पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७९५
बालमनोरमा ।

१५६१ । पदान्तस्यान्यतरस्याम् । (७-३-९)

श्वादेरङ्गस्य पदशब्दान्तस्यैज् वा । श्वापदस्येदं श्वापदम्-शौवापदम् ।

१५६२ । वेतनादिभ्यो जीवति । (४-४-१२)

वेतनेन जीवति वैतनिकः। धानुष्कः।

१५६३ । वस्त्रक्रयविक्रयाट्ठन् । (४-४-१३)

वस्त्रेन मूल्येन जीवति वास्त्रिकः । क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः-क्रयिकः-विक्रयिकः ।

१५६४ । आयुधाच्छ च । (४-४-१४)

चाट्ठन् । आयुधेन जीवति आयुधीयः-आयुधिकः ।

१५६५ । हरत्युत्सङ्गादिभ्यः । (४-४-१५)

उत्सङ्गेन हरत्यौत्सङ्गिकः ।

१५६६ । भस्रादिभ्यः ष्ठन् । (४-४-१६)

भस्रया हरति भस्त्रिकः । षित्वात्, भस्रिकी ।


ननु प्रकृते श्वागणिके इञभावात्कथमयं निषेध इत्यत आह । इकारादाविति वाच्य मिति ॥ ञिति परित्यज्य इकारादाविति वाच्यामित्यर्थः । इञि तु व्यपदेशिवत्त्वेन इकारादित्वम् ।श्वागणिक इति ॥ ठञन्तात् “टिड्ढाणञ्द्वयसञ्जदघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः’ इति डीप् । श्वगणिक इति ॥ ष्ठनि रूपम् । श्वागणिकीति ॥ षित्वात् डीष्प्रसङ्गादाह । पदा न्तस्यान्यतरस्याम् ॥ ‘श्वादेरिञि इत्यस्मादुत्तरं सूत्रमिदम् । पदं पदशब्दः, अन्तो यस्येति विग्रहः । तदाह। पदशब्दान्तस्येति । ऐज्वेति ॥ निषेधविकल्पे सति विधिविकल्पः फलित इति भावः । श्वापदस्येति ॥ शुनः पदमिव पद् यस्येति विग्रहः। ‘शुनो दन्तदष्ट्रा 'इत्यादिना दीर्घः । शौवापदमिति ॥ ‘तस्येदम्’ इत्यण् । ‘वृद्धाच्छः' इति तु न । अनभिधाना दित्याहुः । अन्ये तु श्वपुच्छवद्दीर्घाभावे अणमाहुः । वेतनादिभ्यो जीवति ॥ जीवतीत्यर्थे तृतीयान्तेभ्यः ठगिति शेषः । वैतनिक इति ॥ वेतनेन जीवतीत्यर्थः । धानुष्क इति ॥ धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः’ इति षत्वम् । वस्नक्रयविक्रया ट्ठन् ॥ जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यः ठन् स्यादित्यर्थः । सङ्घातविगृहीतार्थ मिति ॥ व्याख्यानादिति भावः । आयुधाच्छ च ॥ जीवतीत्यर्थे तृतीयान्तात् आयुधशब्दात् छः स्यात् ठन् चेत्यर्थः । हरत्युत्सङ्गादिभ्यः ॥ हरतीत्यर्थे तृतीयान्तेभ्यः उत्सङ्गा दिभ्यः ठक् स्यादित्यर्थः । भस्रादिभ्यः ष्ठन् ॥ ष्टनिति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो