं साकाशशशिवासरम् ।। १०
भवन्ति षड्विधाः प्रेतास्तेषां भेदमिमं श्रृणु ।
सामान्यपापिनो मध्यपापिनः स्थूलपापिनः ।। ११
सामान्यधर्मा मध्यमधर्मा चोत्तमधर्मवान् ।
एतेषां कस्यचिद्भेदो द्वौ त्रयोऽप्यथ कस्यचित् ।। १२
कश्चिन्महापातकवान्वत्सरं स्मृतिमूर्च्छनम् ।
विमूढोऽनुभवत्यन्तः पाषाणहृदयोपमः ।। १३
ततः कालेन संबुद्धो वासनाजठरोदितम् ।
अनुभूय चिरं कालं नारकं दुःखमक्षयम् ।। १४
भुक्त्वा योनिशतान्युच्चैर्दुःखाद्दुःखान्तरं गतः ।
कदाचिच्छममायाति संसारस्वप्नसंभ्रमे ।। १५
अथवा मृतिमोहान्ते जडदुःखशताकुलाम् ।
क्षणाद्वृक्षादितामेव हृत्स्थामनुभवन्ति ते ।। १६
स्ववासनानुरूपाणि दुःखानि नरके पुनः ।
अनुभूयाथ योनीषु जायन्ते भूतले चिरात् ।। १७
अथ मध्यमपापो यो मृतिमोहादनन्तरम् ।
सशिलाजठरं जाड्यं कंचित्कालं प्रपश्यति ।। १८
ततः प्रबुद्धः कालेन केनचिद्वा तदैव वा ।
तिर्यगादिक्रमैर्भुक्त्वा योनीः संसारमेष्यति ।। १९
मृत एवानुभवति कश्चित्सामान्यपातकी ।
स्ववासनानुसारेण देहं संपन्नमक्षतम् ।। २०
स स्वप्न इव संकल्प इव चेतति तादृशम् ।
तस्मिन्नेव क्षणे तस्य स्मृतिरित्थमुदेति च ।। २१
ये तूत्तममहापुण्या मृतिमोहादनन्तरम् ।
स्वर्गविद्याधरपुरं स्मृत्या स्वनुभवन्ति ते। ।। २२
ततोऽन्यकर्मसदृशं भुक्त्वान्यत्र फलं निजम् ।
जायन्ते मानुषे लोके सश्रीके सज्जनास्पदे ।। २३
ये च मध्यमधर्माणो मृतिमोहादनन्तरम् ।
ते व्योमवायुवलिताः प्रयान्त्योषधिपल्लवम् ।। २४
तत्र चारुफलं भुक्त्वा प्रविश्य हृदयं नृणाम् ।
रेतसामधितिष्ठन्ति गर्भे जातिक्रमोचिते ।। २५
स्ववासनानुसारेण प्रेता एतां व्यवस्थितिम् ।
मूर्च्छान्तेऽनुभवन्त्यन्तः क्रमेणैवाक्रमेण च ।। २६
आदौ मृता वयमिति बुध्यन्ते तदनुक्रमात् ।
बन्धुपिण्डादिदानेन प्रोत्पन्ना इति वेदिनः ।। २७
ततो यमभटा एते कालपाशान्विता इति ।
नीयमानः प्रयाम्येभिः क्रमाद्यमपुरं त्विति ।। २८
उद्यानानि विमानानि शोभनानि पुनःपुनः ।
स्वकर्मभिरुपात्तानि दिव्यानीत्येव पुण्यवान् ।। २७
हिमानीकण्टकश्वभ्रशस्त्रपत्रवनानि च ।
स्वकर्मदुष्कृतोत्थानि संप्राप्तानीति पापवान् ।। ३०
इयं मे सौम्यसंपाता सरणिः शीतशाद्वला ।
स्निग्धच्छाया सवापीका पुरःसंस्थेति मध्यमः ।। ३१
अयं प्राप्तो यमपुरमहमेष स भूतपः ।
अयं कर्मविचारोऽत्र कृत इत्यनुभूतिमान् ।। ३२
इति प्रत्येकमभ्येति पृथुः संसारखण्डकः ।
यथासंस्थितनिःशेषपदार्थाचारभासुरः ।। ३३
आकाश इव निःशून्ये शून्यात्मैव विबोधवान् ।
देशकालक्रियादैर्घ्यभासुरोऽपि न किंचन ।। ३४
इतोऽयमहमादिष्टः स्वकर्मफलभोजने ।
गच्छाम्याशु शुभं स्वर्गमितो नरकमेव च ।। ३५
यः स्वर्गोऽयं मया भुक्तो भुक्तोऽयं नरकोऽथ वा ।
इमास्ता योनयो भुक्ता जायेऽहं संसृतौ पुनः ।। ३६
अयं शालिरहं जातः क्रमात्फलमहं स्थितः ।
इत्युदर्कप्रबोधेन बुध्यमानो भविष्यति ।। ३७
संसुप्तकरणस्त्वेवं बीजतां यात्यसौ नरे
तद्बीजं योनिगलितं गर्भो भवति मातरि ।। ३८
स गर्भो जायते लोके पूर्वकर्मानुसारतः ।
भव्यो भवत्यभव्यो वा बालको ललिताकृतिः ।। ३९
ततोऽनुभवतीन्द्वाभं यौवनं मदनोन्मुखम् ।
ततो जरां पद्ममुखे हिमाशनिमिव च्युतम् ।। ४०
ततोऽपि व्याधिमरणं पुनर्मरणमूर्च्छनाम् ।
पुनः स्वप्नवदायातं पिण्डैर्देहपरिग्रहम् ।। ४१
याम्यं याति पुनर्लोकं पुनरेव भ्रमक्रमम् ।
भूयो भूयोऽनुभवति नानायोन्यन्तरोदये ।। ४२
इत्याजवं जवीभावमामोक्षमतिभासुरम् ।
भूयो भूयोऽनुभवति व्योम्न्येव व्योमरूपवान् ।। ४३
प्रबुद्धलीलोवाच ।
आदिसर्गे यथा देवि भ्रम एष प्रवर्तते ।
तथा कथय मे भूयः प्रसादाद्वोधवृद्धये ।। ४४
श्रीदेव्युवाच ।
परमार्थघनं शैलाः परमार्थघनं द्रुमाः ।
परमार्थघनं पृथ्वी परमार्थघनं नभः ।। ४५
सर्वात्मकत्वात्स यतो यथोदेति चिदीश्वरः ।
परमाकाशशुद्धात्मा तत्र तत्र भवेत्तथा ।। ४६
सर्गादौ स्वप्नपुरुषन्यायेनादिप्रजापतिः ।
यथा स्फुटं प्रकचितस्तथाद्यापि स्थिता स्थितिः ।।४७
प्रथमोऽसौ प्रतिस्पन्दः पदार्थानां हि बिम्बकम् ।
प्रतिबिम्बितमेतस्माद्यत्तदद्यापि संस्थितम् ।। ४८
यन्नाम सुषिरं स्थानं देहानां तद्गतोऽनिलः ।
करोत्यङ्गपरिस्पन्दं जीवतीत्युच्यते ततः ।। ४९
सर्गादावेवमेवैषा जङ्गमेषु स्थिता स्थितिः ।
चेतना अपि निःस्पन्दास्तेनैते पादपादयः ।। ५०
चिदाकाशोऽयमेवांशं कुरुते चेतनोदितम् ।
स एव संविद्भवति शेषं भवति नैव तत् ।। ५१
नरोपाधिपुरं प्राप्तं चेतत्यक्षिपुटं नयत् ।
तत्तस्या नाक्षिचिज्जीवं नो जीवत्येव सर्गतः ।। ५२
तथा खं खं तथा भूमिर्भूमित्वेनाप्त्ववज्जलम् ।
यद्यथा चेतति स्वैरं तद्वेत्त्येव तथा वपुः ।। ५३
इति सर्वशरीरेण जंगमत्वेन जंगमम् ।
स्थावरं स्थावरत्वेन सर्वात्मा भावयन् स्थितः ।। ५४
तस्माद्यज्जङ्गमं नाम तत्स्वबोधनरूपवत् ।
तेन बुद्धं ततस्तद्बत्तदेवाद्यापि संस्थितम् ।। ५५
यद्वृक्षाभिधमाबुद्धं स्थावरत्वेन वै पुनः ।
जडमद्यापि संसिद्धं शिलातरुतृणादि च ।। ५६
न तु जाड्यं पृथक्किंचिदस्ति नापि च चेतनम् ।
नात्र भेदोऽस्ति सर्गादौ सत्तासामान्यकेन च ।। ५७
वृक्षाणामुपलानां या नामान्तःस्थाः स्वसंविदः ।
बुद्ध्यादिविहितान्येव तानि तेषामिति स्थितिः ।। ५८
विदोन्तःस्थावरादेर्यास्तस्या बुद्ध्यास्तथा स्थितेः ।
अन्याभिधानास्थानार्थाः संकेतैरपरैः स्थिताः ।। ५९
कृमिकीटपतङ्गानां या नामान्तःस्वसंविदः ।
तान्येव तेषां बुद्ध्यादीन्यभिधार्थानि कानिचित् ।। ६०
यथोत्तराब्धिजनता दक्षिणाब्धिजनं स्थितम् ।
न किंचिदपि जानाति निजसंवेदनादृते ।। ६१
स्वसंज्ञानुभवे लीनास्तथा स्थावरजङ्गमाः ।
परस्परं यदा सर्वे स्वसंकेतपरायणाः ।। ६२
यथा शिलान्तःसंस्थानां बहिष्ठानां च वेदनम् ।
असज्जडं च भेकानां मिथोऽन्तस्तस्थुषां तथा ।। ६३
सर्वं सर्वगतं चित्तं चिद्व्योम्ना यत्प्रचेतितम् ।
सर्गादौ चोपनं वायुः स इहाद्यापि संस्थितः ।। ६४
चेतितं यत्तु सौषिर्यं तन्नभस्तत्र मारुतः ।
स्पन्दात्मेत्यादिसर्गेहाः पदार्थेष्विव चोपनम् ।। ६५
चित्तं तु परमार्थेन स्थावरे जंगमे स्थितम् ।
चोपनान्यनिलैरेव भवन्ति न भवन्ति च ।। ६६
एवं भ्रान्तिमये विश्वे पदार्थाः संविदंशवः ।
सर्गादिषु यथैवासंस्तथैवाद्यापि संस्थिताः ।। ६७
यथा विश्वपदार्थानां स्वभावस्य विजृम्भितम् ।
असत्यमेव सत्याभं तदेतत्कथितं तव ।। ६८
अयमस्तं गतः प्रायः पश्य राजा विदूरथः ।
मालाशवस्य पद्मस्य पत्युस्ते याति हृद्गतम् ।। ६९
प्रबुद्धलीलोवाच ।
केन मार्गेण देवेशि यात्येष शवमण्डपम् ।
एनमेवाशु पश्यन्त्यावावां गच्छाव उत्तमे ।। ७०
श्रीदेव्युवाच ।
मनुष्यवासनान्तस्थं मार्गमाश्रित्य गच्छति ।
एषोऽहमपरं लोकं दूरं यामीति चिन्मयः ।। ७१
मार्गेणैवमनेनैव यावस्तेयेन (?) संमतम् ।
परस्परेच्छाविच्छित्तिर्न हि सौहार्दबन्धनी ।। ७२
श्रीवसिष्ठ उवाच ।
इति विहितकथागतक्लमायां
परमदृशि प्रसृते विबोधभानौ ।
नृपतिवरसुतामनस्युदारे
विगलितचित्तजडो विदूरथोऽभूत् ।। ७३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे लीलो० संसारमरणावस्थावर्णनं नाम पञ्चपञ्चाशः सर्गः ।।५५।।