विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा मे २०२०/कार्यसूची
दिखावट
भवता/भवत्या करणीयस्य कार्यस्य विवरणम् एवं वर्तते।
विशेषसूचनाः
- स्पर्धा मे १ दिनाङ्के 00:00(IST) वादनतः प्रारभ्यते ।
- भवते/भवत्यै निर्दिष्टस्य पुस्तकस्य नाम्नः उपरि यदा नुदति (click करोति) तदा ''अनुक्रमणिका:" इति पृष्ठम् उद्घाट्यते । तत्र पृष्ठसङ्ख्याः दृश्यन्ते । तत्रत्याः सङ्ख्याः अवलम्ब्य निर्दिष्टं पृष्ठम् उद्घाटनीम् । उद्घाटिते पृष्ठे उपरिभागे पुस्तकस्य नाम्नः अनन्तरं या सङ्ख्या दृश्यते तस्य विषये चिन्ता न करणीया ।
- आरम्भपुटस्य परिसन्धिः(Link) अपि अत्र सूचितः । तत्र नोदनेन साक्षात् भवतः/भवत्याः आरम्भिकपुटं गन्तुं शक्नोति।
- पुस्तके अक्षराणां शुद्धिः एव करणीया । पृष्ठविन्यासविषये स्पर्धा नास्ति अतः तद्विषये साम्प्रतं चिन्तनं मास्तु ।
- सर्वेषां कृते प्रायेण विंशतिः पृष्ठानि सूचितानि । केषाञ्चित् पुस्तकस्थितिमवलम्ब्य न्यूनाधिकानि पुटानि सूचितानि ।
- एतावतां पुटानां पाठशुद्ध्यनन्तरं इतोऽपि पुटानि सूचयिष्यन्ते ।
- कार्यं यदा समाप्तिसमीपं गच्छति तदा अस्मिन् पुटे "मम कार्यं समाप्तप्रायम्" लिखित्वा स्वहस्ताङ्कनं कुर्युः । तदनन्तरम् अग्रिमकार्यम् सूचयिष्यते ।
- दशसु दिवसेषु शुद्धीकृतानां पृष्ठानां सङ्ख्यामाश्रित्य पुरस्काराः प्रदीयन्ते ।
- यः कोऽपि सन्देहः अस्ति चेत् चर्चापुटे (अत्र) निस्सङ्कोचं प्रश्नं प्रष्टुम् अर्हन्ति ।