सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९२
[ठगधिकार
सिद्धान्तकौमुदीसहिता

अथ तद्धिते चतुर्थस्य चतुर्थपादे प्राग्वहतीयप्रकरणम् ।

१५४८ । प्राग्वहतेष्ठक् । (४-४-१)

तद्वहतीत्यतः प्राक् ठगधिक्रियते । “तदाहेति माशब्दादिभ्य उपसङ्खया नम्’ (वा २९५१) । मा शब्दं कार्षीः इति य आह स माशाब्दिकः ।

१५४९ । स्वागतादीनां च । (७-३-७)

ऐज्न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः । व्यवहारेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् । ‘आहौ प्रभूतादिभ्यः’ (वा २९५२) ।


अथ चतुर्थस्य चतुर्थः पादः प्रारभ्यते--प्राग्वहतेष्ठक् ॥ वहतीत्येकदेशेन 'तद्वहति रथयुगप्रासङ्गम्’ इति सूत्रं परामृश्यते इत्यभिप्रेत्य आह । तद्वहतीत्यत इति ॥ तदाहेति । इतिशब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्द स्वागत इत्यादिशब्देभ्यः ठक उपसङ्खयानमित्यन्वयः । तदित्यनेन वाक्यार्थो विवक्षितः। इतिशब्दस्तस्य वाक्यार्थस्य कर्मत्वङ्गमयति “मा शब्दङ्कार्षीः’ इत्याहेत्याद्यर्थे तद्वाक्यावयवात् माशब्दः इत्यादिशब्दात् ठगिति यावत् । मा शब्दङ्कार्षीः इति य आह स माशाब्दिक इति । शब्दं माकार्षीरित्यन्वयः । 'माडि लुड्’ इति लोडर्थे लुङ् । “न माङयोगे ' इत्यडा गमनिषेधः । शब्दन्न कुरु इत्यर्थः । अत्र आहेति ब्रूञ्धात्वर्थवक्तव्यवचनक्रियां प्रति मा शब्दङ्कार्षीरिति वाक्यार्थः कर्म । तद्वाक्यैकदेशः माशब्देति समुदायः । तस्मान्निर्विभक्तिका दयं प्रत्ययः । न हि माशब्देति समुदायाद्विभक्तिरस्ति । एवञ्च माशब्देति समुदायाट्टकि माशब्दिक इति रूपम् । “मा शब्दः कारि' इति पाठे तु कारीति कर्मणि लुड् । शब्दो न कार्य इत्यर्थः । नच तदाहेत्यर्थे माशब्दादिभ्यः ठगिति यथाश्रुतम् अभ्युपगम्य माशब्दमाहेत्याद्यर्थे माशब्देत्यादिशब्देभ्यो द्वितीयान्तेभ्यः ठगित्येव कुतो न व्याख्यायत इति वाच्यम् । एवं सति आहौ प्रभूतादिभ्यः' इत्युत्तरवार्तिकारम्भवैयर्थापत्तेरिति भावः । स्वागतादिगणे स्वागत स्वध्वर, इति पठितम् । तत्र विशेषमाह । स्वागतादीनाञ्च ।। ‘न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच्' इति प्रकरणे “कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति ॥ शेषपूरणमिदम् । 'न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्’ इति प्राप्तः ऐज़् न स्यादि त्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति । स्वङ्गस्येति । व्याङ्गिरिति । व्यङ्गस्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य सः अडः विगतः अडः व्यङः । स्वापतेयमिति । “पथ्यतिथिवसतिस्वपतेर्ढञ् द्वारादित्वादैच् प्राप्तो निषिध्द्यते । आहाविति ॥ आहेति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । तदिति पूर्ववार्तिकादनुवर्तते । आहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्टग्वाच्य इत्यर्थः ।