पृष्ठम्:चोरचत्वारिंशीकथा.djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२२


 ४. सा जरन्तं कंचिच्चर्मकारं जज्ञौ । य इतरेभ्यः पूर्वतरमात्मनः कर्मशालामपावृणोत् । सापररात्रे महतः प्रत्यूषात्पूर्वमेव तं चर्मकारमुपतस्थौ। तस्य च सुप्रातमाशशंसे । तत्करे च स्वर्णनिष्कमेकं पातयामास । मुष्टवाहनामायं चर्मकारो नर्मशीलो वर्तते स्म । प्रतिकूलेऽपि व्यतिकरे न तस्य संतोषोऽहीयत ।

 ५. पाणिपतितं निष्कं प्रेक्ष्य स सहर्षमुवाच-। अहो शुभं दिनमेतत् । मया हि प्रथमतरमेव निष्को लब्धः । स च सौवर्णः। किं चाप्रार्थितः । तदुपरि च पूर्वमेव कर्मानुष्ठानात्-इति । अथ मारजनिं ब्रूते-। त्वया मम सुप्रभातं न केवलं वाचाशास्यते, अपि च धनदानेन वस्तुतः संपाद्यते । ब्रूहि मृगनयने, मत्तः किमपेक्षसे ? एषोऽहमुद्यतस्तदनुष्ठातुम्इ—ति । अथ सा बभाण—। आत्मनः सीवनोपकरणान्यादाय मामनुसर । किं तु त्वां प्रथममेव स्फुटं वच्मि—। यत्कमप्युद्देशं प्राप्य, अहं ते चक्षुषी पटावृते करिष्यामि । तत्त्वया सोढव्यम्-इति ।

 ६. स चर्मकारः, एतदाकर्ण्य, क्षणं तत्कर्तुमनुत्सहमानो व्याजहार—। कच्चिदीदृशं किमपि कर्म न मां कारयसि यत्पापं वा मादृशानर्हं वा भवेत् ? सपदि मारजन्या तस्य पाणौ निष्कान्तरं निहितम् । उक्तं च—। मा मैवम् । अयशस्करं वा भवादृशस्यानुचितं वा न किमपि कार्यं त्वत्तः प्रार्थ्यते । अतो वीतशङ्केन मनसा मामनुयाहि ।

 ७. अथ स चर्मसंधाता तामनुवव्राज । मार्गे किंचित्स्थानमासाद्य सा तं वस्त्रेण दृढावृतलोचनं चकार । तदवस्थं च तं स्वामिगृहाभ्यन्तरगतं शयनागारं प्रावेशयत् । अपनीतनेत्रपटं च व्यदधात् । अस्मिन्नेवागारे मृतस्य गृहपतेः शरीरं स्थितम् । सा तं प्रार्थयामास—। भद्र मुष्टवाह,