पृष्ठम्:चोरचत्वारिंशीकथा.djvu/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१९

 पथि स न कश्यपस्य न वा तच्चक्रीवतां किमपि चिह्नमद्राक्षीत् । येन मनस्तस्य तत्तदनिष्ठं शङ्कते स्म । गुहामासाद्य द्वारं परितो रुधिरसेकं प्रैक्षत । येन संजातपूर्वा तस्यानिशङ्का ववृधेतराम् । अथ विवृति मन्त्रोच्चारणवशाद्विवृते द्वारे प्रतिपार्श्वमेकमिति भ्रातुः शरीरशकले अवलम्बिते तेन निरूपिते । तदा तस्य हृदये कियत्साध्वसं समुत्पन्नं स्यात् इति न वाचा व्याख्यातुं, केवलं मनसोत्प्रेक्षितुं यदि किल शक्यं स्यात् ।

 ६. किमधुना प्रतिपत्तव्यमिति सोऽह्नाय निश्चिकाय । तच्छत्रावगुण्ठ नाय पटादिकं किमष्यन्वेष्टुं स गुहागर्भ जगाहे । बृहत्यौ प्रसेविके आदाय तदन्तः शरीरखण्डे निदधौ । ते च पटेनैकेन सर्वत आच्छादयामास । एवं सुगुप्तं तच्छरीरं गर्दभमेकमारोप्य तस्योपरि दारुभारं रचितवान् । अन्यौ च बालेयौ स्वर्णपुर्णौ स्यूतावारोप्य तद्गोपनार्थे तयोरप्युपरि काष्ठभारौ निदधौ । ततश्च मन्त्रेण द्वारं पिधाय निष्क्रान्तः । किन्तु, आ प्रदोषाद्वनान्त एव कालं यापितवान् ।

 ७. अथ वासरे निवृत्ते तमसि च घनं व्यवगाहमाने स नगरं प्रविश्य गृहमाससाद । अथ कोशवाहौ गर्दभावङ्गण एव विससर्ज । यत्र तौ तद्धा र्ययापनीतभारौ क्रियेयाताम् । तृतीयं तु रासभमारोपितभ्रातृशवं स सोदर सदनं निनाय । तत्र प्राप्तोऽसौ द्वारं मन्दं ताडयामास । तच्च मारजन्या नाम गृहदास्या सादरमपावृतम्। सा प्राज्ञा च चतुरा च रहस्यरक्षणक्षमा चासीत् । अलिपर्वा तं गर्दभमङ्गणं निनाय । तत्र च तस्य पृष्ठतः प्रसे विके अवरोपयांचकार । अथ मारजनिं रहसि प्रोवाच- यदधुना मया वक्तव्यं तत्वया रहस्यमिति गोप्त्व्यम् । अन्यथा तव स्वामिन्या मम च विनाशो ध्रुवः । स्वामी ते चोरैर्व्यापादितः । एते च प्रसेविके तच्छरीरं