पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/81

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
समाधिपादः प्रथमः

 मूलवक्तरेि तु आद्यवक्तरीश्वरे तन्निमित्तो य आगमः स विप्लवनिमित्ता भावाक्षिर्विप्लवः स्यात् । यथार्थ(य)वक्तृवत् ।

 उपमानं (मानं) शब्दपूर्वकम् । तदागमान्तःपतित्वान्न प्रमाणान्तरम् । यथा गौरिव गवय इति वनेचराभिहितादेव वाक्यादवधृतसादृश्यस्य पुनर्वने गवयदर्शनेऽपि पूर्वश्रुतवाक्योपस्थापितसादृश्यस्मरणमात्रमेव नाधिकम् । सादृश्यं तु वाक्यादेव पूर्वप्रतिपन्नम् ॥

 नापि संज्ञासंज्ञिसंबन्धप्रतिपत्तित एव मानं, तस्या अपि तद्वाक्यादेवावगतत्वात् । न हि गौरित्येतावतानवगतगवयनामकस्य वनगतगवयदर्शिनोऽपि गवयोऽयमिति संज्ञासंज्ञिसंबन्धावबोधो भवति ।

 तस्माद्गौरिव गवय इति गवयशब्दोऽपि तद्वाक्येऽपेक्षितव्यः । तथा च सति पूर्वश्रुतादेव वाक्यात् सर्वं प्रतीतम् । अथापि स्यादयं(दस्य)गवय इति न पूर्वबुद्धिविषयमिति—तदापि तत्रभवतामपि परिचोदनपरिहारमवपश्यतामपि पाडितकैवले[कौले]यकवृत्तिकोणेऽवस्थानमिव लक्ष्यते ॥

 तथा हि-देशकालसन्निकर्षविप्रकर्षादिभेदेनानेकोपमानभेद: प्रसज्येत । तथास्त्विति चेत्-तत्पूर्वधियैवातत्वमन्तर्निहितसमस्तविशेषमेव हि वा नेयौ पूर्वमुपपादितम्। नहि गौरित्युक्ते देशकालादिविशेषाभावे न गोशब्दादर्थप्रतिपत्ति:॥

 किं चान्यत्-न हि संज्ञासंज्ञिसंबन्धप्रतिपत्तिरुपमानं, येन ह्यूपमीयते तदुपमानं, सादृश्यज्ञानं हि तत् । न हि नामिनामसंबन्धप्रतिपत्त्या किंचिदुपमीयते उत्तरकालत्वात् । अवधृतसादृश्यस्य हि पश्चाद(स्य)यं गवय इत्येवं सोऽपि निपतति ।

 एवं तर्हि स्यादशब्दपूर्वकं प्रमाणान्तरं, यथा गवयदर्शनादेतत्सदृशो गौरिति ग्रामीणस्य बुद्धिः---तदपि न-प्रमेयाभावात् । सति हि प्रमेये सदुपलम्भकत्वाभिमतस्य प्रमाणस्य व्यापारः, न हि गोगवययोर्व्यावृत्तमनुवृत्तं च वस्तुतः सादृश्यं नामैकमस्ति ।

 ननु च सादृश्यबुद्धिरस्त्येव, नासौ निरालम्बना भवितुमर्हति । सत्यमेवं तत्रैव विचारणा-किमसौ वनयूथादिप्रत्ययवत् ? अथ घटादिबुद्धिवदिति। किं चातः ? यदि वनप्रत्ययवद्भवेत्तदा यथैव विशिष्टसन्निवेशानुगता महीरुहा एवात्मव्यतिरेकेणाविद्यमानवनप्रत्ययहेतवस्तथैव गोगवयावयवा एव द्वयदर्शनस्मृत्यपेक्षया स्वात्मव्यतिरेकेणासतः सादृश्यस्य प्रतीतौ कारणमिति प्राप्तमवस्तुत्वम् ॥