सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७९१
बालमनोरमा ।

१५४६ । हरीतक्यादिभ्यश्च । (४-३-१६७)

एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ।

१५४७ । कंसीयपरशव्ययोर्यञञौ लुक्च । (४-३-१६८)

कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम् । तस्य विकारः कांस्यम् । परशवे हितं परशव्यम् । तस्य विकारः पारशवः ।

इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् ।


युक्तवत्वात्स्त्रीत्वम् । विदारीति । जातिडीषन्तमिदम्प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्ता दित्वादञि तस्य लुप् । युक्तवत्वास्त्रीत्वम्। पाटलानीति ।। बिल्वादित्वादण् । एवं साल्वानि । ननु अशोकस्य पुष्पं, अशोकं करवीरस्य पुष्पङ्करवीरं इत्यत्रापि “पुष्पमूलेषु बहुळम्' इति लुपि युक्तवत्त्वात् पुंस्त्वे अशोकः पुष्पं करवीरः पुष्पमिति स्यादित्यत आह । बहुळग्रहणात् क्वचिल्लुगिति ॥ तथाच युक्तवत्वस्याप्रवृत्तेः विशेष्यनिघ्न्त्वमेवेति भावः । हरीतक्या दिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषाम्प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य इति । जातिङीषन्तः । प्रत्ययस्वरेणान्तो दात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादिञि तस्य ‘फले लुक्’ इति लुकि प्राप्ते लुपि युक्तवत्त्वा द्वहुवचनम् । कंसीयपरशव्य । अत्र यञञोर्न लुक् । विधिवैयर्थ्यात् । नापि प्रकृत्योः प्रत्ययादर्शनस्यैव लुक्त्वात् । अतः परिशेषात् प्रकृत्येकदेशयोः छयतोरिति लभ्यते । तदाह । छयतोरिति ॥ कंसीयमिति । धातुर्लोहविशेषः । तस्मै हितामिति छः । कांस्यमिति । कंसीयशब्दादञि छस्य लुकि आदिवृद्धौ “यस्यति च' इत्यकारलोपः । परशव्यमिति ॥

  • तस्मै हितम्' इति अधिकारे “उगवादिभ्यो यत्' इति ओर्गुणे 'वान्तो यि” इत्यवादेशः ।

पारशव इति । परशव्यशब्दादञि यतो लुकि ओर्गुणे पारशवः “हलस्तद्धितस्य' इति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वात् “ आपत्यस्य च' इत्यपि लोपो न प्रसज्यत इति भावः । इति तद्धिते चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् ।