न्नधिकारः । कथं मन्त्राऽभाव इति चेत् न विकल्पाऽमहत्वात् । तथा हि--किं वैदिको मन्त्र उत पौराणः अहोस्विन्नमोमन्त्र इति । नाद्यः ।
स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
इति तन्निषेधात् । न द्वितीयः ।
मोहाद्वा कामतः शूद्रः पुराणं संहितां श्रुतिम् ।
पठन्नरकमाप्नोति पितृभिः सह कुट्टनम् ।
इतिभविष्ये निषेधात् । नान्त्यः । नवरात्रीयहोमस्योत्पत्तिवाक्ये मन्त्रान्तराऽवरुद्धत्वेनत्पत्तेः । उक्तं च धौम्येन---
होमस्तत्र प्रकर्त्तव्यः स्वमन्त्रेण जयार्थिभिः ।
जातवेदसमन्त्रेण सम्मन्त्र्य परमाहुतिम् ॥ इति ।
नचोत्पत्तिशिष्टोऽपि गणो अधिकारिविशेषे बाध्यत इति वाच्यम् । यथाविनियोगमधिकारो न तु यथाऽधिकारं विनियोग इति न्यायविद्भिः साधनात् । न च ‘स्वमन्त्रेण’ इत्यनेन गुरूपदिष्टमन्त्रेणैव स्यादिति वाच्यम् । सर्वेषां तद्भावात् । न च स्वस्याऽनधिकारे प्रतिनिधिसम्भवः । तस्मान्नाऽधिकार इति । अत्रोच्यते--