पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९६
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५६७ । विभाषा विवधात् । (४-४-१७)

विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृत स्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः, वीवधिकी । विधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ।

१५६८ । अण् कुटिलिकायाः । (४-४-१८)

कुटिलिका व्याधानां गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटि लेिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ।

१५६९ । निर्वृत्तेऽक्षद्यूतादिभ्यः । (४-४-१९)

अक्षद्यूतेन निर्वृत्तमाक्ष्द्यूतिकं वैरम् ।

१५७० । त्रेर्मम्नित्यम् । (४-४-२०)

त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पक्त्रिमम् । “भावप्रत्ययान्तादिमब्वक्तव्यः' (वा २९५९) पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ।

१५७१ । अपमित्ययाचिताभ्यां कक्कनौ । (४-४-२१)

अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तमापमित्यकम् । याचितेन निर्वृत्तं याचितकम् ।


भस्रादिभ्यः ष्टन् स्यादित्यर्थः । षित्वादिति ॥ डीष् इति शेषः । विभाषा विवधात् ॥ हरतीत्यर्थे तृतीयान्तात् ष्ठनिति शेषः । अण् कुटिलिकायाः ॥ हरतीत्यर्थे तृतीयान्तात् कुटि लिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः । निर्वृत्तेऽक्षद्यूतादिभ्यः ॥ निर्वृत्त मित्यर्थे तृतीयान्तेभ्योऽक्षद्यूतादिभ्यः ठगित्यर्थ । त्रेर्मम्नित्यम् ॥ तेन निर्वृत्तमित्यर्थे ‘ड़्वितः क्रिः’ इति क्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादित्यर्थः । ‘समर्थानाम्प्रथमाद्वा' इति महाविकल्प निवृत्त्यर्थं नित्यग्रहणम् । “ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना क्रिप्रत्ययान्तस्य प्रयोगो न' इति भाष्ये स्पष्टम् । एवञ्चात्र अस्वपदविग्रहं दर्शयति । कृत्या निर्वृत्तमिति । अत्र विग्रहवाक्ये 'स्त्रियां क्तिन्’ इति क्तिन्नन्तोऽयं कृतिशब्दः । कृत्रिममिति ॥ ‘डुकृञ् करणे' इति धातोः ड़्वितः क्रिः’ इति क्रिप्रत्ययान्तान्मप् । पक्रिममिति ॥ पक्तया निर्वृत्तमित्यस्वपदविग्रहः । ‘डुपचष् पाके' अस्मात्क्रिप्रत्ययान्तान्मप् । इमब्वक्तव्य इति । निर्वृत्तमित्यर्थे तृतीयान्तादिति शेषः । अत्र नित्यमिति न सम्बध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति । पाकेन निर्वृत्तमिति ॥ अपमित्ययाचिताभ्याम् ॥ ल्यबन्तमिति ॥ 'मेड् प्रणिदाने