पृष्ठम्:मृच्छकटिकम्.pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३२
मृच्छकटिके

मित्तेअ ! वीसमीअदु । मल्लकेण पाणीअं पि पिबिअ गच्छीअदु’ त्ति ।। ता मा दाव दासीए धीआए गणिआए मुहं पि पेक्खिस्सं । ( सनिर्वेदम्) सुट्ठु खु वुच्चदि---‘अकंदसमुत्थिदा पउमिणी, अवंचओ वाणिओ, अचोरो सुवण्याआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअंति' । ता पिअवअस्सं गदुअ इमादो गणिआपसंगादो णिवत्तावेमि । ( परिक्रम्य, दृष्ट्वा) कथं पिअवअस्सो रुक्खवाडिआए अवविट्टो चिट्ठदि १ ता जाव उवसप्यामि । ( उपसृत्य ) सोत्थि भवदे । वड्ढ्दु भवं। [ अहो गणिकाया लोभोऽदक्षिणता च । यतो न कथापि कृता- ऽन्या । अनेकधा स्नेहानुसारं भणित्वा किमपि, एवमेव गृहीता रत्नावली । एता- वत्या ऋद्ध्या न तयाहं भणितः–'आर्यमैत्रेय! विश्रम्यताम्, मल्लकेन पानीयमपि पीत्वा गम्यताम्' इति । तन्मा तावद्दास्याःपुत्र्या गणिकाया मुखमपि द्रक्ष्यामि । सुष्टु खलूच्यते---‘अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक्, अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यन्ते । तत्प्रियवयस्यं गत्वास्माद्गणिकाप्रसङ्गान्निवर्तयामि । कथं प्रियव- यस्यो वृक्षवाटिकायामुपविष्टस्तिष्ठति ? । तद्यावदुपसर्पामि । स्वस्ति भवते । वर्धत भवान्।]

 चारुदत्तो--( विलोक्य ) अये, सुहृन्मे मैत्रेयः प्राप्तः । वयस्य ! स्वागतम् , आस्यताम् ।।

 विदूषकः---उवविट्टो म्हि । [उपविष्टोऽस्मि ।]

 चारुदत्तः--वयस्य [ कथय तत्कार्यम् ]

 विदूषकः-तं खु कज्जं विणट्टं । [ तत्खलु कार्य विनष्टम् ।]

 चारुदत्तः किं तया न गृहीता रत्नावली ? ।


वनं प्राप्येत्यर्थः ॥ ६ ॥ अणेकहा सिणेहाणुसारं भणिअ अनेकधा स्नेहानुसारं भणित्वा । पाठान्तरेणैव कथा कथं हरितमलंकारभाण्डमित्यादिका । नैव कथा-