योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


षष्ठः सर्गः ६
श्रीवसिष्ठ उवाच ।
अस्य देवाधिदेवस्य परस्य परमात्मनः ।
ज्ञानादेव परा सिद्धिर्न त्वनुष्ठानदुःखतः ।। १
अत्र ज्ञानमनुष्ठानं नत्वन्यदुपयुज्यते ।
मृगतृष्णाजलभ्रान्तिशान्तौ चेदं निरूपितम् ।। २
नह्येष दूरे नाभ्याशे नालभ्यो विषमे न च ।
स्वानन्दाभासरूपोऽसौ स्वदेहादेव लभ्यते ।। ३
किंचिन्नोपकरोत्यत्र तपोदानव्रतादिकम् ।
स्वभावमात्रे विश्रान्तिमृते नात्रास्ति साधनम् ।। ४
साधुसंगमसच्छास्त्रपरतैवात्र कारणम् ।
साधनं बाधनं मोहजालस्य यदकृत्रिमम् ।। ५
अर्यं सदेव इत्येव संपरिज्ञानमात्रतः ।
जन्तोर्न जायते दुःखं जीवन्मुक्तत्वमेति च ।। ६
श्रीराम उवाच ।
संपरिज्ञातमात्रेण किलानेनात्मनात्मना ।
पुनर्दोषा न बाधन्ते मरणाद्याः कदाचन ।। ७
देवदेवो महानेष कुतो दूरादवाप्यते ।
तपसा केन तीव्रेण क्लेशेन कियताथवा ।। ८
श्रीवसिष्ठ उवाच ।
स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।
स देवो ज्ञायते राम न तपःस्नानकर्मभिः ।। ९
रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।
विना राम तपोदानं क्लेश एव न वास्तवम् ।। १०
रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् ।
यदर्ज्यते तस्य दानाद्यस्यार्थास्तस्य तत्फलम् ।। ११
रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।
तद्दम्भः प्रोच्यते तस्य फलमस्ति मनाङ्ग च ।। १२
तस्मात्पुरुषयत्नेन मुख्यमौषधमाहरेत् ।
सच्छास्त्रसज्जनासङ्गौ संसृतिव्याधिनाशनौ ।। १३
अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।
सर्वदुःखक्षयप्राप्तौ न काचिदुपपद्यते ।। १४
श्रृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये ।
येन शाम्यत्यशेषेण रागद्वेषविषूचिका ।। १५
यथासंभवया वृत्त्या लोकशास्त्राविरुद्धया ।
संतोषसंतुष्टमना भोगगन्धं परित्यजेत् ।। १६
यथासंभवमुद्योगादनुद्विग्नतया स्वया ।
साधुसंगमसच्छास्त्रपरतां प्रथमं श्रयेत् ।। १७
यथाप्राप्तार्थसंतुष्टो यो गर्हितमुपेक्षते ।
साधुसंगमसच्छास्त्रपरः शीघ्रं स मुच्यते ।। १८
विचारेण परिज्ञातस्वभावस्य महामतेः ।
अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशंकराः ।। १९
देशे यं सुजनप्राया लोकाः साधुं प्रचक्षते ।
स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत् ।। २०
अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् ।
शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारणात् ।। २१
सच्छास्त्रसत्संगमजैर्विवेकै-
स्तथा विनश्यन्ति बलादविद्याः ।
यथा जलानां कतकानुषङ्गा-
द्यथा जनानां मतयोऽपि योगात् ।। २२
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे मुमुक्षुप्रयत्नोपदेशो नाम षष्ठः सर्गः ।। ६ ।।