ऋग्वेदः सूक्तं १.६८

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.६८ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.६७ ऋग्वेदः - मण्डल १
सूक्तं १.६८
पराशरः शाक्त्यः
सूक्तं १.६९ →
दे. अग्निः। द्विपदा विराट्


श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् ॥१॥
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥२॥
आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ॥३॥
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥४॥
ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः ॥५॥
यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व ॥६॥
होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ॥७॥
इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः ॥८॥
पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ॥९॥
वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥१०॥


सायणभाष्यम्

‘ श्रीणन्' इति द्वैपदं दशर्चं चतुर्थं सूक्तम् । तत्राध्ययनतः पञ्चर्चम् । ऋष्याद्याः पूर्ववत्। विनियोगो लैङ्गिकः ।।


श्री॒णन्नुप॑ स्था॒द्दिवं॑ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू॑र्णोत् ॥१

श्री॒णन् । उप॑ । स्था॒त् । दिव॑म् । भु॒र॒ण्युः । स्था॒तुः । च॒रथ॑म् । अ॒क्तून् । वि । ऊ॒र्णो॒त् ॥१

श्रीणन् । उप । स्थात् । दिवम् । भुरण्युः । स्थातुः । चरथम् । अक्तून् । वि । ऊर्णोत् ॥१

परि॒ यदे॑षा॒मेको॒ विश्वे॑षां॒ भुव॑द्दे॒वो दे॒वानां॑ महि॒त्वा ॥२

परि॑ । यत् । ए॒षा॒म् । एकः॑ । विश्वे॑षाम् । भुव॑त् । दे॒वः । दे॒वाना॑म् । म॒हि॒ऽत्वा ॥२

परि । यत् । एषाम् । एकः । विश्वेषाम् । भुवत् । देवः । देवानाम् । महिऽत्वा ॥२

“भुरण्युः हविषां भर्ता धारयिता पयःप्रभृतिना श्रयणद्रव्येण सोममिव तैर्हविर्भिः “श्रीणन् मिश्रयन् “दिवम् “उप "स्थात् उपतिष्ठति प्राप्नोतीत्यर्थः । “स्थातुः स्थावरं “चरथं जङ्गमं तदुभयात्मकं जगत् “अक्तून् सर्वा रात्रीश्च “व्यूर्णोत् स्वतेजसा विशेषेणाच्छादयति । हविर्वहनं कुर्वन् सर्वमपि जगत् स्वभासा प्रकाशयति स्म इति भावः । “विश्वेषां सर्वेषां देवानां दानादिगुणयुक्तानां इन्द्रादीनां मध्ये “देवः द्योतमानः “एकः एव अयमग्निः “एषां पूर्वोक्तानां स्थावरादीनां “महित्वा महत्त्वानि माहात्म्यानि “यत् यस्मात् “परि “भुवत् परिभवति परिगृह्णाति परितो व्याप्य वर्तते । परिपूर्वो भवतिः परिग्रहार्थः । यद्वा । एषां विश्वेषां स्थावरादीनां मध्ये वर्तमानोऽयं देवोऽग्निर्देवानां महत्त्वानि यत् यदा परि भुवत् परितो व्याप्नोति। तदानीमिति पूर्वत्रान्वयः ॥ ऊर्णोत् । ‘ ऊर्णुञ् आच्छादने '। ‘ ऊर्णोतेर्विभाषा' (पा. सू. ७. २. ६ ) इति वृद्धेर्विकल्पः ।।


आदित्ते॒ विश्वे॒ क्रतुं॑ जुषन्त॒ शुष्का॒द्यद्दे॑व जी॒वो जनि॑ष्ठाः ॥३

आत् । इत् । ते॒ । विश्वे॑ । क्रतु॑म् । जु॒ष॒न्त॒ । शुष्का॑त् । यत् । दे॒व॒ । जी॒वः । जनि॑ष्ठाः ॥३

आत् । इत् । ते । विश्वे । क्रतुम् । जुषन्त । शुष्कात् । यत् । देव । जीवः । जनिष्ठाः ॥३

भज॑न्त॒ विश्वे॑ देव॒त्वं नाम॑ ऋ॒तं सप॑न्तो अ॒मृत॒मेवै॑ः ॥४

भज॑न्त । विश्वे॑ । दे॒व॒ऽत्वम् । नाम॑ । ऋ॒तम् । सप॑न्तः । अ॒मृत॑म् । एवैः॑ ॥४

भजन्त । विश्वे । देवऽत्वम् । नाम । ऋतम् । सपन्तः । अमृतम् । एवैः ॥४

हे “देव द्योतमानाग्ने “जीवः जीवन् प्रज्वलन् “शुष्कात् नीरसात् अरणिरूपात काष्ठात् “यत् यदा “जनिष्ठाः प्रादुर्भवसि मथनेनोत्पद्यसे “आदित् अनन्तरमेव “विश्वे सर्वे यजमानाः “ते तुभ्यं “क्रतुं कर्म “जुषन्त सेवन्ते अनुतिष्ठन्ति । तथा अनुष्ठाय च "विश्वे ते सर्वे “नाम नामकम् “ऋतम् अवितथं "देवत्वं देवतात्वं “भजन्त भजन्ते प्राप्नुवन्ति । किं कुर्वन्तः । “अमृतम् अमरणं त्वाम् “एवैः त्वां गन्तृभिः स्तोत्रैः “सपन्तः समवयन्तः प्राप्नुवन्तः इत्यर्थः ॥ जुषन्तेत्यादीनि त्रीण्याख्यातानि ‘ छन्दसि लुङ्लङ्लिटः' इति वर्तमानार्थानि । एवैः । यन्ति स्तोतव्याभिमुख्येन गच्छन्ति इति एवानि स्तोत्राणि । ‘ इण्शीङ्भ्यां वन्' ( उ. सू. १. १५० ) ॥


ऋ॒तस्य॒ प्रेषा॑ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒ अपां॑सि चक्रुः ॥५

ऋ॒तस्य॑ । प्रेषाः॑ । ऋ॒तस्य॑ । धी॒तिः । वि॒श्वऽआ॑युः । विश्वे॑ । अपां॑सि । च॒क्रुः॒ ॥५

ऋतस्य । प्रेषाः । ऋतस्य । धीतिः । विश्वऽआयुः । विश्वे । अपांसि । चक्रुः ॥५

यस्तुभ्यं॒ दाशा॒द्यो वा॑ ते॒ शिक्षा॒त्तस्मै॑ चिकि॒त्वान्र॒यिं द॑यस्व ॥६

यः । तुभ्य॑म् । दाशा॑त् । यः । वा॒ । ते॒ । शिक्षा॑त् । तस्मै॑ । चि॒कि॒त्वान् । र॒यिम् । द॒य॒स्व॒ ॥६

यः । तुभ्यम् । दाशात् । यः । वा । ते । शिक्षात् । तस्मै । चिकित्वान् । रयिम् । दयस्व ॥६

“ऋतस्य गतस्य देवयजनं प्राप्तस्याग्नेः “प्रेषाः प्रकर्षेणेष्यमाणाः स्तुतयः क्रियन्ते । “धीतिः । धीयते सोमः पीयतेऽस्मिन्निति धीतिर्यागः । सोऽपि “ऋतस्य देवयजनदेशं प्राप्तस्याग्नेरेव क्रियते । अतः सोऽग्निः “विश्वायुः । विश्वं सर्वमायुरन्नं यस्य स तथाविधो भवति । अपि चास्मै “विश्वे सर्वे यजमानाः “अपांसि दर्शपूर्णमासादीनि कर्माणि “चक्रुः कुर्वन्ति । हे अग्ने “तुभ्यं “यः “दाशात् चरुपुरोडाशादीनि हवींषि ददाति । “यो “वा अन्योऽपि यो यजमानः “ते "शिक्षात् त्वदीयं कर्म कर्तुं शक्तो भूयासम् इति इच्छति । उभयविधाय “तस्मै यजमानाय “चिकित्वान् तत्कृतमनुष्ठानं जानंस्त्वं “रयिं “दयस्व धनं देहि ॥ दाशात् ।' दाश्रृ दाने '। लेटि आडागमः । शिक्षात् । ‘ शक्लृ शक्तौ ' । इच्छार्थे सन् । ‘ सनि मीमाघुरभलभशक ' ( पा. सू. ७. ४. ५४ ) इति अकारस्य इसादेशः । अत्र लोपोऽभ्यासस्य' इति अभ्यासलोपः । ‘ स्कोः संयोगाद्यो: ' इति सकारलोपः । पूर्ववत् लेटि आडागमः । चिकित्वान् । कित ज्ञाने' । लिटः क्वसुः । दयस्व । ‘दय दानगतिरक्षणहिंसादानेषु ॥


होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा॑सां॒ पती॑ रयी॒णाम् ॥७

होता॑ । निऽस॑त्तः । मनोः॑ । अप॑त्ये । सः । चि॒त् । नु । आ॒सा॒म् । पतिः॑ । र॒यी॒णाम् ॥७

होता । निऽसत्तः । मनोः । अपत्ये । सः । चित् । नु । आसाम् । पतिः । रयीणाम् ॥७

इ॒च्छन्त॒ रेतो॑ मि॒थस्त॒नूषु॒ सं जा॑नत॒ स्वैर्दक्षै॒रमू॑राः ॥८

इ॒च्छन्त॑ । रेतः॑ । मि॒थः । त॒नूषु॑ । सम् । जा॒न॒त॒ । स्वैः । दक्षैः॑ । अमू॑राः ॥८

इच्छन्त । रेतः । मिथः । तनूषु । सम् । जानत । स्वैः । दक्षैः । अमूराः ॥८

हे अग्ने त्वं “मनोरपत्ये यजमानस्वरूपायां प्रजायां “होता देवानामाह्वाता सन् “निषत्तः निषण्णः । ‘ मानव्यो हि प्रजाः ' ( तै. सं. ५. १. ५. ६ ) इति हि ब्राह्मणम् । “स “चिन्नु स एव त्वम् “आसां प्रजानां “रयीणा गवादीनां धनानामपि “पतिः स्वामी । अतस्ताः प्रजाः “तनूषु आत्मीयेषु शरीरेषु “मिथः संसृष्टमेकीभूतं पुत्ररूपेण परिणतं “रेतः वीर्यम् "इच्छन्त ऐच्छन् । त्वदनुग्रहेण पुत्रमलभन्तेति यावत् । लब्धपुत्राश्च ताः प्रजाः "अमूराः अमूढाः सत्यः “स्वैः स्वकीयैः “दक्षैः समर्थैः पुत्रैः सह “सं “जानत सम्यगवगच्छन्ति चिरकालं जीवन्तीत्यर्थः । यद्वा । दक्षशब्दः प्राणवाची । ‘ प्राणो वै दक्षोऽपानः क्रतुः ' ( तै. सं. २. ५. २. ४ ) इति श्रुतेः । स्वैर्दक्षैः स्वकीयैः प्राणैः अमूराः संगतास्त्वयैव सर्वं जानन्ति ॥ इच्छन्त । व्यत्ययेनात्मनेपदम्। जानत । छान्दसो लङ् । झस्य अदादेशे ‘ श्नाभ्यस्तयोरातः ' इति आकारलोपः । अमूराः । मूरा अमूरेत्यत्र यास्क एवं व्याचख्यौ- मूढा वयं स्मोऽमूढस्त्वमसि' ( निरु. ६. ८ ) इति । अतोऽत्रापि अमूरशब्देन अमूढत्वमुच्यते । वर्णव्यापत्त्या ढकारस्य रेफः । यद्वा । मुर्छा मोहसमुच्छ्राययोः'। अस्मात् संपदादिलक्षणो भावे क्विप्। रोल्लोपः ' इति छलोपः। रो मत्वर्थीयः। न मूरा अमूराः । अथवा। ‘अम गत्यादिषु'। अस्मादौणादिक ऊरन्प्रत्ययः ।।


पि॒तुर्न पु॒त्राः क्रतुं॑ जुषन्त॒ श्रोष॒न्ये अ॑स्य॒ शासं॑ तु॒रास॑ः ॥९

पि॒तुः । न । पु॒त्राः । क्रतु॑म् । जु॒ष॒न्त॒ । श्रोष॑न् । ये । अ॒स्य॒ । शास॑म् । तु॒रासः॑ ॥९

पितुः । न । पुत्राः । क्रतुम् । जुषन्त । श्रोषन् । ये । अस्य । शासम् । तुरासः ॥९

वि राय॑ और्णो॒द्दुर॑ः पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू॑नाः ॥१०

वि । रायः॑ । औ॒र्णो॒त् । दुरः॑ । पु॒रु॒ऽक्षुः । पि॒पेश॑ । नाक॑म् । स्तृऽभिः॑ । दमू॑नाः ॥१०

वि । रायः । और्णोत् । दुरः । पुरुऽक्षुः । पिपेश । नाकम् । स्तृऽभिः । दमूनाः ॥१०

“अस्य अग्नेः “शासं शासनं “तुरासः त्वरमाणाः सन्तः "ये यजमानाः “श्रोषन् शृण्वन्ति ते सर्वे तेनानुशिष्टं “क्रतुं कर्म 'जुषन्त सेवन्ते । तत्र दृष्टान्तः । “पितुर्न “पुत्राः । यथा पुत्राः पुरु बहुलं त्रायकाः पुन्नाम्नो नरकाद्वा रक्षकास्तनयाः पितुराज्ञां कुर्वन्ति तद्वत् ।' पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायत इति वा ' ( निरु. २. ११ ) इति यास्कः । पुरुक्षुः । क्षु इत्यन्ननाम । बह्वन्नः सोऽग्निरेषां यजमानानां “दुरः द्वाराणि यज्ञस्य द्वारभूतानि “रायः धनानि “वि “और्णोत् विवृणोति प्रकाशयति । ददातीति यावत् । अपि च “दमूनाः दमे यज्ञगृहे मनो यस्य सोऽग्निः । नास्मिन्नकं दुःखमस्तीति नाको द्युलोकः । तम् । स्तृभिरिति नक्षत्रनाम । “स्तृभिः नक्षत्रैः "पिपेश अवयवीचकार नक्षत्रैर्युक्तमकरोदित्यर्थः ॥ श्रोषन् । ' श्रु श्रवणे'। लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । ' इतश्च लोपः० ' इति इकारलोपः । संयोगान्तस्य लोपः । पिपेश । ‘ पिश अवयवे ॥ ॥ १२ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१











"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.६८&oldid=207709" इत्यस्माद् पुनः प्राप्तिः