पृष्ठम्:मृच्छकटिकम्.pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५१
पञ्चमोऽङ्कः

 चारुदत्तः-- भद्रे ! सत्यं तदेवेदं सुवर्णभाण्डम् ।

 चेटी--अज्ज ! अध इं । [ आर्य ! अथ किम्? ]

 चारुदत्तः---भद्रे ! न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया । तद्गृह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य लज्जां नाटयति )

 वसन्तसेना-( आत्मगतम् ) अदो जेव्व कामीअसि । [ अत एव काम्यसे ।।

 चारुदत्तः--( जनान्तिकम् ) भोः ! कष्टम्;

धनैर्वियुक्त्तस्य नरस्य लोके किं जीवितेनादित एव तावत् ।
यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा वि1फलीभवन्ति ॥ ४० ॥

अपि च,---

पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम्।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ४१ ॥


अपि च,

शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः
कूपैश्च तोयरहितैस्तरुभिश्च शीर्णैः ।
यद्दृष्टपूर्वजनसंगमवि2स्मृताना-
मेवं भवन्ति विफलाः परितोषकालाः ॥ ४२ ॥



ब्रह्मण्येन ॥ धनैरिति ॥ ४० ॥ पक्षेति ॥ ४१ ॥ शून्यैरिति । यद्दृष्टेति । यतो यस्माद्दृष्टपूर्वस्य जनस्य संगमेनोत्तरलतया वर्तमानस्वदैन्यविस्मृतानां पाठा०-२-१ विफला भवन्ति,



---

| टिप्प----1 धनैर्वियुक्तस्य धनहीनावस्थामापन्नस्य कोप-प्रसादा विफलीभवन्ति; यतः स कोपे प्रतिकर्तुं प्रसादे चोपकर्तुं सर्वथाऽसमर्थः। 2 संगस्य बहुकाञ्चनसाध्यतया स्वस्याकिञ्चनत्वेन च दुर्लभतया कादाचित्कतया च विस्मृतत्वं बोध्यम् । अथवा वर्तमानस्वदैन्यं विस्मृतानां मत्सदृशपुरुषाणां ईदृशपरमोत्कर्षशालिहर्षकालेऽपि दातुं किमपि नास्तीति परितोषकालानां भवति वैफल्यमित्याशयः ।