ऋग्वेदः सूक्तं १.२९
← सूक्तं १.२८ | ऋग्वेदः - मण्डल १ सूक्तं १.२९ आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः। |
सूक्तं १.३० → |
दे. इन्द्रः। पङ्क्तिः। |
यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥
शिप्रिन्वाजानां पते शचीवस्तव दंसना ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥
ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥
समिन्द्र गर्दभं मृण नुवन्तं पापयामुया ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥
पताति कुण्डृणाच्या दूरं वातो वनादधि ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥
सायणभाष्यम्
'यच्चिद्धि सत्य सोमपाः' इति षष्ठं सूक्तं सप्तर्चं शुनःशेपस्यार्षं पाङ्त्कमैन्द्रम्। अनुक्रमणिका - *यच्चिद्धि सप्त पाङ्क्तम् ' इति ॥ पृष्ठ्यषडहस्य पञ्चमेऽहनि माध्यंदिने सवने होत्रकाः ‘यच्चिद्धि' इति सप्तर्चं सूक्तं त्रींस्तृचान्कृत्वा स्वस्वशस्त्रे एकैकं तृचमावपेरन् । 'चतुर्थेऽहनि' इतिखण्डे 'यच्चिद्धि सत्य सोमपा इत्येकैकमेवमेव ' ( आश्व. श्रौ. ७. ११) इति सूत्रितम् ॥
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥१
यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । अ॒ना॒श॒स्ताःऽइ॑व । स्मसि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥१
यत् । चित् । हि । सत्य । सोमऽपाः । अनाशस्ताःऽइव । स्मसि ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥१
विश्वैर्देवैः प्रेरितः शुनःशेपः एतदादिकाभिः द्वाविंशतिसंख्याकाभिः ऋग्भिः इन्द्रं तुष्टाव। तथा च ब्राह्मणं-' तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इत्येतेन सूक्तेनोत्तरस्य च पञ्चदशभिः' (ऐ. ब्रा. ७. १६) इति । हे "सोमपाः सोमस्य पातः "सत्य सत्यवादिन् इन्द्र "यच्चिद्धि यद्यपि वयम् "अनाशस्ताइव "स्मसि अप्रशस्ता इव भवामः, तथापि हे "तुवीमघ बहुधन “इन्द्र त्वं "गोषु "अश्वेषु “शुभ्रिषु शोभनेषु "सहस्रेषु सहस्रसंख्याकेषु च निमित्तभूतेषु "नः अस्मान् "आ "शंसय सर्वतः प्रशस्तान् कुरु । अस्मद्दोषमनपेक्ष्य गवादीन् प्रयच्छेत्यर्थः ॥ सोमपाः । विजन्तः । आमन्त्रितनिघातः । अनाशस्ताइव । ‘शंसु स्तुतौ ' । ' निष्ठा ' इति भावे क्तः । ‘यस्य विभाषा ' इति इट्प्रतिषेधः । नञा बहुव्रीहौ ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । स्मसि । 'इदन्तो मसि' । तू नः । ‘ऋचि तुनुघ' इत्यादिना दीर्घः। गोषु। ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘न गोश्वन्साववर्ण' इति प्रतिषेधः । अश्वेषु । अश्नुतेऽध्वानमित्यश्वः ।' अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम्। शुभ्रिषु । शुभ दीप्तौ ।
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥२
शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽवः । तव॑ । दं॒सना॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥२
शिप्रिन् । वाजानाम् । पते । शचीऽवः । तव । दंसना ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥२
हे "शचीवः शक्तिमन् शिप्रिन् शोभनहनूयुक्त “वाजानां पते अन्नानां पालक “तव दंसना कर्मविशेषोऽनुग्रहरूपः सर्वदा वर्तते । अन्यत् पूर्ववत् ॥ शिप्रिन् । शिप्रे हनू नासिके वा' (निरु. ६. १७) इति यास्कः । अत इनिठनौ' इति मत्वर्थीय इनिः । आमन्त्रिताद्युदात्तत्वम् । वाजानां पते। ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायनिघातः । न च “ आमन्त्रितं पूर्वमविद्यमानवत् ' इति शिप्रिन् इत्यस्य अविद्यमानवत्त्वेन पदादपरत्वात् पादादित्वाच्च न निघातः; ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्' इति अविद्यमानवत्त्वप्रतिषेधात्। शचीवः । छन्दसीरः' इति मतुपो वत्वम्। ‘मतुवसो रुः' इति रुत्वे ' खरवसानयोर्विसर्जनीयः' (पा. सू. ८. ३. १५)। पादादित्वात् आमन्त्रितनिघाताभावः ॥
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥३
नि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ इति॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥३
नि । स्वापय । मिथुऽदृशा । सस्ताम् । अबुध्यमाने इति ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥३
"मिथूदृशा परस्परं संगतत्वेन दृश्यमाने यमदूत्यौ "नि “ष्वापय नितरां सुप्ते कुरु । ते च अस्मान् मारयितुम् "अबुध्यमाने सत्यौ "सस्तां निद्रां प्राप्नुताम् । अन्यत् पूर्ववत् ॥ नि ष्वापय । सुषामादित्वात् षत्वम् ( पा. सू. ८. ३. ९८ )। ‘अन्येषामपि दृश्यते ' इति दीर्घः । मिथुनतया युगलरूपेण पश्यतः इति मिथूदृशा । क्विप् च ' इति दृशेः कर्तरि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्ववत् पूर्वपदस्य दीर्घः । ‘सुपां सुलुक्' इति विभक्तेः आकारः। सस्ताम् । ‘षस स्वप्ने '। लोटि तसस्ताम् । ‘अदिप्रभृतिभ्यः' इति शपो लुक् । प्रत्ययस्वरः । पादादित्वात् निघाताभावः । अबुध्यमाने । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ।
स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तय॑ः ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥४
स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥४
ससन्तु । त्याः । अरातयः । बोधन्तु । शूर । रातयः ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥४
“त्याः अस्माभिरदृश्यमानाः परोक्षास्ताः "अरातयः "अदानशीलाः शत्रवः "ससन्तु निद्रां कुर्वन्तु । हे “शूर शौर्ययुक्तेन्द्र "रातयः दानशीलाः बन्धवः “बोधन्तु अस्मान् बुध्यन्ताम् । अन्यत् पूर्ववत् ॥ ससन्तु । प्रत्ययस्वरः । अरातयः । ‘रा दाने '। ‘मन्त्रे वृष° ' इत्यादिना भावे क्तिन् । न विद्यते रातिः एष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ्सुभ्याम् ' इति तु ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति न भवति । यद्वा । ‘क्तिच्क्तौ च संज्ञायाम् ' इति कर्तरि क्तिच् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधन्तु । पादादित्वात् “ तिङ्ङतिङः' इति निघाताभावः ॥
समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥५
सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥५
सम् । इन्द्र । गर्दभम् । मृण । नुवन्तम् । पापया । अमुया ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥५
हे “इन्द्र "अमुया अनया अस्माभिः श्रूयमाणया "पापया निन्दारूपया वाचा "नुवन्तं स्तुवन्तम् अपकीर्तिं प्रकटयन्तमित्यर्थः । तादृशं "गर्दभं गर्दभसमानवैरिणं "सं “मृण सम्यक् मारय । यथा गर्दभः श्रोतुमशक्यं परुषं शब्दं करोति तथा शत्रुरपि । अन्यत् पूर्ववत् ॥ गर्दभम् । ‘नर्द गर्द शब्दे । ‘कॄगॄशॄशलिगर्दिभ्योऽभच्' ( उ. सू. ३. ४०२ )। ‘चितः' इत्यन्तोदात्तत्वम् । मृण । ' मृण हिंसायाम् ' । तौदादिकः । शस्य ङित्त्वात् गुणाभावः । नुवन्तम् । ‘णु स्तुतौ ' । शतरि अदिप्रभृतित्वात् शपो लुक् । शतुर्ङित्त्वात् गुणाभावे उवङादेशः । प्रत्ययाद्युदात्तत्वम् ।।
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥६
पता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥६
पताति । कुण्डृणाच्या । दूरम् । वातः । वनात् । अधि ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥६
“वातः अस्मत्प्रतिकूलो वायुः "कुण्डृणाच्या कुटिलगत्या स त्वस्मान्परित्यज्य “वनादधि अरण्यादप्यधिकं "दूरं देशं "पताति पततु । अन्यत् पूर्ववत् ॥ पतति । लेटि आडागमः। कुण्डृणाच्या । 'कुडि दाहे ' । अस्मात् ल्युडन्ते कुण्डनशब्दे डकारात् परस्य अकारस्य ऋकारश्छान्दसः । ‘ऋवर्णाच्चेति वक्तव्यम् ' इति णत्वम् । तत् अञ्चतीति कुण्डृणाची ।' ऋत्विक् ' इत्यादिना क्विन् । “अनिदिताम् । इति नलोपे ' अञ्चतेश्चेति वक्तव्यम् ' ( पा. सू. ४. १. ६. २) इति ङीप् । ' अचः ' ( पा. सू. ६. ४. १३८ ) इति अकारलोपः । “चौ ' ( पा. सू. ६. ३. १३८ ) इति पूर्वपदस्य दीर्घत्वम् । ‘चौ ' ( पा. सू. ६. १. २२२ ) इति आकारस्योदात्तत्वम् ॥
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥७
सर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७
सर्वम् । परिऽक्रोशम् । जहि । जम्भय । कृकदाश्वम् ।
आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७
“परिक्रोशम् अस्मद्विषये सर्वतः आक्रोशकर्तारं "सर्वं पुरुषं "जहि मारय । "कृकदाश्वम् अस्मद्विषये हिंसाप्रदं शत्रुं "जम्भय मारय । अन्यत् पूर्ववत् ॥ परिक्रोशम् । ‘क्रुश आह्वाने ' । परितः क्रोशयतीति परिक्रोशः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जहि ।' हन हिंसागत्योः '। हन्तेर्जः ' (पा. सू. ६. ४. ३६ ) इति जादेशः । तस्य ‘असिद्धवदत्रा भात् ' इति असिद्धत्वात् । अतो हेः । इति हेर्लुक् न भवति । जम्भय । जभि नाशने ' । चुरादित्वात् स्वार्थिको णिच् । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । कृकदाश्वम् । ‘कृञ् हिंसायाम्'। ‘कृदाधारार्चिकलिभ्यः कन् । ( उ. सू. ३. ३२० ) इति भावे कन्प्रत्ययः । ‘कित्' इत्यनुवृत्तेः गुणाभावः । तथा च कृको हिंसा तां दाशति प्रयच्छतीति कृकदाशुः । बहुलग्रहणात् दाशतेरपि कृके उपपदे ‘कृके वचः कश्च' ( उ. सू. १. ६ ) इति उण् । प्रत्ययस्वरेणोदात्तः । द्वितीयायाम् अमिपूर्वत्वे प्राप्ते ' वा छन्दसि' इति तस्य बाधितत्वात् यणादेशः । ‘उदात्तस्वरितयोर्यणः ' इति विभक्तेः स्वरितत्वम् ॥ ॥ २७ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|