ऋग्वेदः सूक्तं १.९
← सूक्तं १.८ | ऋग्वेदः - मण्डल १ सूक्तं १.९ मधुच्छन्दा वैश्वामित्रः |
सूक्तं १.१० → |
दे. इन्द्रः। गायत्री।
अतिरात्रे द्वितीयपर्याये अच्छावाकशस्त्रे इन्द्रेहि इत्यनुरूपस्तृचः(आश्व.श्रौ. ६.४) |
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महाँ अभिष्टिरोजसा ॥१॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
चक्रिं विश्वानि चक्रये ॥२॥
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
सचैषु सवनेष्वा ॥३॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
अजोषा वृषभं पतिम् ॥४॥
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
असदित्ते विभु प्रभु ॥५॥
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
तुविद्युम्न यशस्वतः ॥६॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
विश्वायुर्धेह्यक्षितम् ॥७॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
इन्द्र ता रथिनीरिषः ॥८॥
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
होम गन्तारमूतये ॥९॥
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
इन्द्राय शूषमर्चति ॥१०॥
सायणभाष्यम्
‘इन्द्रेहि' इत्यादिकं दशर्चं सूक्तं ' सुरूपकृत्नुम् इत्यादिषु षष्ठम् । ऋष्यादयस्तस्य पूर्ववत् । विशेषस्तु अतिरात्रे द्वितीयपर्यायेऽच्छावाकशस्त्र ‘इन्द्रेहि' इत्यनुरूपस्तृचः । ‘ अतिरात्रे पर्यायाणाम् । इति खण्डे इदं वसो सुतमन्ध इन्द्रेहि मत्स्यन्धसः ' ( आश्व. श्रौ. ६. ४ ) इति सूत्रितम् ॥
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥१
इन्द्र॑ । आ । इ॒हि॒ । मत्सि॑ । अन्ध॑सः । विश्वे॑भिः । सो॒म॒पर्व॑ऽभिः ।
म॒हान् । अ॒भि॒ष्टिः । ओज॑सा ॥१
इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः ।
महान् । अभिष्टिः । ओजसा ॥१
हे “इन्द्र "एहि अस्मिन् कर्मण्यागच्छ । आगत्य च विश्वेभिः सर्वैः “सोमपर्वभिः सोमरसरूपैः “अन्धसः अन्धोभिः अन्नैः "मत्सि माद्य हृष्टो भव । तत ऊर्ध्वम् "ओजसा बलेन “महान् भूत्वा “अभिष्टिः शत्रूणामभिभविता भव इति शेषः । अष्टाविंशतिसंख्याकेषु बलनामसु ‘ओजः पाजः' (नि. २. ९. १ ) इति पठितम् ॥ आ इहि । ' आद्गुणः ' (पा. सू. ६. १. ८७) । इन्द्र एहि । यो ह्युभयोः स्थाने लभतेऽसावन्यतरव्यपदेशमिति आङ्माङोः एकादेशस्य आङ्व्यपदेशात् ' ओमाङोश्च' (पा.सू. ६. १. ९५ ) इति पररूपम् । मत्सि माद्य। ‘मदी हर्षग्लेपनयोः'। लोटः सिप् ।' सर्वे विधयश्छन्दसि विकल्प्यन्ते' ( परिभा. ३५ ) इति सेर्हिरादेशः (पा. सू. ३, ४, ८७ ) न भवति ।' दिवादिभ्यः श्यन् ' ( पा. सू. ३. १. ६९ ) इति श्यन् । “बहुलं छन्दसि ( पा. सू. २, ४, ७३ ) इति श्यनो लुक् । 'न लुमताङ्गस्य' (पा. सू. १. १. ६३ ) इति प्रत्ययलक्षणप्रतिषेधात् ‘शमामष्टानां दीर्घः श्यनि' (पा. सू. ७. ३. ७४ ) इति उपधादीर्घो न भवति । सिपः पित्त्वात् धातुस्वर एव । अन्धसः । अदेर्नुम् धश्च ' ( उ. सू. ४. ६४५) इति असुन् । व्यत्ययेन तृतीयाबहुवचनं कर्तव्यम् । नित्त्वादाद्युदात्तः । विश्वेभिः । ‘ अशिप्रुषि°' (उ, सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तत्वम् । ऐसादेशः ‘ बहुलं छन्दसि ' (पा. सू. ७. १. १०) इति न भवति । सोमपर्वभिः । लतारूपं सोमं पृणन्ति पूरयन्तीति सोमपर्वाणः सोमरसाः । ‘ पॄ पालनपूरणयोः । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५) इति वनिप् । गुणो रपरत्वम् । वनिपः पित्त्वात् धातुस्वर एव । उपपदसमासे कृदुत्तरपद प्रकृतिस्वरेण पुनः स एव भवति । अभिष्टिः अभिगन्ता। ‘इष गतौ । ‘ मन्त्रे वृष° ' ( पा. सू. ३. ३. ९६ ) इत्यादिना क्तिन् उदात्तः। स हि भावपरोऽपि भवितारं लक्षयति । कित्त्वात् लघूपधगुणाभावः । तितुत्रतथसिसुसरकसेषु च ' (पा. सू. ७. २. ९) इति इडागमो न भवति । अभिशब्दस्य इकारे ‘एमनादिषु पररूपं वक्तव्यम्' (पा. सू. ६. १. ९४. ६ ) इति पररूपत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम्। ओजसा। ‘उब्जेर्बलोपश्च' ( उ. सू. ४. ६३१ ) इति असुन् । नित्त्वादाद्युदात्तः ॥
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ ।
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥२
आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ।
चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥२
आ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ।
चक्रिम् । विश्वानि । चक्रये ॥२
“ईम् इत्यनर्थकः पादपूरणीय प्रयुक्तः । हे अध्वर्यवः “सुते अभिषुते चमसस्थे सोमे “एनं सोमम् “इन्द्राय इन्द्रार्थम् “आ “सृजत पुनरभ्युन्नयत । शुक्रामन्थिचमसगणे पुनरभ्युन्नयनम् आपस्तम्बेनोक्तं ‘ होत्रकाणां चमसाध्वर्यवः सकृत्सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति' ( आप. श्रौ. १२. २३.४) इति । कीदृशम् एनम् । “मन्दिं हर्षहेतुं “चक्रिं साधुकरणशीलम् । कीदृशाय इन्द्राय । “मन्दिने हर्षयुक्ताय “विश्वानि सर्वाणि कर्माणि “चक्रये कृतवते । सर्वकर्मनिष्पादनशीलायेत्यर्थः । ईम् इत्यस्य पादपूरणार्थत्वं यास्क आह - ‘ अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १.९) इति । अस्यायमर्थः । अन्यैरेव पदैर्विवक्षितेऽर्थे समाप्ते सति ये शब्दा ईमित्यादयः प्रयुक्तास्ते शब्दा अमिताक्षरेषु छन्दोराहित्येन परिमिताक्षररहितेषु ब्राह्मणादिवाक्येषु वाक्यपूरणार्था द्रष्टव्याः । मिताक्षरेषु छन्दोयुक्तेषु ग्रन्थेषु पादपूरणार्थाः। ते च कमीमित्यादय इति । ईमित्यस्य शब्दस्यानर्थक्याय एतामृचमुदाजहार- एमेनं सृजता सुते । आसृजतैनं सुते' ( निरु. १. १० ) इति ॥ एनम् । इदमो द्वितीयायां • द्वितीयाटौःस्वेनः ' (पा. सू. २. ४. ३४ ) इति एनादेशः ‘ °अनुदात्तः०' (पा. सू. २. ४. ३२) इत्यनुवृतेः सर्वानुदात्तः । सृजत । संहितायाम् ‘ अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः । मन्दिं प्रमोदहेतुम्। ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु'। ‘इदितो नुम् धातोः ' (पा. सू. ७. १. ५८) इति नुम् । मन्दमानं प्रयुङ्क्ते इत्यर्थे ' हेतुमति च' (पा. सू. ३. १. २६ ) इति णिच् । ण्यन्तस्य अजन्तत्वात् ‘अच इः' ( उ. सू. ४. ५७८ ) इति इकारप्रत्ययः । ‘णेरनिटि ' ( पा. सू. ६. ४. ५१ ) इति णिलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । मन्दिने । मन्देः पूर्ववत्। चतुर्थ्येकवचनेऽनपुंसकस्यापि व्यत्ययेन नुमागमः (पा. सू. ७. १. ७३ )। चक्रिम् । ‘डुकृञ् करणे' । 'आदृगमहनजनः किकिनौ लिट् च ' (पा. सू. ३. २. १७१ ) इति तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु किन्प्रत्ययः । तस्य कित्त्वात् गुणाभावः । यणादेशः । लिङवद्भावात् द्विर्वचनम् । 'द्विर्वचनेऽचि' (पा. सू. १. १. ५९ ) इति यणादेशस्य स्थानिवद्भावात् कृशब्दो द्विरुच्यते । अभ्यासस्य उरत्त्व-रपरत्व- श्चुत्व-हलादिशेषाः । किनो नित्त्वादाद्युदात्तः । विश्वानि । विशेः क्वन् । नित्त्वादाद्युदात्तः । अस्य चक्रये इति कृदन्तेन योगेऽपि ‘ कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति षष्ठी न भवति । ‘ °किकिनौ लिट् च ' इति किनो लिङ्वद्भावेन ' न लोकाव्ययनिष्ठाखलर्थतृनाम् ' (पा. सू. २. ३. ६९ ) इति निषेधात् ॥
मत्स्वा॑ सुशिप्र म॒न्दिभि॒ः स्तोमे॑भिर्विश्वचर्षणे ।
सचै॒षु सव॑ने॒ष्वा ॥३
मत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभिः॑ । स्तोमे॑भिः । वि॒श्व॒ऽच॒र्ष॒णे॒ ।
सचा॑ । ए॒षु । सव॑नेषु । आ ॥३
मत्स्व । सुऽशिप्र । मन्दिऽभिः । स्तोमेभिः । विश्वऽचर्षणे ।
सचा । एषु । सवनेषु । आ ॥३
हे “सुशिप्र हे शोभनहनो शोभननासिक वा । शिप्रे हनू नासिके वा ' ( निरु. ६. १७) इति यास्केनोक्तत्वात्। तादृश हे इन्द्र “मन्दिभिः हर्षहेतुभिः “स्तोमेभिः स्तोत्रैः "मत्त्व हृष्टो भव । हे "विश्वचर्षणे सर्वमनुष्ययुक्त सर्वैर्यजमानैः पूज्य इत्यर्थः । तादृशेन्द्र त्वम् “एषु यागगतेषु त्रिषु “सवनेषु “सचा देवैरन्यैः सह "आ गच्छेति शेषः ॥ ‘मदि स्तुति' इत्यस्य लोटि “ अनित्यमागमशासनम् ' (परिभा. ९३. २ ) इति कृत्वा इदितो नुम् धातोः ' ( पा. सू. ७. १. ५८) इति नुम् न भवति । अनुदात्तेत्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ' (पा. सू. ६. १. १८६) इति लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव । संहितायां ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६.३. १३५) इति दीर्घत्वम् । सुशिप्रेत्यामन्त्रितनिघातः । मन्दिभिः । गतमन्त्रे व्याख्यातम् । स्तोमेभिः । मन्प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति । विश्वचर्षणे । निघातः । सचा । उक्तम् । एषु ।' ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् ॥
असृ॑ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुद॑हासत ।
अजो॑षा वृष॒भं पति॑म् ॥४
असृ॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः॑ । प्रति॑ । त्वाम् । उत् । अ॒हा॒स॒त॒ ।
अजो॑षाः । वृ॒ष॒भम् । पति॑म् ॥४
असृग्रम् । इन्द्र । ते । गिरः । प्रति । त्वाम् । उत् । अहासत ।
अजोषाः । वृषभम् । पतिम् ॥४
हे “इन्द्र “ते “गिरः त्वदीयाः स्तुतीः “असृग्रं सृष्टवानस्मि । ताश्च गिरः स्वर्गेऽवस्थितं “त्वां "प्रति “उदहासत उद्गत्य प्राप्नुवन् । तादृशीर्गिरः त्वम् “अजोषाः सेवितवानसि । कीदृशं त्वाम् । “वृषभं कामानां वर्षितारं “पतिं सोमस्य पातारं यजमानानां पालयितारं वा । पाता वा पालयिता वा' (निरु. ४. २६) इति यास्केनोक्तत्वात् ॥ असृग्रम् असृजम् । ‘ सृज विसर्गे '। लङो मिप् । ‘तुदादिभ्यः शः' (पा. सू. ३. १. ७७ )। ‘बहुलं छन्दसि' (पा. सू. ७. १.८) इत्यत्र विकरणस्य रुडागमः । जकारस्य गकारः । ‘ लुङ्लङ्लृङ्क्ष्वडुदात्तः ' ( पा. सू. ६. ४. ७१ ) इति अडागम उदात्त: । सति शिष्टत्वात् स एव शिष्यते । गिरः । प्रातिपदिकस्वरः । अहासत । ओहाङ् गतौ । लुङ् । झस्य अदादेशः (पा. सू. ७. १. ५)। च्लेः सिच् ' (पा. सू. ३. १. ४४ ) । अडागमो निघातश्च । अजोषाः । जुषी प्रीतिसेवनयोः । लङस्थास् । तुदादिभ्यः शः । तस्य ‘ छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इत्यार्धधातुकत्वेन ङित्त्वाभावात् लघूपधगुणः । थासः थकारलोपश्छान्दसः ।। सवर्णदीर्घः । अडागमः । सति शिष्टत्वात् उदात्तः शिष्यते । वृषभम् । ‘ पृषु वृषु मृषु सेचने '। ‘ अभच् ' ( उ. सू. ३. ४०२ ) इत्यनुवृत्तौ ‘ऋषिवृषिभ्यां कित्' ( उ. सू. ३. ४०३) इति अभच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तः । पतिम् । ‘पा रक्षणे'। ‘ पातेर्डतिः' ( उ. सू. ४. ४९७ )। डित्त्वात् टिलोपः । प्रत्ययाद्युदात्तत्वम् ॥
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम् ।
अस॒दित्ते॑ वि॒भु प्र॒भु ॥५
सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः॑ । इ॒न्द्र॒ । वरे॑ण्यम् ।
अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥५
सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् ।
असत् । इत् । ते । विऽभु । प्रऽभु ॥५
हे "इन्द्र “वरेण्यं श्रेष्ठं “राधः धनं "चित्रं मणिमुक्तादिरूपेण बहुविधम् "अर्वाक् अस्मदभिमुखं यथा भवति तथा “सं “चोदय सम्यक् प्रेरय । भोगाय यावत् पर्याप्तं तावत् विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं “ते तवैव "असदित् अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । 'मघम्' इत्यादिषु अष्टाविंशतिधननामसु ‘रायः राधः' (नि. २. १०. १७) इति पठितम् ॥ चोदय । ‘चुद प्रेरणे' । ण्यन्तात् लोट् । तिङ्ङतिङः' इति निघातः । राधः । राध्नुवन्ति अनेनेति राधो धनम् । 'सर्वधातुभ्योऽसुन्' (उ. सू. ४. ६२८ ) । नित्त्वादाद्युदात्तः । वरेण्यम् । वृञ एण्यः । वृषादित्वादाद्युदात्तः । असत् । अस भुवि '। लेट् । तिप् । ‘इतश्च लोपः° ' (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘लेटोऽडाटौ ' ( पा. सू. ३. ४. ९४) इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः ' ( पा. सू. २, ४, ७२ ) इति शपो लुक् । आगमा अनुदात्ताः' (पा. म. ३.१.३.७.) इति अटोऽनुदात्तत्वात् धातुस्वर एव । विभु । विभवतीति विभु ।' भुवः° ' (पा. सू. ३. २. १७९) इत्यनुवृत्तौ ' विप्रसंभ्यो ड्वसंज्ञायाम्' (पा. सू. ३. २. १८० ) इति डुप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरेण उकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । एवं प्रभु ॥ ॥ १७ ॥
अ॒स्मान्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः ।
तुवि॑द्युम्न॒ यश॑स्वतः ॥६
अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वतः ।
तुवि॑ऽद्युम्न । यश॑स्वतः ॥६
अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः ।
तुविऽद्युम्न । यशस्वतः ॥६
हे "तुविद्युम्न प्रभूतधन “इन्द्र "राये धनसिद्ध्यर्थम् "अस्मान् अनुष्ठातॄन् "तत्र कर्मणि "सु “चोदय सुष्ठु प्रेरय। कीदृशानस्मान् । "रभस्वतः उद्योगवतः "यशस्वतः कीर्तिमतः ॥ तत्र । तच्छब्दात् ‘ सप्तम्यास्त्रल् ' (पा. सू. ५. ३. १०)। लिति' (पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । इन्द्र । आमन्त्रिताद्युदात्तत्वम् । पादादित्वान्न निघातः। राये। ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । रभस्वतः । ‘ रभ राभस्ये' । राभस्यं कार्योपक्रमः। ‘ सर्वधातुभ्योऽसुन् ( उ. सू. ४. ६२८)। नित्त्वादाद्युदात्तः । मतुपः पित्वादनुदात्तत्वम् । “स्वादिष्वसर्वनामस्थाने ' (पा. सू. १. ४. १७) इति न पदत्वं तसौ मत्वर्थे' (पा. सू. १. ४. १९) इति भसंज्ञया बाधितत्वात् ; ‘आ कडारादेका संज्ञा' (पा. सू. १.४. १) इति नियमात् । तुविद्युम्न । तुवि बहु द्युम्नं धनं यस्य । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । यशस्वतः। यशोऽस्यास्तीति मतुप् । “अस्मायामेधास्रजो विनिः (पा. सू. ५. २. १२१ ) इति विनिना न बाध्यते, मतुपः सर्वत्र समुच्चयात्। यशस्शब्दो ‘नब्विषयस्यानिसन्तस्य ' इत्याद्युदात्तः । मतुपः पित्त्वात् स एव शिष्यते ॥
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् ।
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥७
सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रवः॑ । बृ॒हत् ।
वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥७
सम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रवः । बृहत् ।
विश्वऽआयुः । धेहि । अक्षितम् ॥७
हे "इन्द्र “श्रवः धनम् "अस्मे "सं “धेहि अस्मभ्यं सम्यक् प्रयच्छ । कीदृशं श्रवः । "गोमत् बह्वीभिर्गोंभिरुपेतं "वाजवत् प्रभूतेनान्नेनोपेतं "पृथु परिमाणेनाधिकं "बृहत् गुणैरधिकं "विश्वायुः कृत्स्नायुष्यकारणम् "अक्षितं विनाशरहितम् ॥ गोमत् । वाजवत् । उभयत्र मतुपोऽनुदात्तत्वात् प्रातिपदिकस्वर एव । वाजशब्दो वृषादिः आद्युदात्तः । अस्मे । अस्मच्छब्दात् चतुर्थीबहुवचनस्य ‘सुपां सुलुक्' इत्यादिना शे आदेशः । शित्त्वात् सर्वादेशः । प्रातिपदिकस्वरेण अन्तोदात्तत्वम् । ‘ शेषे लोपः ' ( पा. सू. ७. २. ९० ) टिलोप इति पक्षे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अन्त्यलोपपक्षे ‘ अतो गुणे' इति पररूपे “एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वम् । पृथु । ‘प्रथ प्रख्याने '। प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च' ( उ. सू. १. २८) इति कुप्रत्ययः । रेफस्य संप्रसारणम् ऋकारः । परपूर्वत्वम् । कोः कित्त्वात् न लघूपधगुणः । श्रूयते इति श्रवो धनम् । असुन्प्रत्ययः । नित्त्वादाद्युदात्तः । बृहत् । प्रातिपदिकस्वरः। विश्वायुः । विश्वमायुर्यस्मिन् धने। विश्वशब्दः क्वन्प्रत्ययान्तः । तस्य बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ परादिश्छन्दसि बहुलम् ' ( पा. सू. ६. २. १९९ ) इति पूर्वपदान्तोदात्तत्वम् । “ एकादेश उदात्तेनोदात्तः' इत्युदात्तः । अक्षितम् । ‘क्षि क्षयं' इत्यस्मात् अन्तर्णीतण्यर्थात् कर्मणि निष्ठा । तेन ण्यदर्थत्वात् ‘निष्ठायामण्यदर्थे' (पा. सू. ६.४.६० ) इति न दीर्घत्वम् । अत एव ‘क्षियो दीर्घात्' (पा. सू. ८. २. ४६) इति न निष्ठानत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम्॥
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् ।
इन्द्र॒ ता र॒थिनी॒रिष॑ः ॥८
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ।
इन्द्र॑ । ताः । र॒थिनीः॑ । इषः॑ ॥८
अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ।
इन्द्र । ताः । रथिनीः । इषः ॥८
हे “इन्द्र "बृहत् "श्रवः महतीं कीर्तिम् "अस्मे “धेहि अस्मभ्यं प्रयच्छ । तथा "सहस्रसातमम् अतिशयेन सहस्रसंख्यादानोपेतं "द्युम्नं धनम् अस्मे धेहि । तथा “ताः व्रीहियवादिरूपेण प्रसिद्धाः “रथिनीः बहुरथोपेताः “इषः अन्नानि अस्मे धेहि ॥ अस्मे । ‘ सुपां सुलुक्' इत्यादिना शे आदेशः । धेहि ।' घ्वसोरेद्धावभ्यासलोपश्च' (पा. सू. ६. ४. ११९) इति एत्वाभ्यासलोपौ । श्रूयते इति श्रवः । असुनो नित्त्वादाद्युदात्तत्वम् । सहस्रं सनुते ददातीति सहस्रसाः। षणु दाने'। जनसनखनक्रमगमो विट्' (पा. सू. ३. २. ६७ )। ‘ विड्वनोरनुनासिकस्यात् ' ( पा. सू. ६. ४. ४१ ) इति आकारादेशः । धातुस्वरेणान्तोदात्तः । पुनः कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । रथा आसां सन्तीति रथिन्य इति प्रत्ययस्याद्युदात्तत्वम्। “ऋन्नेभ्यो ङीप् ' (पा. सू. ४. १. ५)। स च पित्त्वादनुदात्तः । इषः । यौगिकत्वे धातुस्वरः; रूढत्वे प्रातिपदिकस्वरः ॥
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म् ।
होम॒ गन्ता॑रमू॒तये॑ ॥९
वसोः॑ । इन्द्र॑म् । वसु॑ऽपतिम् । गीः॒ऽभिः । गृ॒णन्तः॑ । ऋ॒ग्मिय॑म् ।
होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥९
वसोः । इन्द्रम् । वसुऽपतिम् । गीःऽभिः । गृणन्तः । ऋग्मियम् ।
होम । गन्तारम् । ऊतये ॥९
“वसोः वसुनोऽस्मदीयस्य धनस्य “ऊतये रक्षार्थम् "इन्द्रं “होम वयमाह्वयामः । किं कुर्वन्तः । “गीर्भिः स्तुतिभिः "गृणन्तः स्तुवन्तः । कीदृशमिन्द्रम् । "वसुपतिं धनपालकं “ऋग्मियं ऋचां मातारं “गन्तारं यागदेशे गमनशीलम् ॥ वसोः। ‘वस निवासे' । ‘ श्रृस्वृस्निहि' (उ. सू. १. १० ) इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । वसुपतिम् । समासान्तोदात्तत्वे प्राप्ते ‘ पत्यावैश्वर्ये ' ( पा. सू. ६. २. १८) इति पूर्वपदप्रकृतिस्वरत्वम् । गीर्भिः। 'सावेकाचः । (पा. सू. ६. १. १६८ ) इति विभक्तेरुदात्तत्वम् । गृणन्तः । गॄ शब्दे'। लटः शतृ। ‘ क्र्यादिभ्यः श्ना ' ( पा. सू. ३. १. ८१ )। शतुः ‘ सार्वधातुकमपित्' (पा. सू. १. २. ४) इति ङित्त्वात् ‘ श्नाभ्यस्तयोरातः ' ( पा. सू. ६. ४. ११२ ) इति आकारलोपः । शतुः अकारस्य प्रत्ययस्वरेणोदात्तत्वम् । ऋग्मियम्। ऋचो मिमीते इति ऋग्मीः, तमृग्मियम् । 'माङ् माने शब्दे च '।' क्विप् च । (पा. सू. ३. २. ७६ ) इति क्विप् । “घुमास्था°' ( पा. सू. ६. ४. ६६ ) इत्यादिना ईत्वम् । चकारस्य ‘चोः कुः'।'झलां जशोऽन्ते' (पा. सू. ८. २. ३९) इति जश्त्वं गकारः। द्वितीयैकवचने ‘ अचिश्नुधातु' (पा. सू. ६. ४. ७७ ) इत्यादिना इयङादेशः। ‘एरनेकाचः' (पा. सू. ६. ४. ८२ ) इति यणादेशः सर्वे विधयश्छन्दसि विकल्प्यन्ते ' ( परिभा. ३५ ) इति न भवति । कृदुत्तरपदप्रकृतिस्वरेण इकार उदात्तः । होम आह्वयामः । ‘ ह्वेञ् स्पर्धायां शब्दे च' । लट् । तस्य अस्मदो बहुत्वेऽपि व्यत्ययेन मिप् । इकारस्य व्यत्ययेन अकारः । शपः ‘बहुलं छन्दसि' इति लुक् । ‘ बहुलं छन्दसि' ( पा. सू. ६. १. ३४ ) इति ह्वः संप्रसारणं परपूर्वत्वं गुणः। ‘ धातोः ' ( पा. सू. ६. १. १६२) इति ओकार उदात्तः । मिपः पित्स्वरेणानुदात्तत्वम् । गन्तारम् । गम्लृ सृप्लृ गतौ । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । ऊतये । ‘ ऊतियूति' ( पा. सू. ३. ३. ९७ ) इत्यादिना क्तिन् उदात्तो निपातितः ॥
सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः ।
इन्द्रा॑य शू॒षम॑र्चति ॥१०
सु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते । आ । इत् । अ॒रिः ।
इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥१०
सुतेऽसुते । निऽओकसे । बृहत् । बृहते । आ । इत् । अरिः ।
इन्द्राय । शूषम् । अर्चति ॥१०
आकार इच्छब्दश्च पादपूरणौ । यद्वा । व्याप्तिवचन आकारः । ‘ आङीषदर्थेऽभिव्याप्तौ ' ( अमर. ३. २३८ ) इत्यभिधानात् । इच्छब्दोऽपिशब्दार्थः । इयर्ति गच्छति अनुष्ठेयं कर्म प्राप्नोति इति अरिर्यजमानः । “एदरिः सर्वोऽपि यजमानः "इन्द्राय "सुतेसुते इन्द्रार्थमभिषुते तत्तत्सोमे “शूषं बलम् "अर्चति स्तौति । इन्द्रस्य पराक्रमं प्रशंसतीत्यर्थः । कीदृशं शूषम् । "बृहत् प्रौढम् । कीदृशायेन्द्राय। “न्योकसे नियतस्थानाय "बृहते प्रौढाय ॥ सुतेसुते । “षुञ् अभिषवे' । क्तप्रत्ययः प्रत्ययस्वरेणोदात्तः । नित्यवीप्सयोः ' ( पा. सू. ८. १. ४ ) इति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितम्' ( पा. सू. ८. १. २ ) इति द्वितीयस्य आम्रेडितत्वेन “ अनुदात्तं च ' ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । न्योकसे। नियतमोको यस्य तस्मै । निशब्दो ‘निपाता आद्युदात्ताः' (फि. सू. ८०) इत्युदात्त: । तस्य यणादेशे ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (पा. सू. ८. २. ४) इति ओकारः स्वरितः । बृहते। बृहन्महतोरुपसंख्यानम्' (पा. सू. ६.१. १७३.१) इति अजादिविभक्तेरुदात्तत्वम् । अरिः। ‘ऋ गतौ ।' अच इः '(उ. सू. ४.५७८) इति इकारप्रत्ययः । गुणो रपरत्वम् । प्रत्ययस्वरेण इकार उदात्तः । इन्द्राय । ऋजेन्द्र० ' ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्यय इकार उदात्तः । शूषम् । प्रातिपदिकस्वरः । अर्चति । निघातस्वरः ॥ ॥ १८ ॥
टिप्पणी
१.९.१ इन्द्रेहि मत्सि इति
द्र. पौषम्
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|