२१
षष्ठो भागः
रहस्यरक्षणम्
धनैर्जनं वशीकृत्य बिभ्रदाकारमीप्सितम् ।
पराभ्यूहं परिहरन्नरः सिद्धिमवाप्नुयात् ॥ २२ ॥
१. अथान्येद्युरुषसि समुत्थाय मारजनिरगदवणिजमेकमाससाद । उवाच च—। त्वन्निर्मिताः सर्वरोगशमनीर्वटिका मह्यं देहि । सोऽपि ता वटिकास्तस्या उपाहरत् । अन्वयुङ्क्त च—। को रुग्णोऽस्ति ? एतस्मिन्सनिःश्वासं सा जगाद—। हन्त स्वामी मे स्वयं रुणोऽस्ति । किं च तस्य विकारो ज्ञातुमपि न शक्यते । स हि न किंचिदभ्यवहरति । न वा व्याहरति——इति । एतावदुक्त्वा वटिका गृहीत्वा सा निष्क्रान्ता ।
२. अथापराह्णसमये सोदश्रुमुखी भूयो भेषजापणिकमुपस्थायाब्रवीत्—। भद्र, शङ्के—। मद्गृहपतिरचिरेण परलोकं यायात् । तथापि मृतकल्पस्य संजीवनक्षमां महामृत्यंजयमात्रां मह्यं देहि । उक्तं हि—
यावच्छ्वासं नैव जह्यात्प्रयासम्——
इति । अन्यथा तु, एतानि वटिकागुटिकारसायनादीनि कियत्तस्योपकुर्युः-इति सुव्यक्तमेव । अतिमात्रं हि रुजा क्षीणत्वं मे स्वामिनः— इति । ततश्च लब्धागदा सा गृहं निवृत्ता ।
३. तस्मिन्दिने प्रभातादारभ्य प्रदोषसमयं यावत्, अलिपर्वा तत्कुटुम्बिनी च विषण्णवदनौ कश्यपनिवासमार्गेण भूयोभूयो गतागतानि कुर्वन्तौ जनैरालोकितौ । अतः पूर्वरात्रे कश्यपवध्वा मारजन्याश्च भर्तुर्मरणं नामोद्दिश्य विलापाञ्श्रुत्वा, ते न मनागपि विस्मयं गताः। मुहूर्तादिव च मारजनिस्तेभ्यः स्वामिनं मृंत कथयामास ।