ऋग्वेदः सूक्तं १.२४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.२४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.२३ ऋग्वेदः - मण्डल १
सूक्तं १.२४
आजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातः।
सूक्तं १.२५ →
दे. १ कः (प्रजापतिः), २ अग्निः, ३-५ सविता, ५ भगो वा, ६-१५ वरुणः। १,२, ६-१५ त्रिष्टुप्, ३-५ गायत्री
पुरुषमेधः


कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम ।
को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥१॥
अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम ।
स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥२॥
अभि त्वा देव सवितरीशानं वार्याणाम् ।
सदावन्भागमीमहे ॥३॥
यश्चिद्धि त इत्था भगः शशमानः पुरा निदः ।
अद्वेषो हस्तयोर्दधे ॥४॥
भगभक्तस्य ते वयमुदशेम तवावसा ।
मूर्धानं राय आरभे ॥५॥
नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः ।
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥६॥
अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः ।
नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः ॥७॥
उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ ।
अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥८॥
शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु ।
बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥९॥
अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः ।
अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥१०॥
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥११॥
तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे ।
शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु ॥१२॥
शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः ।
अवैनं राजा वरुणः ससृज्याद्विद्वाँ अदब्धो वि मुमोक्तु पाशान् ॥१३॥
अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥१४॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥१५॥

[सम्पाद्यताम्]

सायणभाष्यम्

प्रथममण्डलस्य षष्ठे अनुवाके सप्त सूक्तानि । तत्र ‘कस्य नूनम्' इति पञ्चदशर्चं प्रथमं सूक्तम् । अजीगर्तपुत्रस्य शुनःशेपस्य आर्षं त्रैष्टुभम् । अभि त्वा देव' इति तृचो गायत्रः । आद्याया अनिरुक्तत्वात् प्रजापतिर्देवता । ‘अग्नेर्वयम्' इत्यस्य अग्निः । ‘अभि त्वा देव' इत्यस्य तृचस्य सविता । ‘भगभक्तस्य' इत्येषा भगदेवताका वा । शेष वारुण्यः । तथा च अनुक्रान्तं- कस्य पञ्चोनाजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातो वारुणं तु त्रैष्टुभमादौ काय्याग्नेय्यौ सावित्रस्तृचो गायत्रोऽस्यान्त्या भागी वा ' इति । राजसूये अभिषेचनीयेऽहनि मरुत्वतीये परिसमाप्ते सति एतदादिकं सूक्तसप्तकम् अभिषिक्तस्य पुत्रादिभिः परिवृतस्य राज्ञः पुरस्तात् होत्राख्यातव्यम् । तथा च सूत्रेऽभिहितम्-’संस्थिते मरुत्वतीये दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत ' ( आश्व. श्रौ. ९.३) इति । ब्राह्मणं च भवति-' तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानं तद्धोता राज्ञेऽभिषिक्तायाचष्टे हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति ' ( ऐ. ब्रा. ७. १८) इति ।।


कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।

को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥१

कस्य॑ । नू॒नम् । क॒त॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।

कः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥१

कस्य । नूनम् । कतमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम ।

कः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च ॥१

‘कस्य ' इत्यनयर्चा शुनःशेपो यूपे बद्धः कांदिशीकः कं देवम् उपधावानि इति विचिकित्सति। तथा च आम्नायते- हन्ताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं देवतानामुपससार ' ( ऐ. ब्रा. ७. १६ ) इति । वयं शुनःशेपनामकाः “अमृतानां देवतानां मध्ये “कतमस्य किंजातीयस्य "कस्य “देवस्य "चारु शोभनं “नाम “मनामहे उच्चारयामः । “कः देवो मां मुमूर्षुं “पुनः अपि “मह्यै महत्यै “अदितये पृथिव्यै “दात् दद्यात् । तेन दानेन अहममृतः सन् “पितरं “मातरं “च “दृशेयं पश्येयम् ।' को वै नाम प्रजापतिः' (ऐ. ब्रा. ३.२१ ) इति श्रुतेः कस्य इति शब्दसामान्यात् अनया प्रजापतिरेव उपसृतः इति गम्यते ॥ कतमस्य । किंशब्दात् ' वा बहूनां जातिपरिप्रश्ने डतमच् ' (पा. सू. ५. ३. ९३ )। ‘चितः' इत्यन्तोदात्तत्वम् । अमृतानाम् । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते 'नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । मनामहे ! ‘मन ज्ञाने'। व्यत्ययेन शप् । पादादित्वादनिघातः । मह्यै । ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । दात् । गातिस्था' (पा. सू. २. ४. ७७ ) इति सिचो लुक् । बहुलं छन्दस्यमाङयोगेऽपि ' इति अडागमाभावः। दृशेयम् । “ दृशिर् प्रेक्षणे '। आशीर्लिङि मिपः अम् । ‘दृशेरग्वक्तव्यः' (पा. म. ३. १. ८६. २) इति अक्प्रत्ययः शपोऽपवादः। कित्वागेत् लघूपधगुणाभावः । ‘लिङ्याशिष्यङ्' (पा. सू. ३. १. ८६ ) इति अङि हि सति ‘ऋदृशोऽङि गुणः' (पा. सू. ७. ४. १६) इति गुणः स्यात् । यासुट् । सलोपः। अतो येयः । ‘आद्गुणः । यासुटः स्वरेण एकार उदात्तः । मातरं च इत्यत्र चशब्दात् दृशेयम् इति अनुषज्यते । अतः तदपेक्षयैषा तिङ्विभक्तिः प्रथमा इति ‘चवायोगे प्रथमा ' इति न निहन्यते ।


अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।

स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥२

अ॒ग्नेः । व॒यम् । प्र॒थ॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।

सः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥२

अग्नेः । वयम् । प्रथमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम ।

सः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च ॥२

इत्थं प्रथमया ऋचा विचिकित्सां कृत्वा प्रजापतेः सकाशात् तं देवम् अग्निं निश्चित्य अनया तुष्टाव । तथा च श्रूयते-’तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा ' ( ऐ. ब्रा. ७. १६) इति । पूर्ववत् योजना । “दात् ददातु “दृशेयं पश्यानि इत्येवम् आशीःपरत्वेन पदद्वयं योज्यम् ॥


प्रथमे छन्दोमे वैश्वदेवशस्त्रे ‘अभि त्वा देव सवितः' इति सावित्रस्तृचः सूक्तस्थानीयः । अथ च्छन्दोमाः' इति खण्डे 'अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवा ' ( आश्व. श्रौ. ८. ९ ) इति सूत्रितम् । अभि त्वा' इत्येषा अग्निमन्थनेऽपि विनियुक्ता । ' प्रातर्वैश्वदेव्याम् ' इति खण्डे ' अभि त्वा देव सवितर्मही द्यौः पृथिवी च नः' (आश्व. श्रौ. २. १६ ) इति सूत्रितम् । श्रूयते च- अभि त्वा देव सवितरिति सावित्रीमन्वाह ' ( ऐ. ब्रा. १. १६ ) इति । तथा प्रवर्ग्येऽपि एषैव विनियुक्ता । ‘अथोत्तरम्' इति खण्डे ' अभि त्वा देव सवितः समी वत्सं न मातृभिः ' ( आश्व. श्रौ. ४, ७ ) इति सूत्रितम् । तथा ग्रावस्तोत्रेऽपि । एतस्मिन् काले ग्रावस्तुत् ' इति खण्डे ' मध्यमस्वरेणेदं सवनमभि त्वा देव सवितः ' ( आश्व. श्रौ. ५. १२ ) इति सूत्रितम् ॥

अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् ।

सदा॑वन्भा॒गमी॑महे ॥३

अ॒भि । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् ।

सदा॑ । अ॒व॒न् । भा॒गम् । ई॒म॒हे॒ ॥३

अभि । त्वा । देव । सवितः । ईशानम् । वार्याणाम् ।

सदा । अवन् । भागम् । ईमहे ॥३

अथ अग्निना प्रेरितः सन् सवितारम् ‘अभि त्वा' इत्यनेन तृचेन प्रार्थयते । तथैव श्रूयते-- तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन ' (ऐ. ब्रा. ७. १६ ) इति । हे "सदावन् सदा सर्वदा रक्षक हे "सवितः "देव "वार्याणां वरणीयानां धनानाम् "ईशानं स्वामिनं त्वां प्रति “भागं भजनीयं धनम् "अभि सर्वतः “ईमहे याचामहे ॥ ईशानम्। ईश ऐश्वर्ये'। लटः शानच् । ‘ तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । वार्याणाम् । ‘वृङ् संभक्तौ'।' ऋहलोर्ण्यत्'। ईडवन्द इत्यादिनाद्युदात्तत्वम् । अवन् । आमन्त्रितनिघातः । भागम् ।' कर्षात्वतः' इति घञोऽन्तः उदात्तः ॥


यश्चि॒द्धि त॑ इ॒त्था भग॑ः शशमा॒नः पु॒रा नि॒दः ।

अ॒द्वे॒षो हस्त॑योर्द॒धे ॥४

यः । चि॒त् । हि । ते॒ । इ॒त्था । भगः॑ । श॒श॒मा॒नः । पु॒रा । नि॒दः ।

अ॒द्वे॒षः । हस्त॑योः । द॒धे ॥४

यः । चित् । हि । ते । इत्था । भगः । शशमानः । पुरा । निदः ।

अद्वेषः । हस्तयोः । दधे ॥४

हे सवितः "यः "भगः भजनीयो धनविशेषः "ते तव "हस्तयोर्दधे धृतोऽभूत् तं धनविशेषम् ईमहे इति पूर्वत्रान्वयः । चिच्छब्दः पूजार्थे हिशब्दः प्रसिद्धौ। धनस्य पूज्यत्वं सर्वत्र प्रसिद्धम् । तामेव पूज्यत्वप्रसिद्धिं विशदयति । "इत्था “शशमानः अनेन प्रकारेण शस्यमानः स्तूयमानः । धनस्तुतिप्रकारं च सर्वे जानन्ति। ननु स्वकीये धने वैरिभिः अपहृते सति वैरिगृहीतं धनं सर्वो लोको निन्दति द्वेष्टि च । अतो धनस्तुतिः न नियता इत्याशङ्क्याह । "निदः "पुरा “अद्वेषः निन्दायाः पूर्वं स्वकीयत्वेन व्यवस्थिते सति तदानीं द्वेषरहितः । तस्मात् स्वकीयत्वाभिप्रायेण स्तूयमानत्वमुक्तमित्यर्थः ॥ इत्था । प्रकारवचने ' इदमस्थमुः ' ( पा. सू. ५. ३. २४ )। ‘सुपां सुलुक् । इति व्यत्ययेन विभक्तेः डादेशः । टिलोपे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । शशमानः । ‘शश प्लुतगतौ '। इह तु स्तुत्यर्थः। ताच्छील्यवयोवचन ' ( पा. सू. ३. २. १२९) इति ताच्छीलिकानश् । कर्तरि शप् । ‘चितः' इत्यन्तोदात्तत्वम् । निदः । ‘णिदि कुत्सायाम्। संपदादिलक्षणः क्विप्। सावेकाचः° ' इति पञ्चम्या उदात्तत्वम् । अद्वेषः । न विद्यते द्वेषोऽस्य इति बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । दधे । कर्मणि लिट् । तस्य आर्धधातुकत्वेन ‘अभ्यस्तानामादिः' इत्याद्युदात्तो न भवति । प्रत्ययस्वर एव शिष्यते । यद्वृत्तयोगात् निघाताभावः ॥


भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।

मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥५

भग॑ऽभक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव॑ । अव॑सा ।

मू॒र्धान॑म् । रा॒यः । आ॒ऽरभे॑ ॥५

भगऽभक्तस्य । ते । वयम् । उत् । अशेम । तव । अवसा ।

मूर्धानम् । रायः । आऽरभे ॥५

हे सवितः "ते त्वदीयाः "वयं शुनःशेपनामानः "भगभक्तस्य धनेन संयुक्तस्य "तवावसा रक्षणेन “उदशेम उत्कर्षेण व्याप्नुमः । किं कर्तुम् । 'रायः धनस्य "मूर्धानम् उत्कर्षम् "आरभे प्रारब्धुम् । धनिकत्वप्रसिद्धया व्याप्ता भूयामेत्यर्थः ? ॥ भगशब्दो वृषादित्वादाद्युदात्तः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । अशेम । अशू व्याप्तौ' । लिङि व्यत्ययेन परस्मैपदम् । शप् । रायः। ‘ऊडिदम् ' इति षष्ठ्या उदात्तत्वम् । आरभे । ‘कृत्यार्थे तवैकेन्” ' इति तुमर्थे केन्प्रत्ययः । नित्स्वरेणा-. द्युदात्तत्वम् ॥ ॥ १३ ॥


न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः ।

नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥६

न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः ।

न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥६

नहि । ते । क्षत्रम् । न । सहः । न । मन्युम् । वयः । चन । अमी इति । पतयन्तः । आपुः ।

न । इमाः । आपः । अनिऽमिषम् । चरन्तीः । न । ये । वातस्य । प्रऽमिनन्ति । अभ्वम् ॥६

अथ सवित्रा प्रेरितः शुनःशेपः एतदादिसूक्तशेषेण उत्तरेण च सूक्तेन वरुणं तुष्टाव। तथा च श्रूयते-’तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता ' ( ऐ. ब्रा. ७. १६) इति। हे वरुण "पतयन्तः प्रौढे वियत्युत्पतन्तः "अमी दृश्यमानाः “वयश्चन श्येनादयः पक्षिणोऽपि "ते “क्षत्रं त्वदीयं शरीरबलं "नहि "आपुः नैव प्राप्ताः । त्वत्सदृशं शरीरबलं पक्षिणामपि नास्तीत्यर्थः । तथा "सहः त्वदीयं पराक्रमं तव सामर्थ्यमपि "न प्रापुः । तथा “मन्युं त्वदीयं कोपमपि "न प्रापुः । त्वयि क्रुद्धे सति सोढुमशक्ता इत्यर्थः । “अनिमिषं सर्वदा “चरन्तीः प्रवाहरूपेण गच्छन्त्यः "आपः त्वदीयं बलं "न प्रापुः । "वातस्य वायोः "ये गतिविशेषाः त्वदीयम् "अभ्वं वेगं “न “प्रमिनन्ति न हिंसन्ति । अतिक्रमं कर्तुं न शक्ता इत्यर्थः । तेऽपि न प्रापुरिति पूर्वत्रान्वयः ॥ पतयन्तः । ‘पत गतौ'। चुरादिरदन्तः । लटः शतृ । शप् । गुणायादेशौ । अदुपदेशात् । लसार्वधातुकानुदात्तत्वे णिचः स्वरः । आपुः । ‘आप्लृ व्याप्तौ ' । लिट्युसि द्विर्भावहलादिशेषौ। ‘अत आदेः' (पा. सू. ७. ४. ७० ) इति आत्वम् । अत्र न सहो न मन्युम् इत्यादिभिः आपुः इत्यस्य संबन्धात् तदपेक्षया प्राथम्यात् ‘चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । चरन्तीः । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घः । प्रमिनन्ति । ‘मीञ् हिंसायाम् । ‘क्र्यादिभ्यः श्ना'।' श्नाभ्यस्तयोरातः' इति आकारलोपः। ' मीनातेर्निगमे' ( पा. सू. ७. ३. ८१ ) इति ह्रस्वत्वम् । प्रत्ययस्वरः । ‘तिङि चोदात्तवति' (पा. सू. ८. १. ७१ ) इति गतिरनुदात्तः । यद्वृत्तयोगादनिघातः ॥


अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।

नी॒चीना॑ः स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तव॑ः स्युः ॥७

अ॒बु॒ध्ने । राजा॑ । वरु॑णः । वन॑स्य । ऊ॒र्ध्वम् । स्तूप॑म् । द॒द॒ते॒ । पू॒तऽद॑क्षः ।

नी॒चीनाः॑ । स्थुः॒ । उ॒परि॑ । बु॒ध्नः । ए॒षा॒म् । अ॒स्मे इति॑ । अ॒न्तः । निऽहि॑ताः । के॒तवः॑ । स्यु॒रिति॑ स्युः ॥७

अबुध्ने । राजा । वरुणः । वनस्य । ऊर्ध्वम् । स्तूपम् । ददते । पूतऽदक्षः ।

नीचीनाः । स्थुः । उपरि । बुध्नः । एषाम् । अस्मे इति । अन्तः । निऽहिताः । केतवः । स्युरिति स्युः ॥७

"पूतदक्षः शुद्धबलः “वरुणः "राजा "अबुध्ने मूलरहिते अन्तरिक्षे तिष्ठन् "वनस्य वननीयस्य तेजसः "स्तूपं संघम् “ऊर्ध्वम् उपरिदेशे "ददते धारयति । "नीचीनाः "स्थुः । ऊर्ध्वदेशे वर्तमानस्य वरुणस्य रश्मय इत्यध्याहार्यम् । ते ह्यधोमुखास्तिष्ठन्ति । "एषां रश्मीनां "बुध्नः मूलम् “उपरि तिष्ठतीति शेषः। तथा सति "केतवः प्रज्ञापकाः प्राणाः "अस्मे अस्मासु "अन्तर्निहिताः स्थापिताः स्युः मरणं न भविष्यतीत्यर्थः ॥ अबुध्ने । न विद्यते बुध्नः मूलम् अस्य इति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । स्तूपम् । ‘स्त्यै शब्दसंघातयोः । ‘स्त्यः संप्रसारणमूञ्च' इति पप्रत्ययः; तत्संनियोगेन यकारस्य संप्रसारणं परपूर्वत्वे ऊकारादेशश्च । नित्' इत्यनुवृत्तेराद्युदात्तत्वम् । ददते । भौवादिकः । नीचीनाः । निपूर्वात् अञ्चतेः ‘ऋत्विक् ' इत्यादिना क्विन् । “ अनिदिताम्' इति नलोपः । न्यच्शब्दात्स्वार्थे ' विभाषाञ्चेरदिक्स्त्रियाम् ' ( पा. सू. ५. ४. ८) इति खः । ‘आयन्' इत्यादिना तस्य ईनादेशः । ‘आयनादिषूपदेशिवद्वचनं स्वरसिध्यर्थम् ' ( पा. सू. ७. १. २. १ ) इति वचनात् ईकार उदात्तः । ‘अचः' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । स्थुः । ‘गातिस्था ' ( पा. सू. २. ४. ७७ ) इत्यादिना सिचो लुक् ।' आतः' ( पा. सू. ३. ४. ११० ) इति झेः जुसादेशः । उस्यपदान्तात् ' ( पा. सू. ६. १. ९६) इति पररूपत्वम् । ‘बहुलं छन्दस्यमाङ्योगेऽपि' इति अडागमाभावः । अस्मे । ‘सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । निहिताः । गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । स्युः। अस्तेर्लिङि ‘ श्नसोरल्लोपः ॥


उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।

अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥८

उ॒रुम् । हि । राजा॑ । वरु॑णः । च॒कार॑ । सूर्या॑य । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।

अ॒पदे॑ । पादा॑ । प्रति॑ऽधातवे । अ॒कः॒ । उ॒त । अ॒प॒ऽव॒क्ता । हृ॒द॒य॒ऽविधः॑ । चि॒त् ॥८

उरुम् । हि । राजा । वरुणः । चकार । सूर्याय । पन्थाम् । अनुऽएतवै । ऊं इति ।

अपदे । पादा । प्रतिऽधातवे । अकः । उत । अपऽवक्ता । हृदयऽविधः । चित् ॥८

"वरुणः "राजा "सूर्याय सूर्यस्य "पन्थां मार्गम् "उरुं विस्तीर्णं "चकार । हिशब्दः प्रसिद्धौ । उत्तरायणदक्षिणायनॊमार्गस्य विस्तारः प्रसिद्धः । किमर्थमेवं कृतवान् इति तदुच्यते । "अन्वेतवा “उ अनुक्रमेण उदयास्तमयौ गन्तुमेव । तथा "अपदे पादरहिते अन्तरिक्षे "पादा "प्रतिधातवे पादौ प्रक्षेप्तुम् “अकः मार्गं कृतवान् । पूर्वत्र रथस्य मार्गः अत्र पादयोरिति विशेषः । यद्वा । अपदे यूपे बद्धेन मया गन्तुमशक्ये भूप्रदेशे पादौ प्रक्षेप्तुम् उपाय बन्धविमोचनरूपं करोत्वित्यर्थः । "उत अपि च "हृदयाविधश्चित् अस्मदीयवेधकस्ये शत्रोरपि "अपवक्ता अपवदिता निराकर्ता भवतु ॥ चकार । लित्स्वरेण आकार उदात्तः । ‘हि च ' इति निघातप्रतिषेधः । पन्थाम् । 'पथिमथ्यृभुक्षामात् ' (पा. सू. ७. १. ८५) इति द्वितीयायामपि व्यत्ययेन आत्वम् । पथिन्शब्दस्य ‘पतेस्थ च' ( उ. सू. ४. ४५२ ) इति प्रत्ययान्तत्वेन अन्तोदात्तत्वे प्राप्ते ' पथिमथोः सर्वनामस्थाने ' ( पा. सू. ६. १. १९९) इत्याद्युदात्तत्वम् । अन्वेतवै। अनुपूर्वात् एतेः “ तुमर्थे सेसेन् ' इनि तवैप्रत्ययः । तवै चान्तश्च युगपत् ' (पा. सू. ६. २. ५१ ) इति आद्यन्तयोरुदात्तत्वम् । पादा।' सुपां सुलुक् ' इति आकारः । प्रतिधातवे । दधातेः “तुमर्थ ' इति सूत्रेणैव तवेन्प्रत्ययः । ‘तादौ च निति° ' ( पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । अकः । करोतेः 'छन्दसि लुङ्लङलिटः' इति लोडर्थे लुङ्। तस्य तिप् । मन्त्रे घस' ( पा. सू. २. ४. ८०) इत्यादिना च्लेर्लुक् । गुणो रपरत्वम् । हल्ङ्याब्भ्यः ' (पा. सू. ६. १.६८) इति तिपो लोपः । अडागमः । हृदयाविधः । ‘हृञ् हरणे'। ‘वृहोः षुग्दुकौ च' ( उ. सू.४.५४०) इति कयन् ।' व्यध ताडने ' । क्विप् ।' नहिवृति' (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


श॒तं ते॑ राजन्भि॒षज॑ः स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु ।

बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देन॒ः प्र मु॑मुग्ध्य॒स्मत् ॥९

श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ ।

बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः॑ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥९

शतम् । ते । राजन् । भिषजः । सहस्रम् । उर्वी । गभीरा । सुऽमतिः । ते । अस्तु ।

बाधस्व । दूरे । निःऽऋतिम् । पराचैः । कृतम् । चित् । एनः । प्र । मुमुग्धि । अस्मत् ॥९

हे राजन् वरुण "ते तव "शतं "भिषजः बन्धनिवारकाणि शतसंख्याकानि औषधानि वैद्या वा सन्ति । "ते तव "सुमतिः अस्मदनुग्रहबुद्धिः "उर्वी विस्तीर्णा "गभीरा गाम्भीर्योपेता स्थिर "अस्तु । “निर्ऋतिम् अस्मदनिष्टकारिणीं निर्ऋतिं पापदेवतां 'पराचैः पराङ्मुखां कृत्वा "दूरे अस्मत्तो व्यवहिते देशे स्थापयित्वा तां “बाधस्व । "कृतं "चित् अस्माभिरनुष्ठितमपि “एनः पापम् "अस्मत् “प्र "मुमुग्धि प्रकर्षेण मुक्तं नष्टं कुरु ॥ सुमतिः । ‘तादौ च ' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' मन्क्तिन' इत्यादिनोत्तरपदान्तोदात्तत्वम् । संहितायां विसर्जनीयसकारस्य । युष्मत्तत्ततक्षुःष्वन्तःपादम् ' ( पा. सू. ८. ३. १०३ ) इति षत्वम् । बाधस्व । ‘बाधृ विलोडने '। शपः पित्त्वादनुदात्तत्वम् । तिङ्श्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । निर्ऋतिम् । तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । मुमुग्धि । 'मुच्लृ मोक्षणे ' ।' बहुलं छन्दसि ' इति श्लुः । ‘हुझल्भ्यो हेर्धिः' (पा. सू. ६. ४. १०१ )। तस्य अपित्त्वेन ङित्त्वाद्गुणाभावः। ‘चोः कुः' (पा. सू. ८. २. ३०) इति कुत्वम्।।


अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।

अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥१०

अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ ।

अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥१०

अमी इति । ये । ऋक्षाः । निऽहितासः । उच्चा । नक्तम् । ददृश्रे । कुह । चित् । दिवा । ईयुः ।

अदब्धानि । वरुणस्य । व्रतानि । विऽचाकशत् । चन्द्रमाः । नक्तम् । एति ॥१०

"अमी रात्रावस्माभिर्दृश्यमानाः "ऋक्षाः सप्त ऋषयः । तथा च वाजसनेयिन अमनन्ति-- ’ऋक्षा इति ह स्म वै पुरा सप्त ऋषीनाचक्षते ' इति । यद्वा । ऋक्षाः सर्वेऽपि नक्षत्रविशेषाः । ‘ऋक्षाः स्तुभिरिति नक्षत्राणाम् ' ( निरु. ३. २०) इति यास्केन उक्तत्वात् । "उच्चा उच्चैः उपरि द्युप्रदेशे “निहितासः स्थापिताः "ये सन्ति ते ऋक्षाः "नक्तं रात्रौ "ददृश्रे सर्वैरपि दृश्यन्ते । "दिवा अहमि “कुह “चित् "ईयुः क्वापि गच्छेयुः । न दृश्यन्ते इत्यर्थः । "वरुणस्य राज्ञः “व्रतानि कर्माणि नक्षत्रदर्शनादिरूपाणि "अदब्धानि केनापि अहिंसितानि । किंच वरुणस्य आज्ञयैव "चन्द्रमाः "नक्तं रात्रौ "विचाकशत् विशेषेण दीप्यमानः “एति गच्छति ॥ निहितासः । ‘आज्जसेरसुक्' । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वे प्राप्ते ( पा. सू. ६. २. १४४ ) ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ददृशे । दृशेर्लिटि ‘इरयो रे' (पा. सू. ६. ४. ७६ ) इति रेआदेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । कुह । ‘वा ह च च्छन्दसि' ( पा. सू. ५. ३. १३) इति किंशब्दादुत्तरस्य त्रलो हादेशः । ‘कु तिहोः ' ( पा. सू. ७. २. १०४ ) इति किंशब्दस्य कुआदेशः । स्थानिवद्भावात् लित्स्वरेणाद्युदात्तत्वम् । विचाकशत् । कशेर्दीप्त्यर्थात् यङ्लुगन्तात् शतृप्रत्ययः । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । समासे कृत्स्वरः । यद्वा । काशतेर्वा व्यत्ययेन उपधाह्रस्वत्वम्। चन्द्रमाः। ‘चन्द्रे माङो डित् ' ( उ. सू. ४. ६६७ ) इति. असिप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १४ ॥


एकादशिनस्य वारुणस्य पशोर्वपापुरोडाशयोः ‘ तत्त्वा यामि' इति द्वे ऋचौ याज्ये। सूत्रितं च-- ’तत्त्वा यामि ब्रह्मणा वन्दमान इति द्वे अस्तभ्नाद्द्याम् ' ( आश्व. श्रौ. ३. ७ ) इति । वरुणप्रघासेषु वारुणस्य हविषो याज्या तत्त्वा यामि' इत्येषा ‘पञ्चम्यां पौर्णमास्याम् ' इत्यत्र सूत्रितम्-- ’इमं मे वरुण श्रुधि तत्त्वा यामि ब्रह्मणा वन्दमानः ' ( आश्व. श्रौ. २. १७ ) इति ॥

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑ः ।

अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒ः प्र मो॑षीः ॥११

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।

अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥११

तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । आ । शास्ते । यजमानः । हविःऽभिः ।

अहेळमानः । वरुण । इह । बोधि । उरुऽशंस । मा । नः । आयुः । प्र । मोषीः ॥११

हे "वरुण मुमूर्षुरहं त्वां प्रति “तत् आयुः “यामि याचे । कीदृशः । “ब्रह्मणा प्रौढेन स्तोत्रेण “वन्दमानः स्तुवन् । सर्वत्र "यजमानः अपि "हविर्भिः “तत् आयुः "आ “शास्ते प्रार्थयते। त्वं च “इह कर्मणि "अहेळमानः अनादरमकुर्वन् "बोधि अस्मदपेक्षितं बुध्यस्व । हे “उरुशंस बहुभिः स्तुत्य "नः अस्मदीयम् "आयुः "मा "प्र "मोषीः प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु याञ्चाकर्मसु ' ईमहे यामि ' ( नि. ३.१९. १) इति पठितम् । चाशब्दलोपश्छान्दसः ।। अहेळमानः । ' हेडृ अनादरे ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । ' बुध अवगमने ' । लोटः सेर्हिः । ' बहुलं छन्दसि ' इति विकरणस्य लुक् । ' वा छन्दसि ' ( पा सू ३.४. ८८) इति अपित्त्वाभावेन ङित्त्वाभावात् लघू- पधगुणः । ' हुझल्म्यो हेर्धिः ' इति हेर्धिरादेशः । धातोरन्त्यलोपश्छान्दसः । मोषीः । ' मुष स्तेये ' । लोडर्थे छान्दसो लुङ् । ' वदव्रज' ' ( पा. सू ७.२. ३) इति प्राप्ताया वृद्धेः ' नेटि ' ( पा. सू ७ २. ४) इति प्रतिषेधे सति लघूपधगुणः । ' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः ।।


तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।

शुन॒ःशेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥१२

तत् । इत् । नक्त॑म् । तत् । दिवा॑ । मह्य॑म् । आ॒हुः॒ । तत् । अ॒यम् । केतः॑ । हृ॒दः । आ । वि । च॒ष्टे॒ ।

शुनः॒शेपः॑ । यम् । अह्व॑त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा॑ । वरु॑णः । मु॒मो॒क्तु॒ ॥१२

तत् । इत् । नक्तम् । तत् । दिवा । मह्यम् । आहुः । तत् । अयम् । केतः । हृदः । आ । वि । चष्टे ।

शुनःशेपः । यम् । अह्वत् । गृभीतः । सः । अस्मान् । राजा । वरुणः । मुमोक्तु ॥१२

“तदित् तदेव वरुणविषयं स्तोत्रं "नक्तं रात्रौ "मह्यं शुनःशेपाय "आहुः कर्तव्यत्वेनाभिज्ञाः कथयन्ति। तथा "दिवा अपि "तत् एव आहुः। "हृदः मदीयमनसो निष्पन्नः "अयं "केतः प्रज्ञाविशेषोऽपि “तत् एव कर्तव्यत्वेन "आ “वि "चष्टे सर्वतो विशेषेण प्रकाशयति । "गृभीतः गृहीतः यूपे बद्धः “शुनःशेपः एतन्नामको जनः "यं वरुणम् "अह्वत् आहूतवान् "सः "वरुणः "राजा "अस्मान् शुनःशेपान् “मुमोक्तु बन्धात् मुक्तं करोतु ॥ मह्यम् । ‘ङयि च' इत्याद्युदात्तत्वम् । आहुः । ‘ब्रुवः पञ्चानाम् ' (पा. सू. ३. ४. ८४ ) इति ब्रूञो लटि झेः उसादेशः, धातोः आहादेशश्च । हृदः । ‘पद्दन्' ( पा. सू. ६. १. ६३ ) इत्यादिना हृदयशब्दस्य हृदादेशः । ‘उडिदंपदादिः' इति पञ्चम्या उदात्तत्वम् । शुनःशेपः । शुन इव शेपो यस्य इति समासे शुनः शेपपुच्छलाङ्गूलेषु संज्ञायां षष्ठ्या अलुग्वक्तव्यः' (पा. सू. ६. ३. २१. ४) इति अलुक् । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' उभे वनस्पत्यादिषु ' (पा. सू. ६. २. १४०) इति पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । अह्वत् । ह्वेञो लुङि ‘लिपिसिचिह्वश्च' (पा. सू. ३. १. ५३ ) इति च्लेः अङादेशः । ‘आतो लोप इटि च' ( पा. सू. ६. ४. ६४ ) इति आकारलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । गृभीतः । ‘हृग्रहोर्भः' इति भत्वम् । सो अस्मान् ।' प्रकृत्यान्तःपादम्' इति प्रकृतिभावः । मुमोक्तु । ‘बहुलं छन्दसि' इति विकरणस्य श्लुः ॥


शुन॒ःशेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।

अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥१३

शुनः॒शेपः॑ । हि । अह्व॑त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒ऽप॒देषु॑ । ब॒द्धः ।

अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पाशा॑न् ॥१३

शुनःशेपः । हि । अह्वत् । गृभीतः । त्रिषु । आदित्यम् । द्रुऽपदेषु । बद्धः ।

अव । एनम् । राजा । वरुणः । ससृज्यात् । विद्वान् । अदब्धः । वि । मुमोक्तु । पाशान् ॥१३

“गृभीतः बन्धनाय गृहीतः त्रिसंख्याकेषु "दुपदेषु द्रोः काष्ठस्य यूपस्य पदेषु प्रदेशविशेषेषु “बद्धः “शुनःशेपः "आदित्यम् अदितेः पुत्रं यं वरुणम् "अह्वत् आहूतवान् "हि यस्मादेवं तस्मात् सः “वरुणः "राजा “एनं शुनःशेपम् "अव "ससृज्यात् अवसृष्टं बन्धनात् विमुक्तं करोतु । विमोकप्रकार एव स्पष्टीक्रियते । "विद्वान् विमोकप्रकाराभिज्ञः "अदब्धः केनाप्यहिंसितः वरुणः "पाशान् बन्धनरज्जुविशेषान् "वि "मुमोक्तु विच्छिद्यैनं मुक्तं करोतु ॥ त्रिषु ।' षट्त्रिचतुर्भ्यो हलादिः' (पा. सू. ६. १. १७९ ) इति विभक्तेरुदात्तत्वं । संहितायाम् ' उदात्तस्वरितयोर्यणः' इति परः आकारः स्वर्यते । ससृज्यात् ।' सृज विसर्गे '। प्रार्थनायां लिङ्। बहुलं छन्दसि ' इति विकरणस्य श्लुः । विद्वान् ।। ‘विद ज्ञाने'।' विदेः शतुर्वसुः' (पा. सू. ७. १. ३६)।' उगिदचाम्' इति नुम् । हल्ड्यादिसंयोगान्तलोपौ । संहितायां : दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः। अदब्धः। ‘दम्भु दम्भे' । निष्ठायाम् “ अनिदिताम्' इति नलोपे ‘झषस्तथोर्धोऽधः' (पा. सू. ८. २. ४० ) इति धत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥


अवभृथे ' अव ते हेळ: ' इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये। पत्नीसंयाजैश्चरित्वा ' इति खण्डे सूत्रितम्-' अव ते हेळो वरुण नमोभिरिति द्वे' (आश्व. श्रौ. ६. १३) इति ॥

अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑ः ।

क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥१४

अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ ।

क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥१४

अव । ते । हेळः । वरुण । नमःऽभिः । अव । यज्ञेभिः । ईमहे । हविःऽभिः ।

क्षयन् । अस्मभ्यम् । असुर । प्रचेत इति प्रऽचेतः । राजन् । एनांसि । शिश्रथः । कृतानि ॥१४

हे "वरुण "ते तव "हेळः क्रोधं "नमोभिः नमस्कारैः "अव "ईमहे अवनयामः। तथा यज्ञैः साङ्गानुष्ठानेन पूज्यैः "हविर्भिः "अव ईमहे वरुणं परितोष्य क्रोधमपनयामः । हे "असुर अनिष्टक्षेपणशील "प्रचेतः प्रकर्षेण प्रज्ञायुक्त "राजन् दीप्यमान वरुण "अस्मभ्यम् अस्मदर्थं "क्षयन् अस्मिन् कर्मणि निवसन् "कृतानि अस्माभिरनुष्ठितानि “एनांसि पापानि "शिश्रथः श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । ‘बहुलं छन्दसि' इति ऐसभावः । ईमहे ।' ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षि निवासगत्योः'। लटः शतृ। व्यत्ययेन शप्। आमन्त्रिताद्युदात्तत्वम् । असुर । ' असेरुरन् ' ( उ. सू. १. ४२ )। आमन्त्रितनिघातः। शिश्रथः। श्रथ दौर्बल्ये'। चुरादिः अदन्तः । छान्दसे लुङि णिश्रिद्रुस्रुभ्यः° ' ( पा. सू. ३. १. ४८) इति च्लेः चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्वात् सन्वद्भावाभावेऽपि (पा. सू. ७. ४. ९३ ) • बहुलं छन्दसि' (पा. सू. ७. ४. ७८ )इति अभ्यासस्य इत्वम् । पूर्ववत् अडभावः ॥


उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।

अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥१५

उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।

अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥१५

उत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रथय ।

अथ । वयम् । आदित्य । व्रते । तव । अनागसः । अदितये । स्याम ॥१५

हे "वरुण "उत्तमम् उत्कृष्टं शिरसि बद्धं "पाशम् "अस्मत् अस्मत्तः "उत् "श्रथाय उत्कृष्य शिथिलं कुरु । "अधमं निकृष्टं पादेऽवस्थितं पाशम् "अव श्रथाय अधस्तादवकृष्य शिथिलीकुरु । “मध्यमं नाभिप्रदेशगतं पाशं "वि श्रथाय वियुज्य शिथिलीकुरु । "अथ अनन्तरं हे "आदित्य अदितेः पुत्र वरुण “वयं शुनःशेपाः “तव “व्रते त्वदीये कर्मणि "अदितये खण्डनराहित्याय "अनागसः अपराधरहिताः "स्याम भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेन आद्युदात्तत्वे प्राप्ते उत्तमशश्वत्तमौ सर्वत्र' (पा. सू. ६. १. १६० ग. ) इति उञ्छादिषु पाठादन्तोदात्तत्वम् । अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते' (उ. सू. ५. ७३२ ) इति अवतेः अमच्; वस्य धः। श्रथाय। श्रथ दौर्बल्ये'। संहितायां छान्दसो दीर्घः । तव । युष्मदस्मदोर्ङसि' इत्याद्युदात्तत्वम् । अनागसः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ‘नञ्सुभ्याम्' इति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस्शब्दात् ‘अस्मायामेधा ' ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य ‘विन्मतोर्लुक्' ( पा. सू. ५. ३. ६५) इति लुक् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १५ ॥

[सम्पाद्यताम्]

शुनः उपरि टिप्पणी

शुनःशेपोपरि टिप्पणी

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










  • ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२४&oldid=207549" इत्यस्माद् पुनः प्राप्तिः