सामग्री पर जाएँ

ऋग्वेदः सूक्तं १.१५०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१५० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१४९ ऋग्वेदः - मण्डल १
सूक्तं १.१५०
दीर्घतमा औचथ्यः।
सूक्तं १.१५१ →
दे. अग्निः। उष्णिक्


पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा ।
तोदस्येव शरण आ महस्य ॥१॥
व्यनिनस्य धनिनः प्रहोषे चिदररुषः ।
कदा चन प्रजिगतो अदेवयोः ॥२॥
स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि ।
प्रप्रेत्ते अग्ने वनुषः स्याम ॥३॥


सायणभाष्यम्

‘ पुरु त्वा' इति तृचात्मकं दशमं सूक्तं दैर्घतमसमाग्नेयमौष्णिहम् । 'पुरु तृचमौष्णिहम्' इत्यनुक्रमणिका ॥ प्रातरनुवाकाश्विनशस्त्रयोरौष्णिहे छन्दसि अस्य विनियोगः । ‘ अथैतस्याः' इति खण्डे सूत्रितं -’ पुरु त्वा त्वामग्ने' ( आश्व. श्रौ. ४. १३) इति ।।


पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।

तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥१

पु॒रु । त्वा॒ । दा॒श्वान् । वो॒चे॒ । अ॒रिः । अ॒ग्ने॒ । तव॑ । स्वि॒त् । आ ।

तो॒दस्य॑ऽइव । श॒र॒णे । आ । म॒हस्य॑ ॥१

पुरु । त्वा । दाश्वान् । वोचे । अरिः । अग्ने । तव । स्वित् । आ ।

तोदस्यऽइव । शरणे । आ । महस्य ॥१

हे अग्ने “त्वा त्वां “पुरु बहु “वोचे । यद्वा । बहु दाश्वानिति संबन्धः । पुत्रं देहि वित्तं देहि इत्याद्याशासनानि ब्रवीमीत्यर्थः । किं तृष्णीं नेत्याह । यतः “दाश्वान् अभिमतं हविः दत्तवानस्मि अतः वोचे । इतरसाधारण्येन ब्रुवतः कथं दातव्यमिति न मन्तव्यम् । यतोऽहं हे “अग्ने “तव “स्वित् तवैव “आ आभिमुख्येन “अरिः अर्ता हविरादिप्रापणेन सेवकोऽहम् । तत्र दृष्टान्तः । “महस्य महतः "तोदस्येव शिक्षकस्य स्वामिनः “शरणे अस्य गृहे यथा गर्भदासादिः "आ समन्तात् नियतो वर्तते तद्वदहमपि । यस्मादेवं तस्मात् अभिमतं बहु वोचे त्वमपि तत्सर्वं देहीत्यर्थः । अत्र निरुक्तं- बहु दाश्वांस्त्वामेवाभिह्वयाम्यरिरमित्र ऋच्छतेः । ईश्वरोऽप्यरिरेतस्मादेव। यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद्दृष्ट्वैवमवक्ष्यत् तोदस्येव शरण आ महस्य तुदस्येव शरणेऽधि महतः ' (निरु. ५. ७) इति ॥


व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः ।

क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥२

वि । अ॒नि॒नस्य॑ । ध॒निनः॑ । प्र॒ऽहो॒षे । चि॒त् । अर॑रुषः ।

क॒दा । च॒न । प्र॒ऽजिग॑तः । अदे॑वऽयोः ॥२

वि । अनिनस्य । धनिनः । प्रऽहोषे । चित् । अररुषः ।

कदा । चन । प्रऽजिगतः । अदेवऽयोः ॥२

पूर्वमन्त्रे स्वाभीष्टं बहु विज्ञापयामीत्युक्तम् । अन्न तु स्वविलक्षणेभ्यो दानादिरहितेभ्यो दानं न दातव्यमिति प्रार्थयते । हे अग्ने त्वां विशेषेण ब्रवीमि । उपसर्गश्रुतेः योग्यक्रियाध्याहारः । अथवा संनिहितत्वात् वोचे इत्यनुषज्यते । अस्मदर्थं यत् व्यजिज्ञपन्’ तद्विरुद्धं वोचे । वक्ष्यमाणस्वरूपस्य न दातव्यम् इति ब्रवीमि" इत्यर्थः । तेषां स्वरूपमाह । “अनिनस्य अस्वामिनः त्वाम् अस्वामिनं कुर्वाणस्य तथा “धनिनः समग्रधनवतः । पूर्वमेव धनवतो दानस्य निरर्थकत्वात् तन्निवार्यते । यद्वा । यागाद्यनुपयोगिधनवतः इत्यर्थः । किंच “प्रहोषे प्रकर्षेण होतुम् अररुषः अददतो दक्षिणारूपेण । यद्वा । प्रहोषेऽनिनस्येति संबन्धः । प्रकर्षेण होतुमसमर्थस्येत्यर्थः । अत्र इनशब्देन तत्स्थं सामर्थ्यं लक्ष्यते । चिच्छब्दः समुच्चयार्थः । किंच “कदा “चन “प्रजिगतः कदाचिदपि प्रकर्षेण देवान् अस्तुवतः । अत्र चन इति निपातद्वयसमुदायः । तत्र चशब्दः समुच्चये नशब्दो निषेधे । किंच “अदेवयोः देवानात्मनोऽनिच्छतः । एतेषां न दातव्यमिति विवोचे इत्यर्थः । निन्दितानां स्वरूपनिरूपणेन स्वस्य अतादृशत्वात् बहु वोचे इत्येतत् युक्तमेवेत्युक्तं भवति । यद्वा । चन इति चिच्छब्दपर्यायः । उक्तप्रकारेण दुष्टस्यापि कदाचित् प्रजिगतो यदाकदाचित् त्वां स्तुवतो विवोचे । तादृशस्य दातव्यमिति विशेषेण ब्रवीमि । किमु वक्तव्यमस्मदर्थमिति भावः ।।


स चं॒द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राधं॑तमो दि॒वि ।

प्रप्रेत्ते॑ अग्ने व॒नुषः॑ स्याम ॥३

सः । च॒न्द्रः । वि॒प्र॒ । मर्त्यः॑ । म॒हः । व्राध॑न्ऽतमः । दि॒वि ।

प्रऽप्र॑ । इत् । ते॒ । अ॒ग्ने॒ । व॒नुषः॑ । स्या॒म॒ ॥३

सः । चन्द्रः । विप्र । मर्त्यः । महः । व्राधन्ऽतमः । दिवि ।

प्रऽप्र । इत् । ते । अग्ने । वनुषः । स्याम ॥३

हे अग्ने “विप्र मेधाविन् यः “मर्त्यः त्वां यजते “सः मर्त्यो यजमानः “दिवि द्युलोके “चन्द्रः सर्वेषाम् आह्लादकश्चन्द्रसदृशो भवति । यद्वा । चन्द्र एव भवति । यजमानानां चन्द्रत्वप्राप्तिं छन्दोगा आमनन्ति- पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा' (छा. उ. ५. १०. ४) इति । ‘ सोमलोके विभूतिमनुभूय' (प्र. उ. ५.४) इति च । तथा मुण्डकेऽपि द्युलोकप्राप्तिराम्नायते–' एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । तं नयन्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः' इति, “ एष वः पुण्यः सुकृतो ब्रह्मलोकः' (मु. उ. १. २. ५-६ ) इति च । पुनः स एव विशेष्यते। “महः महतोऽपि “व्राधन्तमः प्रवृद्धतमः । इतरदेवानामपि श्रेष्ठ इत्यर्थः। अतः “अग्ने' "ते तव “प्रप्रेत् प्रकर्षेणैव “वनुषः संभक्तारः “स्याम । यद्वा । प्रीणयित्वा प्रप्रेत् स्याम । प्रकृष्टा एव भवेम ॥ ॥ १९ ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५०&oldid=207816" इत्यस्माद् प्रतिप्राप्तम्