[भाष्यम् ]
न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानः । ते लक्षिताः तां तां अवस्थां प्राप्नुवन्तः अन्यत्वेन प्रतिनिर्दिश्यन्ते अवस्थान्तरतः, न द्रव्यान्तरतः । यथा एका रेखा शतस्थाने शतं, दशस्थाने दश, एका च एकस्थाने । यथा °वा एकत्वेऽपि स्री, माता चोच्यते दुहिता च स्वसा च इति ।
अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चित् उक्तः । कथम् ? *अध्वानः स्वव्यापारेण व्यवहिताः । यदा धर्मः स्वव्यापारं न करोति तदा अनागतः, यदा करोति तदा वर्तमानः, यदा कृत्वा निवृत्तः
[विवरणम् ]
कथयति--न धर्मी त्र्यध्वा । मृदाख्यो हि धर्मी पिण्डकपालातीतानागतत्वेन नातीतोऽन गतो वा । सर्वधर्मेषु मृदभिज्ञानानु(प्र)वृत्तेः । किं तर्हि ? धर्माः पिण्डादयः त्र्यध्वानः घटकाले पिण्डकपालयोरदर्शनात् । तस्मादध्वत्रयायोगो न धर्माणां परिशङ्कनीयः ।
ते धर्मा लक्षिताः पिण्डादयः त्र्यध्वत्वेनाभिलक्षिताः तां तामवस्थां दृढदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन नवो घटः पुराणश्चेत्यनेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतः । न द्रव्यान्तरतः मृदतिरिक्तात् ॥
{{gap}}यथा एका रेखा शतस्थाने शून्यद्वयेन तृतीयस्थाने शतं भवति । सैव च दशस्थाने एकेन शून्येन द्वितीयस्थाने दश । सैव प्रथमस्थाने एका ॥
{{gap}}यथा वा एकत्वेऽपि स्त्री माता चोच्यते दुहिता च, सैव अन्यापेक्षया स्वसा च । तदेवम् अवस्थान्तरादेव शब्दप्रत्ययादिभेदाः ! न धर्मधर्मिभेदेन । तस्मात् यदुच्यते परैः शब्दप्रत्ययलक्षणधर्मकालादिभेदो हेतुः कार्यकारणभेदे इति, सोऽनेनानैकान्तिकीकृतः ॥
अवस्थापरिणामे तृतीयेऽस्मिन् कौटस्थ्यप्रसङ्गदोषः [कैश्चित्] उक्तः । कथं कौटस्थ्यप्रसङ्गः ? अध्वानः वर्तमानादयः स्वव्यापारेण व्यवहि(स्थि)ताः । कथम् ? यदा धर्मो घटः पिण्डावस्थायां स्वव्यापारं न करोति तदा अनागतः । यदा करोति तदा वर्तमानः अयम् । यदा कृत्वा निवृत्तः
1. -ताः अलक्षिताः । तत्र लक्षिताः
2. -था च ए
3. अध्वनः व्यापारेण व्यवहितत्वात्