ऋग्वेदः सूक्तं १.१८३

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१८३ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१८२ ऋग्वेदः - मण्डल १
सूक्तं १.१८३
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८४ →
दे. अश्विनौ। त्रिष्टुप्।
मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१


तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः ।
येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥१॥
सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे ।
वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥२॥
आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् ।
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥३॥
मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम् ।
अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥४॥
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् ।
दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥५॥
अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥६॥

सायणभाष्यम्

‘तं युञ्जाथाम्' इति षडृचं चतुर्थं सूक्तं त्रैष्टुभमागस्त्यमाश्विनम् ॥


तं यु॑ञ्जाथां॒ मन॑सो॒ यो जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः ।

येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥

तम् । युञ्जाथाम् । मनसः । यः । जवीयान् । त्रिऽवन्धुरः । वृषणा । यः । त्रिऽचक्रः ।

येन । उपऽयाथः । सुऽकृतः । दुरोणम् । त्रिऽधातुना । पतथः । विः । न । पर्णैः ॥ १ ॥

हे "वृषणा वर्षकौ कामानां युवां "तं वक्ष्यमाणगुणविशिष्टं रथं "युञ्जाथां योजयतम् । तमित्युक्तं कमित्याह । "यः रथः "त्रिवन्धुरः त्रिप्रकारसारथिस्थानः । वन्धुरं रथिनः स्थानमित्याहुः । ‘आ याह्यर्वाङुप वन्धुरेष्ठाः' ( ऋ. सं. ३. ४३. १ ) इत्यादिमन्त्रान्तरात् । "यः च "त्रिचक्रः चक्रत्रितयोपेतः । पुनः स एव विशेष्यते । "येन रथेन “उपयाथः उपगच्छथः । किम् । 'सुकृतः शोभनसोमाख्यकर्मवतो यजमानस्य “दुरोणम् । गृहनामैतत् । यागगृहम् । येनेत्युक्तं केनेत्याह । “त्रिधातुना त्रिप्रकारस्थानोपेतेन सुवर्णरजतताम्रधातुत्रयोपेतेन वा रथेन । गमने दृष्टान्तः। "विर्न "पर्णैः पक्षी पक्षैर्यथा शीघ्रमप्रयत्नेन गच्छति तद्वदुक्तलक्षणेन रथेन “पतथः गच्छथः ॥


सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थ॒ः क्रतु॑म॒न्तानु॑ पृ॒क्षे ।

वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥

सुऽवृत् । रथः । वर्तते । यन् । अभि । क्षाम् । यत् । तिष्ठथः । क्रतुऽमन्ता। अनु । पृक्षे।

वपुः । वपुष्या। सचताम् । इयम् । गीः । दिवः । दुहित्रा । उषसा । सचेथे इति ॥ २ ॥

हे अश्विनौ युवयोः "रथः सुवृत् शोभनवर्तनः शोभनचक्रपरिभ्रमणः “यन् गच्छन् "क्षाम् “अभि “वर्तते देवयजनभूमिं प्रति गच्छति । "यत् यं रथं “क्रतुमन्ता संकल्पवन्तौ कर्मवन्तौ वा "पृक्षे। अन्ननामैतत् । हविषि निमित्तभूते सति । "अनु अधीत्यर्थे । अधि “तिष्ठथः आश्रयथः। तादृशो रथो देवयजनं प्रत्यागत इत्यर्थः । अनन्तरं “वपुष्या युष्मद्वपुषि हिता शरीरवर्धनी “इयं "गीः इदानीं क्रियमाणप्रकारा स्तुतिरूपा वाक् "वपुः "सचताम् । युवां च "दिवः द्युलोकस्य आदित्यस्य वा “दुहित्रा दुहितृस्थानीयया "उषसा उषोदेवतया "सचेथे यज्ञं संगच्छेथे। उषस्याश्विनयोः समानकालत्वादिति भावः ॥


आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।

येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥

आ। तिष्ठतम् । सुऽवृतम् । यः । रथः । वाम् । अनु । व्रतानि । वर्तते । हविष्मान् ।

येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ।। ३ ॥

हे अश्विनौ "वां युवां "सुवृतं शोभनवर्तनं रथम् “आ “तिष्ठतम् आश्रयतम् । "यो "रथः “हविष्मान् । षष्ठ्यर्थे प्रथमा । हविष्मतो यजमानस्य “व्रतानि कर्माणि "अनु "वर्तते । यद्वा । यजमानाय दत्तहविषा तद्वान् । "येन च रथेन हे "नरा नेतारौ वा हे "नासत्या असत्यरहितौ युवाम् “इषयध्यै यज्ञं प्राप्तुमिच्छतमिति शेषः । तेन रथेन "वर्तिः । गृहनामैतत् । यजमानस्य यज्ञगृहं “तनयाय पुत्रलाभाय “त्मने आत्मने आत्महिताय "च "याथः ।।


मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् ।

अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥

मा। वाम् । वृकः । मा । वृकीः । आ । दधर्षीत् । मा । परि । वर्क्तम् । उत। मा। अति । धक्तम् ।।

अयम् । वाम् । भागः । निऽहितः । इयम् । गीः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥४॥

हे "दस्रौ शत्रूणामुपक्षपयितारावश्विनौ "वां युवयोः अनुग्रहादिति शेषः । "वृकः हिंसकः अरण्यश्वादिः "मा “दधर्षीत् माम् । तथा “वृकीः वृक्यो हिंसिका अन्य अपि "मा दधर्षीत् ॥ वचनव्यत्ययः ।। धर्षणं मा कार्षुः । युवामेव वा मा दधर्षीदिति योज्यम् । तथा युवां "मा "परि "वर्क्त परितो मा वर्जयतं माम् । "उत अपि च "माति “धक्तम् अस्मानतिक्रम्य अन्यस्मै मा दत्तम् । किमर्थमेवमिति उच्यते । “वां युवयोरर्थाय "अयं "भागः भजनीयो हविरंशः "निहितः। तथा “इयं च "गीः स्तुतिरूपा वागपि निहितेति शेषः । हे दस्रावश्विनौ “वां युवाभ्याम् “इमे इमानि "मधूनां सोमरसानां “निधयः निधानानि स्थापितानि ।।


यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।

दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥

युवाम् । गोतमः । पुरुऽमीळ्हः । अत्रिः । दस्रा । हवते । अवसे । हविष्मान् ।

दिशम् । न । दिष्टाम् । ऋजुयाऽइव । यन्ता । आ । मे। हवम् । नासत्या। उप । यातम् ॥५॥

हे "दस्रा दस्रावश्विनौ "युवां "गोतमः च "पुरुमीळ्हः च "अत्रिः च महर्षयश्च एतेषु एकैकः "हविमान् सन् "अवसे रक्षणाय युष्मत्तर्पणाय वा "हवते आह्वयति । एवमहमप्याह्वयामि । फलसाधनाह्वाने दृष्टान्तः। "यन्ता उपगन्ता उपगन्तुकामः “ऋजूयेव ॥ द्वितीयाया अकारः ।। ऋजुगामिनं मार्गज्ञं “दिष्टां “दिशं "न गन्तव्यामभिमतां दिशं प्रति यथा तथा वामपि । यथा अध्वगामी स्वगन्तव्यस्य शीघ्रगमनाय मार्गज्ञमृजुगामिनमाह्वयति तद्वत् । यद्वा । ऋजूयेव । इवशब्द एवार्थे । गन्ता ऋजुनैव मार्गेण इष्टां दिशमिव तथा युष्मत्प्रीणनेन मार्गेण स्वाभिमतं फलं प्राप्नोति । हे नासत्यावश्विनौ "मे मम "हवम् आह्वानमालक्ष्य “उप "यातम् उपगच्छतम् ॥


अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।

एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि ।

आ। इह । यातम्। पथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥६॥

हे अश्विनौ युवयोः प्रसादात् "अस्य “तमसः तमनहेतोः श्रेयःप्रतिबन्धरूपस्य दुःखस्य "पारं पर्यन्तभूमिम् "अतारिष्म उत्तीर्णाः स्मः । हे "अश्विनौ “वां “प्रति "स्तोमः स्तोत्रम् "अधायि अकारीत्यर्थः । युवां "देवयानैः देवगन्तव्यैर्मार्गैः "इह अस्मद्यज्ञे "आ "यातम् आगच्छतम् । शिष्टो व्याख्यातः ॥ ॥ २९ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके चतुर्थोऽध्यायः समाप्तः ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८३&oldid=155281" इत्यस्माद् पुनः प्राप्तिः