पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/51

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

श्रीपतञ्जलये नमः श्रीवेदव्यासाय नमः

श्रीमच्छङ्करभगवत्पादेभ्यो नमः

॥ पातञ्जलयोगसूत्रभाष्यविवरणम्॥

॥ श्रीमच्छङ्करभगवत्पादप्रणीतम् ॥

। समाधिपादः प्रथमः !

(पातञ्जलयोगसूत्रमू)

अथ योगानुशासनम् ॥ १ ॥

(व्यासभाष्यम्)

 अथेत्ययमधिकारार्थः । योगानुशासनं शास्रमधिकृतं वेदितव्यम् ॥

(विवरणमू)

यस्मिन्न स्तः कर्मविपाकौ यत आस्तां
क्लेशा यस्मै नालमलङ्घ्या निखिलानाम् ।
नावच्छिन्नः कालद्दशा य: कलयन्त्या
लोकेशस्तं कैटभशत्रुं प्रणमामि ।


यः सर्ववित् सर्वविभूतिशक्तिः
विहीनदोषोपहितक्रियाफल: ।
विश्वोद्भवान्तस्थितिहेतुरीशो
नमोऽस्तु तस्मै गुरवे गुरोरपि ॥२

 अथेत्यादिपातञ्जलयोगशास्त्र(सूत्रभाष्य)विवरणमारभ्यते । तत्रानाख्यात- सम्बन्धप्रयेाजनं न पुरुषप्रवृतिनिवृतिभ्यां पर्याप्नोतीति, सूत्रकाराभिप्रेते पुरुषप्रवृत्तिनिमित्तभूते सम्बन्धप्रयोजने पूर्वं प्रकटीक्रियेते ॥