सामग्री पर जाएँ

पृष्ठम्:चोरचत्वारिंशीकथा.djvu/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२०

धारयतः । किम् दाहात्पूर्वमस्माभिस्तथा वर्तितव्यं यथा जनो गृह्णीयात् । यदसौ गृहस्थित एव रोगवशादुपरतः । अत्रोपायकल्पने त्वमेव सर्वथा प्रमाणम् । गच्छ तावत् । स्वामिनीं च गृहि- देवरस्ते किंचित्वां वक्तु मिच्छति –इति । मदुक्तं मनसा दृढं धारयस्व । सर्वं पुना रहस्यत्वेन रक्षणीयमिति निर्बन्धेन कथयामि ।

 ८. एवमादिष्टा मारजनिः स्वामिनीमुपेयाय । अलिपर्वा च तामनु जगाम । देवरं दृष्टमात्रं सा पप्रच्छ- किं वृत्तं ते भ्रातुः ? त्वदाकारस्तु विपरीतमेव किमपि गमयति । स प्रत्युवाच- प्रजापति यदधुना मया ख्येयं तवया रहस्यचेन रक्षणीयम् । नोचेदुभयोरप्यावयोर्ध्रुवो नाशः । किंतु प्रथमं स्वया शोकं निगृह्य मनः समाधाय मद्वचः सावशेषमकृत फूत्कारमेव श्रोतव्यम् । तदा सा बभाण- हन्त ! प्रस्ताव एष भर्तारं मे मृतं ज्ञापयति । एवं गतेऽपि वृत्तान्तमिमं सुगुप्तमेव धारणीयं कलये । अतः प्रस्तूयतां यद्वाच्यम् । अवहितास्मि ।

 ९. एवं प्रचोदितोऽलिपर्वा जगाद- गुहां गतोऽहं भ्रातरं मे घातितं तद्देहं च द्विधाकृतमुपलब्धवान्। अथ तच्छरीरार्धे गर्दभमारोप्यात्रानीतवान्। ते च प्रसेविकाद्वयान्तर्निहिते अङ्गणे वर्तते । अथाधुना गृहगत एवासौ गदेन केनापि पञ्चत्वं गतः--इति लोके प्रकाश्य शरीरमिदमग्निदानेन संभावनीयम् । मन्येन एष कृत्यभारो मारजन्या एव हस्ते समर्पणीयः। मयापि यावच्छक्यं तस्याः साहाय्यमनुष्ठेयम् । एषं वचनमादाय रासभाद्देहार्धे अवरोप्य स रासभं तं निजावासं निनाय ।