योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०५७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


सप्तपञ्चाशः सर्गः ५७
श्रीवसिष्ठ उवाच ।
ततो ददृशतुस्तत्र शवशय्यैकपार्श्वगाम् ।
लीलां विदूरथस्याग्रे मृतां ते प्रथमागताम् ।। १
प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राक्सवासनाम् ।
प्राक्तनाकारसदृशीं सर्वरूपाङ्गसुन्दरीम् ।। २
प्राग्रूपावयवस्पन्दां प्रागम्बरपरीवृताम् ।
प्राग्भूषणभरच्छन्नां केवलं तत्र संस्थिताम् ।। ३
गृहीतचामरां चारु वीजयन्तीं महीपतिम् ।
उद्यच्चन्द्रामिव दिवं भूषयन्तीं महीतलम् ।। ४
मौनस्थां वामहस्तस्थवदनेन्दुतया नताम् ।
भूषणांशुलतापुष्पैः फुल्लामिव वनस्थलीम् ।। ५
कुर्वाणां वीक्षितैर्दिक्षु मालत्युत्पलवर्षणम् ।
सृजन्तीमात्मलावण्यादिन्दुमिन्दुं नभोदितम् ।। ६
नरपालात्मनो विष्णोर्लक्ष्मीमिव समागताम् ।
उदितां पुष्पसंभारादिव पुष्पाकरश्रियम् ।। ७
भर्तुर्वदनके न्यस्तदृष्टिमिष्टविचेष्टिताम् ।
किंचित्प्रम्लानवदनां म्लानचन्द्रां निशामिव ।। ८
ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते ।
यस्मात्ते सत्यसंकल्पे सा न तावत्तथोदिता ।। ९
श्रीराम उवाच ।
तस्मिन्प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् ।
ध्यानेन ज्ञप्तिसहिता गताभूदिति वर्णितम् ।। १०
किमिदानीं स लीलाया देहस्तत्र न वर्णितः ।
किंसंपन्नः क्व वा यात इति मे कथय प्रभो ।। ११
श्रीवसिष्ठ उवाच ।
क्वासील्लीलाशरीरं तत्कुतस्तस्यास्ति सत्यता ।
केवला भ्रान्तिरेवाभूज्जलबुद्धिर्मराविव ।। १२
आत्मैवेदं जगत्सर्वं कुतो देहादिकल्पना ।
ब्रह्मैऽवानन्दरूपं सद्यत्पश्यसि तदेव चित् ।। १३
यथैव बोधे लीलासौ परिणाममिता क्रमात् ।
परे तथैव तस्मात्तद्धिमवद्गलितं वपुः ।। १४
 ( आतिवाहिकदेहस्य कालेनाभ्युदितो भ्रमः ।
आधिभौतिकदेहोऽहमिति रज्जुभुजंगवत् ।। १ ।।)
आतिवाहिकदेहेन दृश्यं यदवलोकितम् ।
भूम्यादि नाम तस्यैव कृतं तच्चाधिभौतिकम् ।। १५
वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः ।
न शब्देन न चार्थेन सत्यात्मा शशश्रृङ्गवत् ।। १६
पुंसो हरिणकोऽस्मीति स्वप्ने यस्योदिता मतिः ।
स किमन्विष्यति मृगं स्वमृगत्वपरिक्षये ।। १७
उदेत्यसत्यमेवाशु तथा सत्यं विलीयते ।
भ्रान्तिर्भ्रमवतो रज्वामपि सर्पभ्रमे गते ।। १८
समस्तस्याप्रबुद्धस्य मनोजातस्य कस्यचित् ।
बीजं विना मृषैवेयं मिथ्यारूढिमुपागता ।। १९
स्वप्नोपलम्भं सर्गाख्यं स सर्वोऽनुभवन्स्थितः ।
चिरमावृत्तदेहात्मा भूचक्रभ्रमणं यथा ।। २०
श्रीराम उवाच ।
ब्रह्मँल्लोकैः पुरस्थस्य गच्छतो योगिनो निजम् ।
आतिवाहिकतां देहः कीदृशोऽयं विलोक्यते ।। २१
श्रीवसिष्ठ उवाच ।
देहाद्देहान्तरप्राप्तिः पूर्वदेहं विना सदा ।
आतिवाहिकदेहेऽस्मिन्स्वप्नेष्विव विनश्वरी ।। २२
यथातपे हिमकणः शरद्व्योम्नि सितोऽम्बुदः ।
दृश्यमानोऽप्यदृश्यत्वमित्येवं योगिदेहकः ।। २३
द्रागित्येवाथवा कश्चिद्योगिदेहो न लक्ष्यते ।
योगिभिश्च पुरो वेगात्प्रोड्डीन इव खे खगः ।। २४
स्ववासनाभ्रमेणैव क्वचित्केचित्कदाचन ।
मृतोऽयमिति पश्यन्ति केचिद्योगिनमग्रगाः ।। २५
भ्रान्तिमात्रं तु देहात्मा तेषां तदुपशाम्यति ।
सत्यबोधेन रज्जूनां सर्पबुद्धिरिवात्मनि ।। २६
को देहः कस्य वा सत्ता कस्य नाशः कथं कुतः ।
स्थितं तदेव यदभूदबोधः केवलं गतः ।। २७
श्रीराम उवाच ।
आतिवाहिकतामेति आधिभौतिक एव किम् ।
उतान्य इति मे ब्रूहि येनोह्य इव भोः प्रभो ।। २८
श्रीवसिष्ठ उवाच ।
बहुशो ह्युक्तमेतत्ते न गृह्णासि किमुत्तम ।
आतिवाहिक एवास्ति नास्त्येवेहाधिभौतिकः ।। २९
तस्यैवाभ्यसतोऽप्येति साधिभौतिकतामतिः ।
यदा शाम्यति सैवास्य तदा पूर्वा प्रवर्तते ।। ३०
तदा गुरुत्वं काठिन्यमिति यश्च मुधा ग्रहः ।
शाम्येत्स्वप्ननरस्येव बोद्धुर्बोधान्निरामयात् ।। ३१
लघुतूलसमापत्तिस्ततः समुपजायते ।
स्वप्ने स्वप्नपरिज्ञानादिव देहस्य योगिनः ।। ३२
स्वप्ने स्वप्नपरिज्ञानाद्यथा देहो लघुर्भवेत् ।
तथा बोधादयं देहः स्थूलवत्प्लुतिमान्भवेत् ।। ३३
अनेकदिनसंकल्पदेहे परिणतात्मनाम् ।
अस्मिन्देहे शवे दग्धे तत्रैवास्थितिमीयुषाम् ।। ३४
लघुदेहानुभवनमवश्यं भावि वै तथा ।
प्रबोधातिशयादेति जीवतामपि योगिनाम् ।। ३५
उदितायां स्मृतौ तत्र संकल्पात्माहमित्यलम् ।
यादृशः स भवेद्देहस्तादृशोऽयं प्रबोधतः ।। ३६
भ्रान्तिरेवमियं भाति रज्ज्वामिव भुजङ्गता ।
किं नष्टमस्यां नष्टायां जातायां किं प्रजायते ।। ३७
श्रीराम उवाच ।
अनन्तर ये वास्तव्या लीलां पश्यन्ति ते यदि ।
तत्सत्यसंकल्पतया बुध्यन्ते किमतः प्रभो ।। ३८
श्रीवसिष्ठ उवाच ।
एवं ज्ञास्यन्ति ते राज्ञी स्थितेयमिह दुःखिता ।
वयस्या काचिदन्येयं कुतोऽप्यस्या उपागता ।। ३९
संदेहः क इवात्रैषां पशवो ह्यविवेकिनः ।
यथादृष्टं विचेष्टन्ते कुत एषां विचारणा ।। ४०
यथा लोष्टो लुठद्वृक्षं वञ्चयित्वाशु गच्छति ।
अज्ञानत्वेऽजपशवस्तथा ह्यस्ति पुरादिकम् ।। ४१
यथा स्वप्नवपुर्बोधान्न जाने क्वेव गच्छति ।
असत्यमेव तद्यस्मात्तथैवेहाधिभौतिकम् ।। ४२
श्रीराम उवाच ।
भगवन्स्वप्नशिखरी प्रबोधे क्वेव गच्छति ।
इति मे संशयं छिन्धि शरदभ्रमिवानिलः ।। ४३
श्रीवसिष्ठ उवाच ।
स्वप्नभ्रमेऽथ संकल्पे पदार्थाः पर्वतादयः ।
संविदोऽन्तर्मिलन्त्येते स्पन्दनान्यनिले यथा ।। ४४
अस्पन्दस्य यथा वायोः सस्पन्दोऽन्तर्विशत्यलम् ।
अनन्यात्मा तथैवायं स्वप्नार्थः संविदो मलम् ।। ४५
स्वप्नाद्यर्थावभासेन संविदेव स्फुरत्यलम् ।
अस्फुरन्ती तु तेनैव यात्येकत्वं तदात्मिका ।। ४६
संवित्स्वप्नार्थयोर्द्वित्वं न कदाचन लभ्यते ।
यथा द्रवत्वपयसोर्यथा वा स्पन्दवातयोः ।। ४७
यस्तत्र स्यादिवाबोधस्तदज्ञानमनुत्तमम् ।
सैषासंसृतिरित्युक्ता मिथ्याज्ञानात्मिकोदिता ।। ४८
सहकारिकारणानामभावे किल कीदृशी ।
संवित्स्वप्नपदार्थानां द्विता स्वप्ने निरर्थिका ।। ४१
यथा स्वप्नस्तथा जाग्रदिदं नास्त्यत्र संशयः ।
स्वप्ने पुरमसद्भाति सर्गादौ भात्यसज्जगत् ।। ५०
न चार्थो भवितुं शक्यः सत्यत्वे स्वप्नतोदितः ।
संविदो नित्यसत्यत्वं स्वप्नार्थानामसत्यता ।। ५१
झटित्येव यथाकाशं भवति स्वप्नपर्वतः ।
क्रमेण वा तथा बोधे खं भवत्याधिभौतिकम् ।। ५२
उड्डीनोऽयं मृतो वेति पश्यन्ति निकटस्थिताः ।
ज्ञमातिवाहिकीभूतं स्वस्वभावहता यतः ।। ५३
मिथ्यादृष्टय एवेमाः सृष्टयो मोहदृष्टयः ।
मायामात्रदृशो भ्रान्तिः शून्याः स्वप्नानुभूतयः ।। ५४
स्वप्नानुभूतय इमा मरणान्तबोधे
भ्रान्त्येतरभ्रमदृशः स्फुटसर्गभासः ।
भान्त्यातिवाहिकशरीरगताः समस्ता
मिथ्योदिता मृगनदीसरणक्रमेण ।। ५५
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० स्वप्नार्थस्य विचारो नाम सप्तपञ्चाशः सर्गः ।। ५७ ।।