पृष्ठम्:नवरात्रप्रदीपः.djvu/१७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
११
ग्रन्थपरिचयः

बहुषु वादस्थलेषु मुख्यतया समालोच्य वादस्थलद्वयम् । एकं प्रतिपन्निर्णयस्थलमपरं च पारणनिर्णयस्थलम् । काश्यां किल शङ्करभट्टादयो भट्टास्तदनुयायिनोऽन्ये च शुद्ध प्रतिपदभावे अमाविद्धद्वितीयाविद्धप्रतिपत्प्रसक्तौ द्वितीयाविद्ध प्रतिपदो मुख्यतया ग्राह्यतां प्रतिष्ठापयन्ति । धर्माधिकारिनन्दपण्डितप्रभृतयस्तदनुयायिनश्च अमाविद्धप्रतिपद मुख्यतया ग्राह्या वदन्ति । एव पारणानिर्णये भट्ट दशम्यां पारणं विधेयमिति प्रतिपादयन्ति स्वग्रन्थेषु । धर्माधिकारिणश्च नवम्यां विधेयमिति प्रतिपादयन्ति निजनिबन्धेषु एतदेव मतद्वयं भट्टमतं धर्माधिकारिमतं चेति सङ्केतितं मया । तत्र भट्टमतेनैव सङ्क्षिप्तः प्रतिपन्निर्णयः -'आश्विनशुक्ला प्रतिपत् देवीनवरात्रे शुद्धा ग्राह्येतेि मुख्यः कल्पः सर्ववादिसम्मतः । शुद्धाया अभावे अमाविद्धद्वितीयाविद्धयोः प्रतिपदोः प्रसक्तौ द्वितीयाविद्धा मुख्या । तदभावे अमाविद्धा ग्राह्या, अन्यथा व्रतलोपः स्यादिति सिद्धान्तः । तथाहि अत्र व्रतविषये कर्मकालो बहुधा श्रूयते तत्र कानेिचिद्वचनानि रात्रेः कर्मकालत्वं प्रतिपादयन्ति । अन्यानि च पूर्वाह्णस्य कर्मकालत्वं वदन्ति । न च पूर्वाह्णस्य कर्मकालत्वप्रतिपादकवचनानामनाकरत्वं शक्यते वक्तुम् । यथा पुराणान्तरीयणा रात्रेः कर्मकालत्वप्रतिपादकवाक्यानामविगीतप्रामाण्यमिष्यते तथैव देवीपुराणगतस्य पूर्वाह्णस्य कर्मकालत्वप्रतिपादकवचनस्याऽपि प्रामाण्यमेष्टव्यम् । यद्यपि तत्र तत्रोपात्तानां द्वितीयाविद्धनिषेधकानाममाविद्धनिषेधकानां च सर्वेषां