पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/287

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

समाधिचित्तं उभयोरनुगतम् । पुनस्तथैव आ समाधिभ्रेषात् इति । स खल्वयं धर्मिण: चित्तस्य एकाग्रतापरिणामः ॥ १२ ।

[ सूत्रम् ]

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥

[ भाष्यम् ]

 एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्च उक्तो वेदितव्यः ।

[ विवरणम् ]

 पुनस्तथैव यथा प्रत्यय आद्यः शान्त उत्तरस्तत्सदृश उपजातः, स च शान्तः पुनरन्य उदितः, स शान्तः पुनश्चान्य उदितः, इत्येवं आ समाधिभ्रेषात् व्युत्थानसंस्कारेण यावत् समाधिः विभ्रंशते ॥

{{gap}}स खल्वयं धर्मिणः चित्तस्य प्रतिक्षणं सदृशशान्तोदितप्रत्यययोरनुगमः एकाग्रतापरिणामः ॥

 तत्र यावत् बाह्मवृत्तिनिरोधादारभ्य चित्तस्य संस्कारपरिशेषता, तावत् निरोधपरिणामः ॥

 तथा बाह्यप्रत्ययनिरोधात् प्रभृति आ प्राक् अशेषप्रत्ययनिरोधात्, अशेषप्रत्ययनिरोधोत्तरकालं च एकाग्रतोदयाभावात्,तावत् समाधिपरिणामः॥

 तथा समाधिपरिणामकाल एव शान्तोदितयोस्तुल्ययो: संभवादेकाग्रतापरिणामः । पूर्वपरेिणा(मान)मनान्तरीयकत्वमुत्तरोत्तरपरिणामस्येति क्रमेण त्रयोऽपि परिणामा व्याख्याता:॥

 किमनेन परिणामान्वाख्यानेन प्रयोजनम् ? उच्यते-चलं गुणवृत्तं, गौणं च समस्तं परिणामधर्मकमनवस्थितमिति वैराग्यभावनार्थम् । तथा परिणामत्रयसंयमादतीतानागतज्ञानार्थं च एतदन्वाख्यानम् ॥ १२ ॥

{{gap}}एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । एतेन पूर्वोक्तेन चित्तपरिणामेन । किंविशिष्टेन ? धर्मलक्षणावस्थारूपेण धर्मरूपेण लक्षणरूपेण अवस्थारूपेण च । भूतेन्द्रियेषु भूतेषु पृथिवीप्रभृतिषु स्थूलेषु, इन्द्रियेषु च श्रोत्रादिषु, येषा तत्त्वान्तरपरिणामो नास्ति । धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः ॥