पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/111

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
पातञ्जलयोगसूत्रभाष्यविवरणे


  अत्राभिधीयते-स्वाभाविकी तावन्न भवति पृथिव्यादिरचना । दृष्टान्तो नैव तत्साधनस्य विद्यते । कण्टकादीनां च तैक्ष्ण्यं न स्वाभाविकमभ्युपेयते ।

   अग्न्यादीनामित्ष्ण्यावौष्ण्यादि स्वभावेी वस्तुधर्मत्वाद्धेतो: पृथिव्यादिरचनेतेि चेत्-प्रासादादिरचनाया वस्तुधर्मत्वात् स्यादनैकान्तिकत्वम् ।

   अथ स्वाभाविकत्वादिति चेत्-असिद्धत्वम्, जगद्रचनाया धर्माधर्मफलोपभोगार्थप्रयुक्तत्वाभ्युपगमात् । कर्तृधर्माधर्मास्तित्वमुपरिष्टात् साधयिष्यते ॥

   तस्मात् पृथिव्यादिरचना स्वाभाविकी न भवति, प्राण्युपभोगार्थत्वात् , प्रासादादिरचनावत् । चन्द्रादिप्रवृत्तिर्न स्वाभाविकी, प्रवृत्तित्वातू, अस्मदादिप्रवृत्तिवत् |

   अस्मदादिप्रवृत्तिरपि स्वाभाविकीति चेतू-न- अग्न्युष्णत्ववान्नित्यत्व्प्रसङ्गात् । न ह्यग्न्युष्णत्वं स्वाभाविकं सन्नियतं निमित्तमात्मलाभाय काङ्क्षति धर्मिसत्ताव्यतिरेकेण । क्रियाफलरचनादीनां तु विशिष्टनिमित्ताकाङ्क्षणमात्मप्रतिलम्भायेति न स्वाभाविकत्वम् ।

   नियतनिमित्ताकाङ्क्षणमपि प्रासादादिरचनानां स्वभाव इति चेत्— अस्तु तथाविधस्वभावत्वम् । तथाऽपि पृथिव्यादिरचनाया नियतनिमित्ताकाङ्क्षणस्वभावत्वं प्रासादादिवदेव ! ततश्व नाम्नि विप्रतिपत्तिर्न दोषाय, कारकान्तरापेक्षत्वादिति प्रतिज्ञा प्रतिरूपकारिणी च ।

  भवद्विरुक्तानि [अनुमानानि, लेकानुमागमविरोधात् [अप्रमाणानि] । अनुमानविरोधं तावत् सातिशयत्वादिभ्यो ब्रूमः ।

    आगमविरोधं च "यः सर्वज्ञः1 सर्ववित्" "एको2 वशी" इत्येवमादिभ्यः समाचक्ष्महे । समस्तलेोकविरोधं चापि । सर्व एवानारीगेोपालं संव्यवहरमाणाः सततं शिवनारायणादिनाम्ना प्रणिहितचेतसः प्रतिषेधत्स्वपि संभिन्नबुद्धिषु अकर्णीकृततत्प्रतिषेधविषयपल्लवाः परमेश्वरं प्रणतमूर्धानः कुसुमाञ्जलिप्रभृतिभिरर्चयन्ति । फलं चापि तत एव प्रार्थयन्ते |


  1. मुण्डकोपनिषत् 1, 1. 9.   2. कठोपनिषत् 5. 12.