योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ११४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


चतुर्दशोत्तरशततमः सर्गः ११४
श्रीराम उवाच ।
अविद्याविभवप्रोत्थं निविडं पुरुषस्य हि ।
महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति ।। १
श्रीवसिष्ठ उवाच ।
यथा तुषारकणिका भास्करालोकनात्क्षणात् ।
नश्यत्येवमविद्येयं राघवात्मावलोकनात् ।। २
तावत्संसारभृगुषु स्वात्मना सह देहिनम् ।
आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु ।। ३
अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी ।
स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी ।। ४
अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते ।
आतपानुभवार्थिन्याश्छायाया इव राघव ।। ५
दृष्टे सर्वगते बोधे स्वयमेव विलीयते ।
सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा ।। ६
इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते ।
स चासंकल्पमात्रेण सिद्धो भवति राघव ।। ७
मनागपि मनोव्योम्नि वासनारजनीक्षये ।
कालिमा तनुतामेति चिदादित्यमहोदयात् ।। ८
यथोदिते दिनकरे क्वापि याति तमस्विनी ।
तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते ।। ९
दृढवासनया बन्धो घनतामेति चेतसः ।
बलाद्वेतालसंकल्पः संध्याकाले यथा शिशोः ।। १०
श्रीराम उवाच ।
यावत्किंचिदिदं दृश्यं साविद्या क्षीयते च सा ।
आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः ।। ११
श्रीवसिष्ठ उवाच ।
चेत्यानुपातरहितं सामान्येन च सर्वगम् ।
यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ।। १२
आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत् ।
तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ ।। १३
सर्वं च खल्विदं ब्रह्म नित्यं चिद्धनमक्षतम् ।
कल्पनान्या मनोनाम्नी विद्यते नहि काचन ।। १४
न जायते न म्रियते किंचिदत्र जगत्त्रये ।
न च भावविकाराणां सत्ता क्वचन विद्यते। ।। १५
केवलं केवलाभासं सर्वसामान्यमक्षतम् ।
चेत्यानुपातरहितं चिन्मात्रमिह विद्यते ।। १६
तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।
शान्ते समसमाभोगे निर्विकारोदितात्मनि ।। १७
यैषा स्वभावातिगतं स्वयं संकल्प्य धावति ।
चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम् ।। १८
एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः ।
विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः ।। १९
एकस्मिन्वितते शान्ते या न किंचन विद्यते ।
संकल्पमात्रेण गता सा सिद्धिं परमात्मनि ।। २०
अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ।
येनैव जाता तेनैव वह्निज्वालेव वायुना ।। २१
पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता ।
असंकल्पनमात्रेण साविद्या प्रविलीयते ।। २२
नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः ।
सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ।। २३
संकल्पः परमो बन्धस्त्वसंकल्पो विमुक्तता ।
संकल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु ।। २४
दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा ।
लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा ।। २५
उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः ।
विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम् ।। २६
विकल्पजालिकेवेत्थमसत्येवापि सत्समा ।
मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते ।। २७
तथैवेयमविद्येह भवबन्धनबन्धनी ।
चपला न सुखायैव बालेन कलिता दृढा ।। २८
कृशोऽतिदुःखी बद्धोऽहं हस्तपादादिमानहम् ।
इति भावानुरूपेण व्यवहारेण बध्यते ।। २९
नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः ।
इति भावानुरूपेण व्यवहारेण मुच्यते ।। ३०
नाहं मांसं न चास्थीनि देहादन्यः परो ह्यहम् ।
इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते ।। ३१
प्रोत्तुङ्गसुरशैलाग्रवैदूर्यशिखरप्रभा ।
अथवार्कांशुदुर्भेदा तिमिरश्रीः स्थितोपरि ।। ३२
कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावतः ।
पुंसा धरणिसंस्थेन स्वसंकल्पनयेद्धया ।। ३३
कल्पितैवमविद्येयमनात्मन्यात्मभावना ।
पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव ।। ३४
श्रीराम उवाच ।
मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा ।
तदेतत्किंकृतं ब्रह्मन्नीलत्वं नभसो वद ।। ३५
श्रीवसिष्ठ उवाच ।
न नाम नीलता व्योम्नः शून्यस्य गुणवत्स्थिता ।
अन्यरत्नप्रभाभावान्न वाप्येषा च मैरवी ।। ३६
तेजोमयत्वादण्डस्य स्फारत्वादिव तेजसः ।
प्राकाश्यादण्डपारस्य तमसो नात्र संभवः ।। ३७
केवलं शून्यतैवैषा बह्वी सुभग लक्ष्यते ।
वयस्येवानुरूपा या अविद्याया असन्मयी ।। ३८
स्वदृष्टिक्षयसंपत्तावक्ष्णोरेवोदितं तमः ।
वस्तुस्वभावात्तद्व्योम्नः कार्ष्ण्यमित्यवलोक्यते ।। ३९
एतद्बुद्ध्वा यथा व्योम्नि दृश्यमानोऽपि कालिमा ।
न कालिमेति बुद्धिः स्यादविद्यातिमिरं तथा ।। ४०
असंकल्पो ह्यविद्याया निग्रहः कथितो बुधैः ।
यथा गगनपद्मिन्याः स भाति सुकरः स्वयम् ।। ४१
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ।। ४२
नष्टोऽहमिति संकल्पाद्यथा दुःखेन नश्यति ।
प्रबुद्धोऽस्मीतिसंकल्पाज्जनो ह्येति यथा सुखम्।। ४३
तथा संमूढसंकल्पान्मूढतामेति वै मनः ।
प्रबोधोदारसंकल्पात्प्रबोधायानुधावति ।। ४४
क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती ।
यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी ।। ४५
भावनी सर्वभावानां सर्वभूतविमोहिनी ।
भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी ।। ४६
मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः ।
क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः ।। ४७
तस्मान्मनोनुसंधानं भावेषु न करोति यः ।
अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति ।। ४८
यदादावेव नास्तीदं तदद्यापि न विद्यते ।
यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम् ।। ४९

मननीयमतो नान्यत्कदा कस्य कथं कुतः ।
निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम् ।। ५०
परं पौरुषमाश्रित्य यत्नात्परमया धिया ।
भोगाशाभावनां चित्तात्समूलामलमुद्धरेत् ।। ५१
यदुदेति परो मोहो जरामरणकारणम् ।
आशापाशशतोल्लासिवासना तद्विजृम्भते ।। ५२
मम पुत्रा मम धनमयं सोऽहमिदं मम ।
इतीयमिन्द्रजालेन वासनैव विवल्गति ।। ५३
शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत् ।
अनन्यया वासनया त्वहंभावाहिरर्पितः ।। ५४
परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम् ।
नदिश्रेण्योआत्मतत्त्वादृते सत्यं न कदाचन किंचन ।। ५५
खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः ।
सैवान्येव विचित्रेयमविद्या परिवर्तते ।। ५६
उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः ।
सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजंगधीः ।। ५७
खाद्व्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव ।
नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम् ।। ५८
रज्जुसर्पविकल्पौ द्वावक्षेनैवोपकल्पितौ ।
ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा ।। ५९
मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम् ।
अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ।। ६०
कस्तवायं जडो मूको देहो भवति राघव ।
यदर्थं सुखदुःखाभ्यामवशः परिभूयसे। ।। ६१
यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः ।
श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा ।। ६१
भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः ।
पवनस्य तथा देहनाशे नात्मा न नश्यति ।। ६३
दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्ति रघूद्वह ।
मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय ।। ६४
अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ।
यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम् ।। ५4
प्रसरं त्वमविद्याया मा प्रयच्छ रघूद्वह ।
अनयोपहिते चित्ते दुष्पारेह कदर्थना ।। ६६
मिथ्यैवानर्थकारिण्या मनोमननपीनया ।
अनया दुःखदायिन्या महामोहफलान्तया ।। ६७
चन्द्रबिम्बे सुधार्द्रेऽपि कृत्वा रौरवकल्पनम् ।
नारकं दाहसंशोषदुःखं समनुभूयते ।। ६८
जलकल्लोलकह्लारपुष्पसीकरवीचिषु ।
सरस्सु मृगतृष्णाढ्यं मरुत्वं परिदृश्यते ।। ६९
नभोनगरनिर्माणपातोत्पातनसंभ्रमाः ।
स्वप्नादिष्वनुभूयन्ते विचित्राः सुखदुःखदाः ।। ७०
संसारवासनाश्चेतो यदि नाम न पूरयेत् ।
तज्जाग्रत्स्वप्नसंरम्भाः किं नयेयुरिहापदम् ।। ७१
दृश्यते रौरवा वीचिनरकानर्थशासना ।
मिथ्याज्ञाने गते वृद्धिं स्वप्नोपवनभूमिषु ।। ७२
अनया वेधितं चेतो विसतन्तावपि क्षणात् ।
पश्यत्यखिलसंसारसागरानर्थविभ्रमम् ।। ७३
अनयोपहते चित्ते राज्य एव हि संस्थिताः ।
तास्तादृश्यो जना यान्ति या न योग्याः श्वपाकिनः।। ७४
तस्माद्राम परित्यज्य वासनां भवबन्धनीम् ।
सर्वरागमयीं तिष्ठ नीरागः स्फटिको यथा ।। ७५
तिष्ठतस्तव कार्येषु मास्तु रागेषु रञ्जना ।
स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः ।। ७६
विदितकौतुकसङ्घसमिद्धया
यदि करोषि सदैव सुशीलया ।
वरधिया गतप्राकृतिकक्रिय-
स्तदसि केन सहानुपमीयसे ।। ७७
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे यथाकथितदोषपरिहारोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः ।। ११४ ।।