अंशो भागः । वस्त्नं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः।
१७२३ । तदस्य परिमाणम् । (५-१-५७)
प्रस्थं परिमाणमस्य। प्रास्थिको राशिः ।
१७२४ । सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु । (५-१-५८)
पूर्वसूत्रमनुवर्तते । तत्र 'संज्ञायां स्वार्थे प्रत्ययो वाच्य:' (वा ३०३९) यद्वा व्द्येकयोरितिवत्सङ्ख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः । पञ्चैव पञ्चकाः । शकुनयः। पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रे अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपात्तम् । पञ्चकमध्ययनम् । ‘स्तोमे डविधिः' (वा ३०४५) । पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशस्तोमः।
इत्यर्थेषु प्रथमान्ताद्यथाविहितम्प्रत्ययाः स्युरित्यर्थः । पञ्चक इति ॥ ‘सङ्ख्यायाः’ इति कन् । तदस्य परिमाणम् ॥ अस्मिन्नर्थे प्रथमान्ताद्यथाविहितम्प्रत्ययाः स्युरित्यर्थः । प्रास्थिक इति । ‘आर्हात्’ इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्टञ् । अत्र सङ्ख्यापि परिमाणम् । यद्यपि अगोपुच्छसङ्ख्यापरिमाणादिति पृथग्ग्रहणात् सङ्ख्या न परिमाणम् । तथाप्यत्र परिच्छेदकत्वात् सङ्ख्यापि परिमाणम् । उत्तरसूत्रे सङ्ख्यायाः परिमाणेन । विशेषणाल्लिङ्गात् । तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम् । द्विषष्ठ्यादिभ्यस्त्वनभिधानान्नेति भाष्ये स्पष्टम्। सङ्ख्यायाः ॥ अनुवर्तत इति ॥ तथाच तदस्य परिमाणमित्यर्थे प्रथमान्तात् सङ्ख्यात्मकपरिमाणवाचिनो यथाविहितम्प्रत्ययाः स्युरित्यर्थः। संज्ञायां स्वार्थे प्रत्ययो वाच्य इति ॥ पञ्चकाः शकुनय इत्यत्र पञ्च परिमाणमेषामित्यर्थो न सम्भवति । आदशतः सङ्ख्याः सङ्ख्यये इति पञ्चन्शब्दस्य सङ्ख्येयवृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थे एव सङ्ख्यायाः प्रत्यय इति पर्यवस्यतीति भावः । 'यद्वेति॥ द्विशब्दस्य एकशब्दस्य च सङ्ख्येयवृत्तित्वेऽपि 'व्द्येकयोः' इति समासवृत्तावेकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'व्द्येकयोः' इति द्विवचनानुपपत्ते । तद्वत्पञ्चकाः शकुनय इति तद्धितवृत्तावपि पञ्चन्शब्दस्य पञ्चत्वसङ्ख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चन्शब्दात् पञ्चत्वरूपपरिमाणवति प्रत्ययः उपपद्यते इत्यर्थः । तत्र संज्ञायां स्वार्थे उदाहरति । पञ्चैवेति ॥ परिमाणिनि प्रत्ययमुदाहरति । पञ्च परिमाणमिति ॥ पञ्चत्वमित्यर्थः । सङ्घे इति ॥ उदाहरणं वक्ष्यते इत्यर्थः । पञ्चक इति ॥ पञ्चत्वमस्य सङ्घस्य परिमाणमित्यर्थः । सङ्घस्य पञ्चत्वन्तु अवयवद्वारा बोध्यम् । सूत्र इति ॥ उदाह्रियत इति शेषः । अष्टकं पाणिनीयमिति ॥ सूत्रमिति शेषः । अष्टावध्यायाः परिमाणमस्येति विग्रहः । अत्राष्टत्वं अध्यायद्वारा सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसङ्घपरः । एकस्मिन् सूत्रे अष्टकत्वस्यासम्भवात् । नन्वेवं सति सङ्घग्रहणेनैव सिद्धे सूत्रग्रहणं व्यर्थमित्यत आह । सङ्घशब्दस्येति ॥ पञ्चकमध्ययनमिति॥