पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७९३
बालमनोरमा ।

प्रभूतमाह । प्राभूतिकः । पार्याप्तिक : 'पृच्छतौ सुस्नातादिभ्य:’ (वा २९५३) । सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादि ।

'गच्छतौ परदारादिभ्यः' (वा २९५४) । पारदारिकः । गौरुतल्पिकः ।

१५५० । तेन दीव्यति खनति जयति जितम् । (८-४-२)

अक्षैर्दीव्यति आक्षिकः । अभ्रया खनति आभ्रिकः । अक्षैर्जयति आ क्षिकः । अक्षैर्जितमाक्षिकम् ।

१५५१ । संस्कृतम् । (४-४-३)

दध्ना संस्कृतं दाधिकम् । मारीचिकम् ।

१५५२ । कुळत्थकोपधादण् । (४-४-४)

ठकोऽपवादः । कुळुत्थैः संस्कृतं कौऴुत्थम् । तैन्त्रिणीकम् ।

१५५३ । तरति । (४-४-५)

उडुपेन तरति औडुपिकः ।

१५५४ । गोपुच्छाट्ठञ् । (४-४-६)

गौपुच्छिक

१५५५ । नौव्द्यचष्ठन् । (४-४-७)

नाविकः । घटेिकः । बाहुभ्यां तरति बाहुका स्त्री ।


पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति । तदित्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यः ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति ॥ सुखशयनशब्द इति शेषः । ततश्च “अनुशतिका दीनाश्च’ इति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । तदित्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । पारदारिक इति । परदारान्गच्छती त्यर्थः । गौरुतल्पिक इति । गुरुतल्पङ्गच्छतीत्यर्थः । गुरुतल्पो गुरुस्त्री । तेन दीव्यति खनति जयति जितम्। तेन दीव्यति, तेन खनति, तेन जयति, तेन जितम्, इति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः । अभ्रिः कुद्दालः । देवदत्तेन जितमित्यत्र तु न ठक् । करणतृतीयान्तादेव तद्विधः । संस्कृतम् । तेनेत्येव । संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । ‘संस्कृतम्भक्षाः' इत्यत्र तु सप्तम्यन्तादणादिविधि । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः । कुळुत्थको पधादण् ॥ संस्कृतमित्यर्थे तृतीयान्तादिति शेषः । तैन्त्रिणीकमिति । तिन्त्रिणीकेन संस्कृतमित्यर्थः । तरति ॥ तरतीत्यर्थे तृतीयान्ताट्ठगित्यर्थः । गोपुच्छाट्ठञ् ॥ तरतीत्यर्थे तृतीयान्तादिति शेषः । नौड्द्यचष्ठन् ॥ ठनिति च्छेदः । ष्टुत्वकृतः सस्य षकारः । तरतीत्यर्थे ७९३ 100