प्रकरणम्] बालमनोरमा । ८२७
शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् । “सन्निपातश्चेति वक्तव्यम्" (वा ३०३७) । सान्निपातिकम् । १७०५ । गोव्द्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत् । (५-१-३९)
गोर्निमित्तं संयोग उत्पातो वा गव्यः । व्द्यचः। धन्यः । यशस्यः। स्वर्ग्यः । ' गोव्द्यचः-' किम् । विजयस्य वैजयिकः । “ असङ्ख्या-' इत्यादि किम् । पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि- आश्विकम् । आश्मिकम् । 'ब्रह्मवर्चसादुपसङ्ख्यानम् --' (वा ३०३५) । ब्रह्मवर्चस्यम्
१७०६ । पुत्राच्छ च । (५-१-४०)
चाद्यत् । पुत्रीयः-पुत्र्यः ।
१७०७ । सर्वभूमिपृथिवीभ्यामणञौ । (५-१-४१)
सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमि- शब्दोऽनुशतिकादिषु पठ्यते । {{Rule शेषः । सान्निपातिकमिति ॥ सन्निपातः वातपित्तश्लेष्माणां सङ्करः दोषाणाम्, इति वैद्यके प्रसिद्धः । तस्य निमित्तं सान्निपातिकम् । ज्वरप्रकोपादौ अपथ्यभक्षणादिसंयोगः, सन्निपातसूचकं जिह्वाकार्ष्णादि च । गोव्द्यचः ॥ तस्य निमित्त संयोग उत्पातो वेत्यर्थे गोशब्दात् व्द्यचश्च षष्ठयन्तात् यत्प्रत्ययः स्यात्, नतु सङ्खयायाः परिमाणात् अश्वादेश्चेत्यर्थः । ठकोऽपवादः । व्द्यच इति ॥ उदाह्रियते इति शेषः । धन्य इत्यादि ॥ धनस्य यशसः स्वर्गस्य च निमित्तः मित्यर्थः । विजयस्येति । निमित्तमिति शेषः । वैजयिक इति ॥ आर्हीयष्ठक् । पञ्चानामिति ॥ निमित्तमिति शेषः । पञ्चकमिति ॥ ‘सङ्खयायाः’ इति कन् । सप्तकमिति ॥ सप्तानान्निमित्तमित्यर्थः । प्रास्थिकमिति ॥ प्रस्थस्य निमित्तमित्यर्थः । आर्हादिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् |खारीकमिति खार्या निमित्तमित्यर्थः | खार्या ईकन् । अश्वादीति । प्रत्युदाहरणसूचनमिदम् । आश्विकमिति ॥ अश्वस्य निमित्तमि त्यर्थः । आर्हीयष्ठक् । आश्मिकमिति । अश्मनो निमित्तमित्यर्थः । आर्हीयष्ठक् । ‘नस्तद्धिते इति टिलोपः । ब्रह्मवर्चसादिति ॥ “गोव्द्यचः’ इति सूत्रे 'ब्रह्मवर्चसाच' इति वक्तव्यमि त्यर्थः । ब्रह्मवर्चस्यमिति ॥ ब्रह्मवर्चसस्य निमित्तमित्यर्थः । पुत्राच्छ च ॥ तस्य निमित्त मित्येव । कथन्तर्हि “आरेभिरे यतात्मानः पुत्रियामिष्टिमृत्विजः” इति नहीष्टिः संयोगः उत्पातो वा उच्यते । संयुज्यतेऽनेनेति संयोगः । इष्टया हि पुत्रेण फलेन युज्यते यष्टा । सर्वभूमि ॥ तस्य निभित्तमित्येव । सर्वभूमि, पृथिवी, आभ्यां यथासङ्खयमञौ स्तः । सार्वभौम इति ॥