पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/52

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
पातञ्जलयोगसूत्रभाष्यविवरणे

 तत्र प्रयोजनं तावत्-चिकित्साशाखे तञ्चतुव्यूहत्वप्रदर्शनद्वारेण व्याख्यातम् । तद्यथा-चिकित्साशास्रं चतुव्यूहं, रोगः, रोगहेतुः, आरोग्यं, भैषज्यम् इति । विधिप्रतिषेधनियमद्वारेण [च तत्] चतुर्व्यूहविषयव्याख्यानपरम् । एवमिहापि “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाञ्च दुःखमेव सर्वं विवेकिंन: इत्यारभ्य चतुर्व्यूहत्वं शास्त्रस्य प्रदर्शितम् । तद्यथा-दुःखप्रचुरः संसारो हेयः । तस्याविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतुः । विवेकख्यातिरविप्लवा हानोपायः । विवेकख्यातौ च • सत्यामविद्यानिवृतिः, तन्निवृत्तावात्यन्तिको द्रष्टृदृश्यसंयोगोपरमो हानम् , तदेव. कैवल्यमिति । आरोग्यस्थानीयकैवल्यप्रयुक्तत्वादस्य तदेव कैवल्यं प्रयोजनम् ॥

 ननु च हेयतद्धेतू न प्रस्तोतव्ये, निष्प्रयोजनत्वात् । हानप्रयुक्तं हि शास्त्रं, तदुपायभूता विवेकख्यातिरेव वक्तव्या । न हि कण्टकविद्धचरणतलस्य तदपनयनं मुक्त्वा दुःखतद्वेतू चोद्येते । नैतदेवं-हेयतत्कारणापेक्षत्वाद्धानोपायस्य । यावदिदमनेनोपायेन हातव्यं संसारचक्रम् अस्य चाविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतु: इति नाख्यायते, तावन्नाविद्याप्रतिपक्षभूता विवेकख्यातिराख्यातुं शक्यते । हेयतद्धेतुमतो हानोपायार्थिनो रोगिणो भैषज्यार्थित्वदर्शनात् । न हि रोगं रोगहेतुं चानपेक्ष्य चिकित्साशास्रमुपदिश्यते ।

 सम्बन्धोऽपि-विवेकख्यातेर्हानमेव फलं साध्यं हानस्यापि विवेकख्यातिरेव साधनमिति साध्यसाधनयोरितरेतरनियम एव, नान्यसंबन्धः । तद्यथा---भैषज्यस्यारोग्यमेव फलम् आरोग्यस्यापि भैषज्यमेव साधनमिति इतरेतरनियमः, स च शाखादिति । तस्मात् ससंबन्धप्रयोजनं योगानुशासनम् !

 ननु च यदि हानं प्रयोजनं तदुपायश्च विवेकख्यातिरिति, तत्र वक्तव्यम् *अथ विवेकख्यात्यनुशासनम्* इति । किमर्थम् 'अथ योगानुशासनम्* इति सूत्रितम् ?

 तदुपायत्वाद्योगस्य । उपाय एव वक्तव्यः स्यात् । उपेयोपप्रदर्शने हि उपेयमुपायं प्रति साकाङ्क्षमेवेत्युपायः साङ्गकलापः पुनरपि वक्तव्यः स्यात् । तस्मिंश्चाभिहिते सर्वमभिहितमिति ।


१ पा २ सू १५