श्रीः
॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥
॥ साधनपादो द्वितीय: ॥
[ व्यासभाष्यम् ]
उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते--
[ पातञ्जलयोगसूत्रम् ]
तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १ ॥
[ विवरणम् ]
अथेदानीं द्वितीयः साधनपाद आरभ्यते । कैवल्यस्य साधनं सम्यग्दर्शनम् । योगसाधनानि च योगद्वारेण सम्यग्दर्शनसाधनान्येव । तानि च प्राधान्येनास्मिन्पादे प्रतिपाद्यन्त इति साधनपाद इत्युच्यते ॥
तथा, योगसाधनानुष्ठानप्रवृत्तस्यानुषङ्गिकविभूतेः प्राधान्येन प्रतिपादनाद्विभूतिपाद इत्युच्यते तृतीयः ॥
तथा, सकलयोगैश्वर्यविभूतिभ्यो विरक्तस्य सर्वोपसंहारद्वारेण कैवल्यस्य प्राधान्येन प्रदर्शनात् कैवल्यपाद इत्युच्यते चतुर्थः ॥
तथा, समाधिः प्राधान्येनादावुपाख्यात इति प्रथमः समाधिपाद इत्युच्यते ॥
तदेतदाह--उद्दिष्टः समाहितचित्तस्य योग इति--कर्मण्यचित्तस्येत्यर्थः । मैत्रीकरुणादिभावनाद्युपा(ख्या)यलब्धस्थितिपदस्य योगिनः परवैराग्यविरामप्रत्ययसाधनो निर्बीजः समाधिरुद्दिष्टः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादिति । विक्षिप्तचित्तोऽपि कथं नाम समाधियोग्यो भवेदित्यत इदमारभ्यते ।
तपआदिसाधनमनुक्रम्यते--तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।
ननु च तपस्स्वाध्यायेश्वरप्रणिधानानि नियमेषु वदिष्यमाणानि किमर्थमिहोच्यन्ते ॥