पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/288

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६९
विभूतिपादः तृतीयः

[ भाष्यम् ]

 तत्र व्युत्थाननिरेधयोः अभिमवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपारीणामो[१] निरोधस्त्रिलक्षणः त्रिभिरध्वभिर्युक्तः । स खलु अनागतलक्षणमध्वानं [२]हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः यत्रास्य स्वरूपेण अभिव्यक्तिः । एषोऽस्य द्वितीयोऽध्वा ।

[ विवरणम् ]


 चित्तस्यानवस्थितत्वेन गम्यमानेन परिणामेन भूतेन्द्रियाणां परिणामस्य प्रकारत्रययोगिनः चित्तपरिणतिवत् असुविज्ञानत्वात् अतिदेशः क्रियते ॥

 ननु च निरोधसमाध्येकाग्रतापरिणामाश्चित्तस्याभिहिताः । न तु धर्मलक्षणावस्थापरिणामाः । कुतस्तत्रातिदेश इति, अभिहितत्वमेषां दर्शयति--तत्र व्युत्थाननिरोधयोः धर्मयोः अभिभवप्रादुर्भावौ धर्मिणि चित्ते धर्मपरिणामः ॥

 एतस्माद्धि धर्मभेदवचनात् धर्मभेदमवादिष्म । तयोश्च धर्मपरिणामयोः व्युत्थाननिरोधयोरभिभवप्रादुर्भाववचनात् लक्ष्णावस्थापरिणामावपि च अवादिष्मैव ॥

 कथम् ? .वर्तमानलक्षणादतीतलक्षणमभिसम्पद्यमानो धर्मोऽभिभूयते । यश्व अनागतलक्षणात् वर्तमानलक्षणमभिसम्पद्यमानः स प्रादुरस्ति । तदभिभवप्रादुर्भाववचनाच्च प्रतिक्षणं दुर्बलरूपोऽवस्थापरिणाम उक्तो भवतीत्याह--लक्षणपरिणामो निरोधस्त्रिलक्षण इति ॥  चित्ते लक्षणपरिणामः त्रिलक्षणत्वेन त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तः प्रतिपाद्यते परिणामिनो ह्येकैकस्य त्रयेऽप्यध्वान एतेऽवश्यंभाविनः । यस्य त्वेते न सन्ति सोऽपरिणामी कूटस्थ इत्युच्यते ॥

फलकम्:Gap'''स खलु निरोधः अनागतलक्षणमध्वानं हित्वा धर्मत्वं निरोधधर्मत्वं अनतिक्रान्तः असत्कार्यारम्भाभावात् । असत्कार्यारम्भे हि त्रिकालत्वमेकस्य वस्तुनो नोपपद्यते (नापि) कालत्रयपरिच्छेद्यस्य विलक्षणस्याभावात् । अत उच्यते--धर्मत्वमनतिक्रामन्नेव वर्तमानं लक्षणं प्रतिपन्नः यत्र यस्मिन् वर्तमाने लक्षणे अस्य स्वरूपेणाभिव्यक्तिः एषोऽस्य निरोधस्य अनागताध्वसमीक्षया द्वितीयोऽध्वा ॥

  1. -णामश्च नि
  2. -ध्वानं प्रथमं हित्वा