श्रौतं द्विजातयः कुर्युः स्मार्त्तं शूद्रः समाचरेत् ।
इति वचनाद् द्विजातिविशेषविहितकर्मभिन्नसकलस्मार्त्तकर्मण्यधिकारः शूद्रस्य । सङ्कोचे मानाभावात् ।
न च मन्त्राऽभावान्नाधिकार इति वाच्यम् । ब्राह्मणपठितमन्त्रादेव तत्सिद्धेः । उक्तं च ब्रह्मपुराणे --
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते । इति ।
तस्माद् ब्राह्मणपठितमन्त्रैः शूद्रादिनाऽपि होमकरणे न बाधकं पश्यामः । न च शूद्रस्य स्वतो होमकर्तृत्वं क्वाऽपि न दृष्टचरमिहापि न स्यादिति वाच्यम् । वैश्वदेवहोमे तद्दर्शनात् । अभ्युपगतं चैतद् विज्ञानेश्वराचार्यैरपि ‘तन्न वैश्वदेवं लोकिकेऽग्नौ कर्तव्यं वैवाहिकेऽग्नावित्याचार्याः’ इति मतोपन्यासव्याजेन । वस्तुतस्तु ‘स्त्रीभिः शूद्रैश्च श्लेच्छैश्च’ इत्यादिवाक्येन प्रधानाऽधिकारे सिद्धे अधिकृताधिकारेष्वङ्गेषु होमादिषु सुतरामधिकारः सिद्ध एवेति क्व विचाराऽवसरः । म्लेच्छशब्दश्च शबरकिरातपुलिन्दादिपर इति व्याख्यातं प्राक् ।