पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९४
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५५६ । चरति । (४-४-८)

तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक्स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ।

१५५७ । आकर्षात्ष्ठल् । (४-४-९)

आकर्षों निकषोपलः । 'आकषात्' इति पाठान्तरम् । तेन चरति आकर्षिकः । षित्त्वान्ङीष् । आकर्षिकी ।

१५५८ । पर्पादिभ्यः ष्ठन् । (४-४-१०)

पर्पेण चरति पर्पिकः-पर्पिकी । येन पीठेन पङ्गवश्चरन्ति स पर्पः । अश्विकः । रथिकः ।

१५५९ । श्वगणाट्ठञ् च । (४-४-११)

चात्ष्ठन् ।

१५६० । श्वादेरिञि । (७-३-८)

ऐज्न । श्वभस्रस्यापत्यं श्वाभस्रिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् । 'इकारादाविति वाच्यम्’ (वा ४-५-१२) । श्वगणेन चरति श्वागणिकः-श्वागणिकी-श्वगाणिकः-श्वगणिकी ।


नौशब्दात् ‘द्यचश्च' इति तृतीयान्तात् ठनित्यर्थः । नाविक इति ॥ नावा तरतीत्यर्थः । घटिक इति । घटेन तरतीत्यर्थः । बाहुका स्त्रीति । उकः परत्वात् ठस्य कः । अदन्तत्वाट्टाप् । चरति । गच्छति, भक्षयतीति ॥ 'चर गतिभक्षणयोः' इति चरधातोरर्थद्वये वृरिति भावः । हास्तिक इति ॥ ठनि इके 'नस्तद्धिते' इति टिलोपः । आकर्षात्ष्ठल् ॥ तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात् ष्ठलित्यर्थ । पर्पादिभ्यः ष्ठन् ।। ष्ठन् इति च्छेदः । चरतीत्यर्थे तृतीयान्तेभ्य इति शेषः । षित्वं ङीषर्थमित्याह । पर्पिकीति । अश्विक इति । अश्वेन चरतीत्यर्थः । श्वगणाट्टञ् च । उक्तविषये इति शेषः । श्वगणशब्दात्तृतीयान्ता च्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः । श्वागणिक इत्युदाहरणं वक्ष्यति । तत्र श्वन्शब्दस्य द्वारा दित्वादैजागमे प्राप्ते । श्वादेरिञि । ‘न कर्मव्यतिहारे' इत्यतो नेत्यनुवर्तते । अङ्गस्येत्यधि कृतम् । श्वन्शब्दः आदिर्यस्येति विग्रहः । श्वन्शब्दपूर्वपदस्याङ्गस्य इञि परे नैजागम इत्यर्थः । श्वाभस्त्रिरिति । अत इञ् । श्वादंष्ट्रिरिति ॥ श्वदंष्ट्रस्यापत्यमित्यर्थः । ननु श्वन्शब्द एव द्वारादौ पठ्यते नतु श्वभस्त्रशब्दः । ततश्च तस्य द्वारादित्वाभावादैजागमप्रसक्तिरेव नेत्यत आह । तदादिविधाविति ॥ द्वारादिगणे श्वन्शब्दस्य पाठेऽपि अस्मादेव प्रतिषेधात् श्वन्शब्दपूर्व कस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायते इत्यर्थः । तत्फलन्तु श्ववहनस्येदं शौवहनं नाम नगरम् ।