ऋग्वेदः सूक्तं १.११२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.११२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१११ ऋग्वेदः - मण्डल १
सूक्तं १.११२
कुत्स आङ्गिरसः
सूक्तं १.११३ →
दे. १ (आद्यपादस्य) द्यावापृथिव्यौ, १ (द्वितीयपादस्य) अग्निः, १ (उत्तरार्धस्य) अश्विनौ, २-२५ अश्विनौ । जगती, २४-२५ त्रिष्टुप्।
धवित्र होमम् Dhavitra Homam


ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥१॥
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥२॥
युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥३॥
याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।
याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥४॥
याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे ।
याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥५॥
याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥६॥
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥७॥
याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।
याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥८॥
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।
याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥९॥
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् ।
याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१०॥
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥११॥
याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥१२॥
याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।
याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१३॥
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१४॥
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१५॥
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥१६॥
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥१७॥
याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः ।
याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१८॥
याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् ।
याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥१९॥
याभिः शंताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।
ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥२०॥
याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।
मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२१॥
याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
याभी रथाँ अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥२२॥
याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥२३॥
अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥२४॥
द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥२५॥

सायणभाष्यम्

‘ईळे ' इति पञ्चविंशत्यृचं सप्तमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । चतुर्विंशीपञ्चविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः । आद्यः पादो द्यावापृथिव्यः । द्वितीय आग्नेयः । शिष्टं सूक्तमाश्विनम् । तथा चानुक्रान्तम्-‘ईळे पञ्चाधिकाश्विनमाद्यौ पादौ लिङ्गोक्तदेवतावन्त्ये त्रिष्टुभौ ' इति । प्रवर्ग्ये अभिष्टवेऽप्येतत्सूक्तम् ॥ सूत्रितं च--’ग्रावाणेवेळे द्यावापृथिवी इति' (आश्व. श्रौ. ४. ६ ) इति । प्रातरनुवाके चाश्विने क्रतौ जागते छन्दस्येतत्सूक्तम् । सूत्रितं च -’अगन्म महातारिष्मेळे द्यावापृथिवी इति जागतम् ' ( आश्व. श्रौ. ४. १५ ) इति । आश्विनशस्त्रेऽप्येतत् ‘ प्रातरनुवाकन्यायेन ' ( आश्व. श्रौ. ६. ५) इति अतिदेशात् । तथा अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि। तत्राच्छावाकातिरिक्तोक्थे एतत्सूक्तम् ।' यस्य पशवः' इति खण्डे सूत्रितम्-‘ईळे द्यावापृथिवी उभा उ नूनम् ' (आश्व. श्रौ. ९. ११ ) इति ।।


ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।

याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१

ईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ ।

याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

ईळे । द्यावापृथिवी इति । पूर्वऽचित्तये । अग्निम् । घर्मम् । सुऽरुचम् । यामन् । इष्टये ।

याभिः । भरे । कारम् । अंशाय । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

अहं “द्यावापृथिवी द्यावापृथिव्यौ “ईळे स्तौमि । किमर्थम् । “पूर्वचित्तये पूर्वमेवाश्विनोः प्रज्ञापनाय । ते ह्यश्विनोः प्रत्यासन्ने । यद्वा । द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तये अन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय । तथा चोक्तं - ’तत्कावश्विनौ द्यावापृथिव्यावित्येके' ( निरु. १२. १) इति । अपि च “यामन् यामनि अश्विनोरागमने सति “इष्टये तदीययागार्थमाहवनीयरूपेण स्थापितम् “अग्निं स्तौमीति शेषः । कीदृशमग्निम् । “घर्मं प्रवृञ्जनेन दीप्तं “सुरुचम् अत एव शोभनकान्तियुक्तम् । हे अश्विनौ “भरे । संग्रामनामैतत् । संग्रामे “अंशाय युष्मदीयभागाय जयप्राप्त्यर्थं “याभिः ऊतिभिः पालनैः सहागत्य “कारम् । कारशब्दः शङ्खवाचीत्यभियुक्ताः संगिरन्ते । कारं शब्दकारिणं शङ्खं “जिन्वथः मुखेनापूरयथः “ताभिः तादृशैः “ऊतिभिः पालनैः सह। “उ इति समुच्चये । अस्मानपि सुष्ठु “आ “गतम् आगच्छतम् ॥ ईळे । ‘ईड स्तुतौ ' । उत्तमैकवचनम् इट् । अदादित्वात् शपो लुक् । अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । द्यावापृथिवी । द्यौश्च पृथिवी च । ‘दिवो द्यावा' इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दो ङीपन्तः अन्तोदात्तः । ‘देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । ‘°अपृथिवी ' इति पर्युदासात् ‘नोत्तरपदेऽनुदात्तादौ ' इति निषेधाभावः। ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । पूर्वचित्तये । ‘चिती संज्ञाने' । अस्मात् अन्तर्भावितण्यर्थात् भावे क्तिन् । मरुवृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सुरुचम् । ‘रुच दीप्तावभिप्रीत्यां च' संपदादिलक्षणो भावे क्विप् । शोभना रुग्यस्य । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यामन् । ' या प्रापणे ' । आतो मनिन् ' इति ‘कृत्यल्युटो बहुलम्' इति बहुलवचनात् भावे मनिन् । कारम् । क्रियतेऽनेनेति कारः । करणे घञ् । 'कर्षात्वतः' इत्यन्तोदात्तत्वम् । जिन्वथः । ‘जिवि प्रीणनार्थः । अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते । धनेनापूरितो हि पुरुषः प्रीतो भवति । इदित्त्वात् नुम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङः अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते ।' यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तत्र हि व्यवहितेऽपि कार्यमिष्यते (का. ८. १. ६६ ) इत्युक्तम् । ऊ षु ।“ इकः सुञि' इति दीर्घत्वम् । सुञः' इति पत्वम् । ईषाअक्षादित्वात् सुञ उकारस्य प्रकृतिभावः । ऊतिभिः । अवतेर्भावे क्तिन् । ज्वरत्वर' इत्यादिना वकारस्य उपधायाश्च ऊठ् ।ऊतियूति' इत्यादिना निपातनात् क्तिन उदात्तत्वम् । गतम् । गमेर्लोटि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः ॥


यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मंत॑वे ।

याभि॒र्धियोऽव॑थः॒ कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥२

यु॒वोः । दा॒नाय॑ । सु॒ऽभराः॑ । अ॒स॒श्चतः॑ । रथ॑म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त॑वे ।

याभिः॑ । धियः॑ । अव॑थः । कर्म॑न् । इ॒ष्टये॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

युवोः । दानाय । सुऽभराः । असश्चतः । रथम् । आ । तस्थुः । वचसम् । न । मन्तवे ।

याभिः । धियः । अवथः । कर्मन् । इष्टये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

“सुभराः शोभनस्तोत्रभरणाः “असश्चतः अन्यत्रानासक्ताः स्तोतारो हे अश्विनौ “युवोः युवयोः “रथम् “आ “तस्थुः आतिष्ठन्ति प्राप्नुवन्ति । किमर्थम् । “दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टान्तः । “वचसं “न यथा न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं “मन्तवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवन्ति तद्वत् । अपि च “कर्मन् कर्मणि “इष्टये यागार्थं प्रवृत्तान् “धियः ध्यातॄन विशिष्टज्ञानोपेतान् "याभिः “ऊतिभिः पालनैः “अवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वात् मत्वर्थीयः अच् । मन्तवे । ‘मन ज्ञाने'। ‘कमिमनिजनि” ' इत्यादिना तुप्रत्ययः । धियः । ध्यायन्तीति धियः स्तोतारः । ‘ध्यै चिन्तायाम् । ‘क्विप् च ' इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् संप्रसारणम् । कर्मन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । 'न ङिसंबुद्ध्योः' इति नलोपप्रतिषेधः ॥


यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ ।

याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥३

यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ ।

याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

युवम् । तासाम् । दिव्यस्य । प्रऽशासने । विशाम् । क्षयथः । अमृतस्य । मज्मना ।

याभिः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे “नरा नेतारावश्विनौ “दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्य “अमृतस्य सोमस्य पानेनोत्पन्नेन “मज्मना बलेन युक्तौ “युवं युवां “तासां यास्त्रिषु लोकेषु वर्तन्ते तासां सर्वासां “विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे “क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे समर्थौ भवथः । यद्वा । मज्मना अन्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य “प्रशासने प्रदाने क्षयथः ईश्वरौ भवथः । अपि च “याभिः “ऊतिभिः रक्षाभिः "अस्वं प्रसवासमर्थां “धेनुं गां शयुनाम्ने ऋषये “पिन्वथः सिञ्चथः पयसा पूरितवन्तावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् ।' पूङ् प्राणिगर्भविमोचने '। सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूः यस्याम् इति असूः । ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । अमि ‘ओः सुपि ' इति यणादेशः । उदात्तस्वरितयोर्यण: ' इति परस्यानुदात्तस्य स्वरितत्वम् । पिन्वथः । पिवि सेचने '। इदित्त्वात् नुम् । भौवादिकः ॥


याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति ।

याभि॑स्त्रि॒मंतु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥४

याभिः॑ । परि॑ऽज्मा । तन॑यस्य । म॒ज्मना॑ । द्वि॒ऽमा॒ता । तू॒र्षु । त॒रणिः॑ । वि॒ऽभूष॑ति ।

याभिः॑ । त्रि॒ऽमन्तुः॑ । अभ॑वत् । वि॒ऽच॒क्ष॒णः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । परिऽज्मा । तनयस्य । मज्मना । द्विऽमाता । तूर्षु । तरणिः । विऽभूषति ।

याभिः । त्रिऽमन्तुः । अभवत् । विऽचक्षणः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

“परिज्मा परितो गन्ता वायुः “तनयस्य आत्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते-' अथ यः प्राणापानयोः संधिः स व्यानः। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ' ( छा. उ. १. ३. ३; ५) इति । यद्वा । सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्नेः पुत्रत्वम् । आम्नायते च-’वायोरग्निः' ( तै. आ. ८. १ ) इति । एवं स्वपुत्रस्याग्नेः “मज्मना बलेन युक्तः सन् “द्विमाता द्वयोर्लोकयोः निर्माता । अग्निः पृथिवीस्थानो वायुरन्तरिक्षस्थानः । उभयर्मिलितयोः उभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । ‘सुपां सुलुक् । इति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्यां जातस्य। एवंभूतो वायुर्हे अश्विनौ “याभिः ऊतिभिः हेतुभूतैः पालनैः “तूर्षु तरीतृषु धावत्सु मध्ये “तरणिः अतिशयेन तरीता शीघ्रगामी 'विभूषति विभवति व्याप्तो भवति । यद्वा । विशेषेण सर्वमलंकरोति । अपि च ”त्रिमन्तुः त्रयाणां मन्ता त्रिविधेषु पाकयज्ञहविर्यज्ञसोमयज्ञेष्वासादितज्ञानः कक्षीवान् “याभिः युष्मदीयाभिरूतिभिः “विचक्षणः विशिष्टज्ञानयुक्तः “अभवत् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानागच्छतम् ॥ परिज्मा । परिपूर्वात् अज गतिक्षेपणयोः' इत्यस्मात् ‘श्वन्नुक्षन् ' इत्यादौ निपात्यते । तूर्षु । ‘तॄ प्लवनतरणयोः । ‘बहुलं छन्दसि ' इति उत्वम् । हलि च ' इति दीर्घः । यद्वा । त्वरतेः क्विप् । ज्वरत्वर' इत्यादिना वकारोपधयोः ऊठ् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । विभूषति । भवतेर्लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् । यद्वा । ‘भूष अलंकारे'। भौवादिकः । विचक्षणः । ‘अनुदात्तेतश्च हलादेः' इति युच् ॥


याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वंद॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।

याभिः॒ कण्वं॒ प्र सिषा॑संत॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥५

याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे ।

याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । रेभम् । निऽवृतम् । सितम् । अत्ऽभ्यः । उत् । वन्दनम् । ऐरयतम् । स्वः । दृशे ।

याभिः । कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ "याभिः “ऊतिभिः "रेभम् एतत्संज्ञम् ऋषिं “निवृतम् असुरैः कूपे अप्सु निवारितं "सितं तदीयैः पाशैर्बद्धमेवंभूतमृषिम् “अद्भ्यः सकाशात् "उत् "ऐरयतम् उदगमयतम् । तथा “वन्दनम् एतत्संज्ञमृषिं च तथाभूतमुदैरयतम् । किमर्थम् । “स्वः आदित्यं “दृशे द्रष्टुम् । अपि च "कण्वम् असुरैः अन्धकारे प्रक्षिप्तं “सिषासन्तम् आलोकं संभक्तुमिच्छन्तं “याभिः ऊतिभिः “प्र “आवतं प्रकर्षेण अरक्षतम् । ताभिरित्यादि समानम् ॥ रेभम् । ‘रेभृ शब्दे'। रेभते स्तौतीति रेभः । पचाद्यच् । निवृतम् । वृञ् वरणे'। अस्मात् अन्तर्भावितण्यर्थात् कर्मणि निष्ठा । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सितम् । ‘षिञ् बन्धने '। अद्भ्यः । ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । वन्दनम् ।' वदि अभिवादनस्तुत्योः'। वन्दते स्तौतीति वन्दनः । नन्द्यादिलक्षणो ल्युः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम् । तदुक्तं यास्केन -- ’स्वरादित्यो भवति सु अरणः सु ईरणः' (निरु. २. १४) इति । स्वरादिनिपातम् ' ( पा. सू. १. १. ३७ ) इति अव्ययत्वात् सुपो लुक् । दृशे । 'दृशे विख्ये च' इति दृशेः तुमर्थे केप्रत्ययान्तो निपात्यते । सिषासन्तम् । ‘वन षण संभक्तौ ' । सनि सनीवन्तर्ध' इत्यादिना विकल्पनात् इडभावः । ‘जनसनखनां सञ्झलोः' इति आत्वम् । द्विर्भावे अभ्यासस्य ह्रस्वत्वम् ।' सन्यतः । इति इत्वम् ॥ ॥ ३३ ॥


याभि॒रंत॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ ।

याभिः॑ क॒र्कंधुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥६

याभिः॑ । अन्त॑कम् । जस॑मानम् । आ॒ऽअर॑णे । भु॒ज्युम् । याभिः॑ । अ॒व्य॒थिऽभिः॑ । जि॒जि॒न्वथुः॑ ।

याभिः॑ । क॒र्कन्धु॑म् । व॒य्य॑म् । च॒ । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । अन्तकम् । जसमानम् । आऽअरणे । भुज्युम् । याभिः । अव्यथिऽभिः । जिजिन्वथुः ।

याभिः । कर्कन्धुम् । वय्यम् । च । जिन्वथः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

आरणम् अगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं “जसमानं तैर्हिंस्यमानम् “अन्तकं शत्रूणामन्तकरम् एतत्संज्ञं राजर्षिं हे अश्विनौ 'याभिः “ऊतिभिः अवथः रक्षथः । तथा “भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं “याभिः ऊतिभिः रक्षणहेतुभूताभिः “अव्यथिभिः व्यथारहिताभिर्नौभिः "जिजिन्वथुः युवामतर्पयतम् । एतच्च मन्त्रान्तरे' ‘तुग्रो ह भुज्युमश्विनोदमेघे' (ऋ. सं. १. ११६. ३ ) इत्यादिके विस्पष्टयिष्यते । अपि च "कर्कन्धुं "वय्यं "च एतत्संज्ञकौ चासुरैः पीड्यमानौ "याभिः ऊतिभिः "जिन्वथः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जसु हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ्पूर्वात् अर्तेः ल्युट्। जिजिन्वथुः । जिविः प्रीणनार्थः । लिटि अथुसि रूपम् ॥


याभिः॑ शुचं॒तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्यावं॑त॒मत्र॑ये ।

याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥७

याभिः॑ । शु॒च॒न्ति । ध॒न॒ऽसाम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये ।

याभिः॑ । पृश्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । शुचन्ति । धनऽसाम् । सुऽसंसदम् । तप्तम् । घर्मम् । ओम्याऽवन्तम् । अत्रये ।

याभिः । पृश्निऽगुम् । पुरुऽकुत्सम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “धनसां धनस्य संभक्तारं "शुचन्तिम् एतन्नामानं "सुषंसदम् । संसीदन्त्यस्मिन्निति संसत् गृहम् । शोभनसंसदं "याभिः ऊतिभिरकुरुतम् । तथा “अत्रये याभिश्चोतिभिः “तप्तं प्रवृञ्जनेन संतप्तं “घर्मं महावीरम् “ओम्यावन्तं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यन्त्रगृहे असुरैः पीड्यमानाय घर्मं दीप्तं पीडासाधनमग्निं तप्तं तापकारिणम् ओम्यावन्तं सुखवन्तम् अकुरुतम्। यथा अस्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे तु अत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघम् अहः ओम्यावन्तं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवन्तौ इति योज्यम् । अपि च "याभिः ऊतिभिः "पृश्निगुं "पुरुकुत्सं च "अवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानागच्छतम् ॥ शुचन्तिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् ।' जनसनखनक्रमगमो विट्'। ‘विड्वनोरनुनासिकस्यात् ' इति आत्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । ओम्यावन्तम् । अवतेः ‘ अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् । ज्वरत्वर । इत्यादिना वकारस्य उपधायाश्च ऊठ् । गुणः । छन्दसि च ' इत्यर्हार्थे यप्रत्ययः । ‘नस्तद्धिते' इति टिलोपः । ये चाभावकर्मणोः' इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्णा गावो यस्य स तथोक्तः । ‘गोस्त्रियोरुपसर्जनस्य ' (पा. सू. १. २. ४८) इति गोशब्दस्य ह्रस्वत्वम् ।।


याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रांधं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।

याभि॒र्वर्ति॑कां ग्रसि॒ताममुं॑चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥८

याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः ।

याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । शचीभिः । वृषणा । पराऽवृजम् । प्र । अन्धम् । श्रोणम् । चक्षसे । एतवे । कृथः ।

याभिः । वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे "वृषणा कामानां वर्षितारावश्विनौ “याभिः "शचीभिः कर्मभिः प्रज्ञाभिर्वा “परावृजम् एतन्नामकमृषिं पङ्गुं सन्तमपङ्गुमकुरुतम् । तथा "अन्धं दृष्टिरहितं सन्तमृज्राश्वमृषिं "चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः “प्र “कृथः प्रकर्षेण कुरुथः । याभिश्च “श्रोणं विगुणजानुकमेव सन्तमृषिम् “एतवे गन्तुं प्र कृथः प्रकर्षेण कृतवन्तौ । अपि च "याभिः ऊतिभिः "वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं “ग्रसितां वृकेण ग्रस्ताम् "अमुञ्चतं वृकास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतम् इति योज्यम् । “ताभिः सर्वाभिः “ऊतिभिः अस्मानप्यागच्छतम् ॥ वृषणा । वृष सेचने '।' कनिन्युवृषि' ' इत्यादिना कनिन् । परावृजम् । ' वृजी वर्जने ' । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । ‘क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । “तुमर्थे सेसेन्' इत्येतेः तवेन्प्रत्ययः । कृथः । डुकृञ् करणे'।' बहुलं छन्दसि ' इति विकरणस्य लुक् ।। याभिः सिन्धु मधुमन्तुमसञ्चतं वसिष्ठं याभिरजरोवर्जिन्वतम् । ।


याभिः॒ सिंधुं॒ मधु॑मंत॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतं ।

याभिः॒ कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥९

याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् ।

याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । सिन्धुम् । मधुऽमन्तम् । असश्चतम् । वसिष्ठम् । याभिः । अजरौ । अजिन्वतम् ।

याभिः । कुत्सम् । श्रुतर्यम् । नर्यम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ "सिन्धुं स्यन्दनशीलां नदीं "मधुमन्तं मधुसदृशेनोदकेन पूर्णां "याभिः ऊतिभिः “असश्चतम् अगमयतं प्रावाहयतमित्यर्थः । हे "अजरौ जरारहितावश्विनौ "वसिष्ठम् ऋषिं "याभिः ऊतिभिः "अजिन्वतम् अप्रीणयतम् । “याभिः च कुत्सादीन् त्रीन् ऋषीन् "आवतम् अरक्षतम् । "ताभिः सर्वाभिः “ऊतिभिः अस्मानपि सुष्ठ्वागच्छतम् ॥ मधुमन्तम् । मधुशब्दात् भूम्नि मतुप् । लिङ्गव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मात् अन्तर्भावितण्यर्थात् लुङ् ॥


याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतं ।

याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१०

याभिः॑ । वि॒श्पला॑म् । ध॒न॒ऽसाम् । अ॒थ॒र्व्य॑म् । स॒हस्र॑ऽमीळ्हे । आ॒जौ । अजि॑न्वतम् ।

याभिः॑ । वश॑म् । अ॒श्व्यम् । प्रे॒णिम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । विश्पलाम् । धनऽसाम् । अथर्व्यम् । सहस्रऽमीळ्हे । आजौ । अजिन्वतम् ।

याभिः । वशम् । अश्व्यम् । प्रेणिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “धनसां धनं संभजमानाम् "अथर्व्यम् अगच्छन्तीं छिन्नजङ्घात्वेन गन्तुमसमर्थाम् । थर्वतिर्गतिकर्मा । "विश्पलाम् एतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबन्धिनीं "सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेते "आजौ संग्रामे "याभिः ऊतिभिः "अजिन्वतं गन्तुं समर्थामकुरुतम् । एतच्च ' चरित्रं हि वेरिवाच्छेदि पर्णम् ' ( ऋ. सं. १. ११६. १५ ) इत्यत्र विस्पष्टयिष्यते । "याभिः च "अश्व्यम् अश्वाख्यस्य पुत्रं "प्रेणिं स्तुतेः प्रेरयितारं "वशम् एतत्संज्ञम् ऋषिम् "आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ प्रेणिम् । 'प्रेणृ गतिप्रेरणश्लेषणेषु' । औणादिक इप्रत्ययः ॥ ॥ ३४ ॥


याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् ।

क॒क्षीवं॑तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥११

याभिः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । औ॒शि॒जाय॑ । व॒णिजे॑ । दी॒र्घऽश्र॑वसे । मधु॑ । कोशः॑ । अक्ष॑रत् ।

क॒क्षीव॑न्तम् । स्तो॒तार॑म् । याभिः॑ । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । सुदानू इति सुऽदानू । औशिजाय । वणिजे । दीर्घऽश्रवसे । मधु । कोशः । अक्षरत् ।

कक्षीवन्तम् । स्तोतारम् । याभिः । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

उशिक्संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्टयां जीवनार्थमकरोत् `वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ च अश्विनौ मेघं प्रेरितवन्तौ। अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ "औशिजाय उशिक्पुत्राय "वणिजे वाणिज्यं कुर्वते दीर्घश्रवसे एतत्संज्ञाय ऋषये “याभिः युष्मदीयाभिः ऊतिभिः हेतुभूताभिः "कोशः मेघः "मधु माधुर्योपेतं वृष्टिजलम् "अक्षरत् असिञ्चत् युष्मत्प्रसादादपेक्षिता वृष्टिर्जातेत्यर्थः । अपि च उशिजः पुत्रं "स्तोतारं कक्षीवन्तम् एतत्संज्ञमृर्षि "याभिः ऊतिभिः "आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तया युक्तः कक्षीवान् । ‘आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्' इति निपातनात् मतुपो वत्वम् । संप्रसारणम् ॥


याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।

याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१२

याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्नः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे ।

याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । रसाम् । क्षोदसा । उद्नः । पिपिन्वथुः । अनश्वम् । याभिः । रथम् । आवतम् । जिषे ।

याभिः । त्रिऽशोकः । उस्रियाः । उत्ऽआजत । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

‘रसा नदी भवति रसतेः शब्दकर्मणः ' ( निरु. ११. २५) इति यास्कः । हे अश्विनौ "याभिः ऊतिभिः हेतुभूताभिः "रसां नदीमनावृष्ट्या जलरहितां "क्षोदसा कूलानि संपिंषता "उद्नः उदकेन “पिपिन्वथुः युवां पूरितवन्तौ । तथा "अनश्वम् अश्वैर्वियुक्तमात्मीयं रथं "जिषे जेतुं "याभिः ऊतिभिः "अवतम् अगम्यतम् । अपि च “याभिः ऊतिभिः कण्वपुत्रः "त्रिशोकः ऋषिः "उस्रियाः अपहृता: गा: “उदाजत उदगमयत् असुरसकाशात् लेभे । '“ताभिः सर्वाभिः "ऊतिभिः सह अस्मानप्यागच्छतम् ।। क्षोदसा । 'क्षुदिर् संपेषणे'। औणादिकः असुन् । उद्नः । तृतीयैकवचनस्य ‘सुपां सुपो भवन्ति ' इति शसादेशः । ‘पद्दन' इत्यादिना उदकशब्दस्य उदन्भावः । भसंज्ञायाम् अल्लोपोऽनः' इति अकारलोपः । पिपिन्वथुः । ‘पिवि सेचने'। इदित्त्वात् नुम् । जिषे । 'जि जये। ‘तुमर्थे सेसेन् इति क्से प्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥


याभिः॒ सूर्यं॑ परिया॒थः प॑रा॒वति॑ मंधा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तं ।

याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१३

याभिः॑ । सूर्य॑म् । प॒रि॒ऽया॒थः । प॒रा॒ऽवति॑ । म॒न्धा॒तार॑म् । क्षैत्र॑ऽपत्येषु । आव॑तम् ।

याभिः॑ । विप्र॑म् । प्र । भ॒रत्ऽवा॑जम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । सूर्यम् । परिऽयाथः । पराऽवति । मन्धातारम् । क्षैत्रऽपत्येषु । आवतम् ।

याभिः । विप्रम् । प्र । भरत्ऽवाजम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ "परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं "याभिः ऊतिभिः "परियाथः युवां परितो गच्छथः । तथा “मन्धातारम् ऋषि "क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबन्धिषु कर्मसु "आवतम् अरक्षतम् । अपि च "याभिः ऊतिभिः “विप्रं मेधाविनं “भरद्वाजम् ऋषिमन्नप्रदानेन “प्र “आवतं प्रकर्षेणारक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सह रक्षणार्थमस्मानप्यागच्छतम् । क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात् कर्मण्यर्थे प्यञ् ॥


याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शंबर॒हत्य॒ आव॑तं ।

याभिः॑ पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१४

याभिः॑ । म॒हाम् । अ॒ति॒थि॒ऽग्वम् । क॒शः॒ऽजुव॑म् । दिवः॑ऽदासम् । श॒म्ब॒र॒ऽहत्ये॑ । आव॑तम् ।

याभिः॑ । पूः॒ऽभिद्ये॑ । त्र॒सद॑स्युम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । महाम् । अतिथिऽग्वम् । कशःऽजुवम् । दिवःऽदासम् । शम्बरऽहत्ये । आवतम् ।

याभिः । पूःऽभिद्ये । त्रसदस्युम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “महां महान्तम् “अतिथिग्वम् अतिथिभिर्गन्तव्यं "कशोजुवम् असुरभीत्या उदकं प्रवेष्टु गन्तारम् एवंभूतं “दिवोदासम् एतत्संज्ञकं राजर्षिं “शम्बरहत्ये । शम्ब आयुधम् । तद्युक्तः शम्बरोऽसुरः। तस्य हनने विषयभूते सति 'याभिः ऊतिभिः "अवतम् अरक्षतम्। अपि च "याभिः ऊतिभिः “पूर्भिद्ये पुराणि नगराणि भिद्यन्तेऽस्मिन्निति पूर्भिद्यः संग्रामः । तस्मिन् “त्रसदस्युम् एतत्संज्ञकम् ऋषिं पुरुकुत्सपुत्रम् "आवतम् अरक्षतम् । ताभिरित्यादि पूर्ववत् ॥ महाम् । महान्तमित्यस्य छान्दसो वर्णलोपः । कशोजुवम् । कशः इत्युदकनाम । ‘कश गतिशासनयोः'। असुन्। कशांस्युदकानि जवतीति कशोजूः ।। जु इति सौत्रो धातुर्गत्यर्थः । ‘क्विब्वचि° ' ( उ. सू. २. २१५) इत्यादिना क्विब्दीर्घौ। दिवोदासम् । ‘दिवश्व दासे षष्ठ्या अलुग्वक्तव्यः ' ( का. ६. ३. २१. ५) इति अलुक् । ‘दिवोदासादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. ९१. १) इति पूर्वपदाद्युदात्तत्वम् । शम्बरहत्ये । ‘हनस्त च ' इति हन्तेर्भावे क्यप् ; तसंनियोगेन तकारान्तादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥


याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।

याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१५

याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ ।

याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । वम्रम् । विऽपिपानम् । उपऽस्तुतम् । कलिम् । याभिः । वित्तऽजानिम् । दुवस्यथः ।

याभिः । विऽअश्वम् । उत । पृथिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं “विपिपानं विशेषेण पार्थिवं रसं पिबन्तं "याभिः ऊतिभिः अरक्षतम् । कीदृशम् । “उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा “वित्तजानिं लब्धभार्यं “कलिम् एतत्संज्ञमृषिं “याभिः ऊतिभिः “दुवस्यथः रक्षथः । "उत अपि च “व्यश्वं विगताश्वं “पृथिम् एतत्संज्ञं वैनं राजर्षिं 'याभिः ऊतिभिः “आवतम् अरक्षतम् । अन्यत् पूर्ववत् ॥ विपिपानम् । ‘पा पाने'। ताच्छीलिकः चानश् । बहुलं छन्दसि ' इति शपः श्लुः । 'बहुलं छन्दसि । इति अभ्यासस्य इत्वम्। उपस्तुतम्। स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् (पा. सू. ६. २. १४७ )। वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । ‘जायाया निङ्' (पा.सू . ५. ४. १३४ ) इति समासान्तो निङादेशः । लोपो ब्योर्वलि ' इति वलिः लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यश्वम् । विगतोऽश्वो यस्मात्स तथोक्तः । बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्वे ‘उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् ॥ ॥ ३५ ॥


याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ ।

याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१६

याभिः॑ । न॒रा॒ । श॒यवे॑ । याभिः॑ । अत्र॑ये । याभिः॑ । पु॒रा । मन॑वे । गा॒तुम् । ई॒षथुः॑ ।

याभिः॑ । शारीः॑ । आज॑तम् । स्यूम॑ऽरश्मये । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । नरा । शयवे । याभिः । अत्रये । याभिः । पुरा । मनवे । गातुम् । ईषथुः ।

याभिः । शारीः । आजतम् । स्यूमऽरश्मये । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे “नरा नेतारावश्विनौ "पुरा पूर्वस्मिन्काले "शयवे एतत्संज्ञकाय ऋषये "गातुं दुःखान्निर्गमनलक्षणं मार्गं “याभिः ऊतिभिः “ईषथुः युवां वाञ्छितवन्तौ कृतवन्तावित्यर्थः । किं तत् । सामर्थ्यात् ‘शयवे चिन्नासत्या शचीभिः ' ( ऋ. सं. १. ११६. २२ ) इत्यस्यामृचि प्रतिपादितम् । तथा “अत्रये ऋषये शतद्वारे यन्त्रगृहेऽसुरैः पीड्यमानाय संतापकारिणः अग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दुःखनिर्गमनहेतुभूतं मार्गं "याभिः ऊतिभिर्युवामिष्टवन्तौ । एतच्च हिमेनाग्निं घ्रंसमवारयेथाम्' (ऋ. सं. १. ११६. ८) इत्यादौ प्रसिद्धम् । तथा “मनवे एतन्नाम्ने राजर्षये "याभिः ऊतिभिः यवादिधान्यवापनादिरूपं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवन्तौ । तथा च मन्त्रान्तरं- यवं वृकेणाश्विना वपन्ता ' ( ऋ. सं. १. ११७. २१ ) इति । अपि च स्यूमरश्मये स्यूतः संबद्धः रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये "याभिः ऊतिभिः “शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूः "आजतं शत्रून्प्रति प्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा। ‘नृ नये'। ‘ऋदोरप्'। ‘सुपां सुलुक् ' इति विभक्तेः आकारः । शयवे ।' शीङ् स्वप्ने । भृमृशीतॄचरि° ' ( उ. सू. १. ७. ) इत्यादिना उप्रत्ययः । ईषथुः । ‘इषु इच्छायाम्'। लिटि अथुसि ‘°असवर्णे' ( पा. सू. ६. ४. ७८) इति पर्युदासात् अभ्यासस्य इयङादेशाभावे सवर्णदीर्घः । शारीः । विकारार्थे शरशब्दात् “ अनुदात्तादेश्च' इति अञ् । ' टिड्ढाणञ्” ' इति ङीप् । स्यूमरश्मये । ‘षिबु तन्तुसंताने' । सिवेः औणादिको मन्प्रत्ययः ।' च्छ्वोः शूठ्' इति ऊठ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥


याभिः॒ पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना ।

याभिः॒ शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१७

याभिः॑ । पठ॑र्वा । जठ॑रस्य । म॒ज्मना॑ । अ॒ग्निः । न । अदी॑देत् । चि॒तः । इ॒द्धः । अज्म॑न् । आ ।

याभिः॑ । शर्या॑तम् । अव॑थः । म॒हा॒ऽध॒ने । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । पठर्वा । जठरस्य । मज्मना । अग्निः । न । अदीदेत् । चितः । इद्धः । अज्मन् । आ ।

याभिः । शर्यातम् । अवथः । महाऽधने । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “जठरस्य । ‘ जठरमुदरं भवति जग्धमस्मिन्ध्रियते ' ( निरु. ४, ७ ) इति यास्कः । जठरोपलक्षितस्य शरीरस्य "मज्मना बलेन युक्तः सन् "पठर्वा एतत्संज्ञो राजर्षिः “अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिः “याभिः ऊतिभिः “आ समन्तात् “अदीदेत् अदीप्यत । तत्र दृष्टान्तः । “चितः काष्ठैरभिचितः “इद्धः यज्ञगृहे ऋत्विग्भिः प्रज्वालितः अग्निर्न । यथा अग्निः प्रकाशते तद्वदित्यर्थः । अपि च “शर्यातं मानवमिन्द्रेण सह स्पर्धमानं “महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे “याभिः ऊतिभिः "अवथः रक्षथः । ताभिरित्यादि गतम् ॥ अदीदेत् । दीदेतिश्छान्दसो दीप्तिकर्मा । अज्मन् ।' अज गतिक्षेपणयोः' । अजन्ति क्षिपन्त्यस्मिन्बाणानिति अधिकरणे औणादिको मनिन् । ‘वलादावार्धधातुके विकल्प इष्यते' (का. २. ४. ५६. २) इति वचनात् वीभावाभावः । ‘सुपां सुलुक् ' इति सप्तम्या लुक् । महाधने ।' आन्महतः' इति आत्वम् ॥


याभि॑रंगिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः ।

याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१८

याभिः॑ । अ॒ङ्गि॒रः॒ । मन॑सा । नि॒ऽर॒ण्यथः॑ । अग्र॑म् । गच्छ॑थः । वि॒ऽव॒रे । गोऽअ॑र्णसः ।

याभिः॑ । मनु॑म् । शूर॑म् । इ॒षा । स॒म्ऽआव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । अङ्गिरः । मनसा । निऽरण्यथः । अग्रम् । गच्छथः । विऽवरे । गोऽअर्णसः ।

याभिः । मनुम् । शूरम् । इषा । सम्ऽआवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

अङ्गिरः इत्येतदामन्त्रितं वाक्यात् बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति। हे “अङ्गिरः अङ्गिरसां गोत्रज त्वमश्विनौ स्तुहि। हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ सन्तौ युवां “याभिः ऊतिभिः "निरण्यथः स्तोतॄन् नितरां रमयथः । यद्वा ! मनसैव करणभूतेन रमयथः । तथा “गोअर्णसः गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य “विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिः ऊतिभिः सह युवाम् “अग्रं सर्वेभ्यो देवेभ्यः पुरस्तात् “गच्छथः । अपि च “शूरं वीर्यवन्तं “मनुम् “इषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन “याभिः ऊतिभिः “समावतं सम्यगरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ निरण्यथः। निरमयथ इत्यस्य वर्णव्यापत्त्या एतद्रूपम् । विवरे । ' ग्रहवृद्दनिश्चिगमश्च ' इति भावे अप् । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥


याभिः॒ पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतं ।

याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥१९

याभिः॑ । पत्नीः॑ । वि॒ऽम॒दाय॑ । नि॒ऽऊ॒हथुः॑ । आ । घ॒ । वा॒ । याभिः॑ । अ॒रु॒णीः । अशि॑क्षतम् ।

याभिः॑ । सु॒ऽदासे॑ । ऊ॒हथुः॑ । सु॒ऽदे॒व्य॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । पत्नीः । विऽमदाय । निऽऊहथुः । आ । घ । वा । याभिः । अरुणीः । अशिक्षतम् ।

याभिः । सुऽदासे । ऊहथुः । सुऽदेव्यम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “विमदाय एतन्नाम्ने ऋषये “याभिः युष्मदीयाभिः ऊतिभिः “पत्नीः भार्याः पुरुमित्रस्य दुहितरं “न्यूहथुः नितरां युवां प्रापितवन्तौ । “ध इति पादपूरणः । तथा “याभिः ऊतिभिः “अरूणीः अरुणवर्णाः आरोचमाना गाः “आ आभिमुख्येन अशिक्षतम् अदत्तम् । तथा पिजवनपुत्राय “सुदासे कल्याणदानाय राज्ञे “सुदेव्यं प्रशस्तं धनं “याभिः ऊतिभिः “ऊहथुः प्रापितवन्तौ । ताभिरित्यादि गतम् ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे'। अथुसि यजादित्वात् संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यम् । दिगादित्वाद्यत् (पा. सू. ४. ३. ५४ )। तित्स्वरितम् ' इति स्वरितत्त्वम् ॥


याभिः॒ शंता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुं ।

ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥२०

याभिः॑ । शन्ता॑ती॒ इति॒ शम्ऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् ।

ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । शन्ताती इति शम्ऽताती । भवथः । ददाशुषे । भुज्युम् । याभिः । अवथः । याभिः । अध्रिऽगुम् ।

ओम्याऽवतीम् । सुऽभराम् । ऋतऽस्तुभम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “ददाशुषे हवींषि दत्तवते यजमानाय "याभिः ऊतिभिः “शंताती सुखस्य कर्तारौ “भवथः । “याभिः च ऊतिभिः “भुज्युं तुग्रस्य पुत्रम् “अवथः । “याभिः च “अध्रिगुम् । अधिगुर्देवानां शमिता । ' अध्रिगुश्चापापश्च उभौ देवानां शमितारौ ' (तै. ब्रा. ३. ६. ६. ४ ) इति श्रुतेः । अपि च “ऋतस्तुभम्। ऋतं सत्यं स्तोभत्युच्चारयतीति ऋतस्तुप् । एतत्संज्ञमृषिम् “ओम्यावतीम् । ओम्या इति सुखनाम । तद्युक्तां “सुभरां सुखेन भरणीयाम् इषं याभिः ऊतिभिः प्रापयथः। “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ शंताती। ‘शिवशमरिष्टस्य करे' (पा. सू. ४. ४. १४३ ) इति तातिल्प्रत्ययः । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । “दा दाने '। लिटः क्वसुः । ‘वसोः संप्रसारणम्' इति संप्रसारणम् । “शासिवसिघसीनां च ' इति षत्वम् ॥ ॥ ३६ ॥


याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्वं॑त॒माव॑तं ।

मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥२१

याभिः॑ । कृ॒शानु॑म् । अस॑ने । दु॒व॒स्यथः॑ । ज॒वे । याभिः॑ । यूनः॑ । अर्व॑न्तम् । आव॑तम् ।

मधु॑ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्ऽभ्यः॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । कृशानुम् । असने । दुवस्यथः । जवे । याभिः । यूनः । अर्वन्तम् । आवतम् ।

मधु । प्रियम् । भरथः । यत् । सरट्ऽभ्यः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

स्वानादिषु सोमपालेषु' मध्ये कृशानुरेकः सोमपालः । तथा च तैत्तिरीयकं- हस्त सुहस्त कृशानवेते वः सोमक्रयणः: ' (तै. सं. १. २.७) इति । तं “कृशानुम् “असने। इषवोऽस्यन्तेऽस्मिन्नित्यसनः संग्रामः । तस्मिन् संग्रामे हे अश्विनौ “याभिः ऊतिभिः दुवस्यथः रक्षथः । तथा “याभिः च “जवे वेगे प्रवृत्तं “यूनः तरुणस्य पुरुकुत्सस्य “अर्वन्तम् अश्वम् “आवतम् अरक्षतम् । अपि च “यत् “मधु क्षौद्रं “प्रियं सर्वेषामनुकूलवेद्यं तत् “सरड्भ्यः मधुमक्षिकाभ्यः याभिः च ऊतिभिः "भरथः संपादयथः । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ असने । ‘असु क्षेपणे ' । ' करणाधिकरणयोश्च ' इति अधिकरणे ल्युट् । सरड्भ्यः । ‘सृ गतौ । सर्तेरटिः ।।


याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः ।

याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥२२

याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः ।

याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । नरम् । गोषुऽयुधम् । नृऽसह्ये । क्षेत्रस्य । साता । तनयस्य । जिन्वथः ।

याभिः । रथान् । अवथः । याभिः । अर्वतः । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे अश्विनौ “गोषुयुधं गोविषयं युद्धं कुर्वन्तं “नरं यज्ञस्य नेतारं यजमानं “याभिः ऊतिभिः “नृषाह्ये नृभिः सोढव्ये संग्रामे “जिन्वथः प्रीणयथः रक्षथः इत्यर्थः । तथा “क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । “तनयस्य धनस्य च “साता सातये संभजनार्थं "याभिः ऊतिभिः यजमानं रक्षथः,। 'याभिः च यजमानानां “रथान् रक्षथः । तदीयान् “अर्वतः अश्वांश्च याभिः “अवथः । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानप्यागच्छतम् ॥ गोषयुधम् । 'युध संप्रहारे ' । गोषु युध्यते इति गोषुयुत् । तत्पुरुषे कृति बहुलम्' इति अलुक् । नृषाह्ये । ' षह मर्षणे '। ‘शकिसहोश्च' इति यत् । अन्येषामपि दृश्यते' इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता । ' वन षण संभक्तौ । भावे क्तिन् । ‘जनसनखनां सञ्झलोः ' इति आत्वम् । ‘ऊतियूति' इत्यादिना क्तिन उदात्तत्वं निपातितम् ।' सुपां सुलुक् ' इति चतुर्थ्यां डादेशः । जिन्वथः । जिविः प्रीणनार्थः । भौवादिकः । इदित्त्वात् नुम् । रथान् ।' दीर्घादटि समानपादे' इति नकारस्य रुत्वम् । ‘आतोऽटि नित्यम्' इति सानुनासिक आकारः ।।


याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तं ।

याभि॑र्ध्व॒संतिं॑ पुरु॒षंति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥२३

याभिः॑ । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू । प्र । तु॒र्वीति॑म् । प्र । च॒ । द॒भीति॑म् । आव॑तम् ।

याभिः॑ । ध्व॒सन्ति॑म् । पु॒रु॒ऽसन्ति॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

याभिः । कुत्सम् । आर्जुनेयम् । शतक्रतू इति शतऽक्रतू । प्र । तुर्वीतिम् । प्र । च । दभीतिम् । आवतम् ।

याभिः । ध्वसन्तिम् । पुरुऽसन्तिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥

हे “शतक्रतू बहुविधकर्माणावश्विनौ "आर्जुनेयम् । अर्जुन इतीन्द्रस्य नाम । तथा च वाजसनेयकम् - ’एतद्वा इन्द्रस्य गुह्यं नाम यदर्जुनः' इति । तस्य पुत्रं “कुत्सं "याभिः ऊतिभिः “प्र “आवतं प्रकर्षेणारक्षतम् । तथा “तुर्वीतिं “दभीतिं “च याभिः ऊतिभिः “प्र आवतम् । अपि च “याभिः “ध्वसन्तिम् एतत्संज्ञ “पुरुषन्तिम् एतन्नामानं च ऋषिम् “आवतम् अरक्षतम् । “ताभिः सर्वाभिः “ऊतिभिः सहास्मानपि सुष्ठ्वागच्छतम् ॥ आर्जुनेयम् ।' शुभ्रादिभ्यश्च ' ( पा. सू. ४. १. १२३ ) इति चशब्दोऽनुक्तसमुच्चयार्थं इत्युक्तत्वात् ढक् । तुर्वीतिम् । ' तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । ‘दम्भु दम्भे'। औणादिकः कीतिप्रत्ययः । ध्वसन्तिम् । ‘ध्वंसु गतौ च ' । औणादिको झिङ्प्रत्ययः। ‘अनिदिताम्' इति नलोपः । ‘झोऽन्तः' । पुरुषन्तिम् । पुरु सनोति ददातीति पुरुषन्तिः । ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् ।' न क्तिचि दीर्घश्च' इति अनुनासिकलोपोपधादीर्घयोर्निषेधः ॥


अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षां ।

अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥२४

अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् ।

अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥

अप्नस्वतीम् । अश्विना । वाचम् । अस्मे इति । कृतम् । नः । दस्रा । वृषणा । मनीषाम् ।

अद्यूत्ये । अवसे । नि । ह्वये । वाम् । वृधे । च । नः । भवतम् । वाजऽसातौ ॥

हे अश्विनौ “अस्मे अस्माकं “वाचम् “अप्नस्वतीम् । अप्न इति कर्मनाम । विहितैः कर्मभिः संयुक्तां “कृतं कुरुतम् । तथा “नः अस्माकं “मनीषां बुद्धिं हे “वृषणा कामानां वर्षकौ “दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम् । अपि च यस्मात् युवामेवंगुणविशिष्टौ तस्मात् “वां युवाम् “अवसे रक्षणाय “नि “ह्वये नितरामाह्वये । कदा । “अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे । तस्मिन् काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते । आहूतौ “च युवां “वाजसातौ वाजस्यान्नस्य संभजने । यद्वा । संग्रामनामैतत् । संग्रामे “नः अस्माकं "वृधे वर्धनाय “भवतम् ॥ अप्नस्वतीम् । ‘आपः कर्माख्यायां ह्रस्वो नुट् च वा' इति असुन् नुडागमश्च । तदस्यास्ति' इति मतुप् । ‘मादुपधायाः' इति मतुपो वत्वम् । तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । अस्मे । 'सुपां सुलुक् ' इति षष्ठ्याः शेआदेशः । कृतम् । करोतेर्लोटि ‘बहुलं छन्दसि । इति विकरणस्य लुक् । अद्यूत्ये । ‘द्युत दीप्तौ' ।' ऋहलोर्ण्यत्' इति भावे ण्यत् । वर्णव्यापत्त्या ऊकारः । द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनान्तस्वरितत्वम् । नि ह्वये । निसमुपविभ्यो ह्वः' इति आत्मनेपदम् । वृधे । “वृधु वृद्धौ'। संपदादिलक्षणो भावे क्विप् । 'सावेकाच:० इति विभक्तेरुदात्तत्वम् ॥


द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥२५

द्युऽभिः॑ । अ॒क्तुऽभिः॑ । परि॑ । पा॒त॒म् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

द्युऽभिः । अक्तुऽभिः । परि । पातम् । अस्मान् । अरिष्टेभिः । अश्विना । सौभगेभिः ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

हे अश्विनौ “द्युभिः दिवसैः "अक्तुभिः रात्रिभिश्च "अस्मान् स्तोतॄन् “परि “पातं परितो रक्षतं सर्वदास्मान् रक्षतमित्यर्थः । तथा “अरिष्टेभिः अहिंसितैः “सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैः अस्मान् रक्षतम् । यस्माभिः प्रार्थितं “नः अस्मदीयं “तत् मित्रादयः षड्देवताः “ममहन्तां पूजयन्तु । उतशब्दः समुच्चये ॥ द्युभिः । ‘दिव उत्' इति उत्वम् । “ दिवो झल्' ( पा. सू. ६. १. १८३ ) इति ‘सावेकाचः° ' इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । ‘रिष हिंसायाम् । निष्ठा ' इति क्तः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। 'बहुलं छन्दसि इति भिसः ऐसभावः । अश्विना । ‘सुपां सुलुक्' इति विभक्तेः आकारः । ‘आमन्त्रितस्य च ' इति सर्वानुदात्तत्वम् । सौभगेभिः। शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । ‘सुभगान्मन्त्रे' इत्युद्गात्रादिषु पाठात् अञ्प्रत्ययः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इति उभयपदवृद्धिर्न भवति, तस्याः ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति विकल्पितत्वात् । पूर्ववत् ऐसभावः । ‘ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् ॥ ॥ ३७ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके सप्तमोऽध्यायः समाप्तः ।



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११२&oldid=197249" इत्यस्माद् पुनः प्राप्तिः