पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७९७
बालमनोरमा ।

१५७२ । संसृष्टिं । (४-४-२२)

दध्ना संसृष्टं दाधिकम् ।

१५७३ । चूर्णादिनिः । (४-४-२३)

चूणैः संसृष्टाश्चूर्णिनोऽपूपाः ।

१५७४ । लवणाल्लुक् । (४-४-२४)

लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ।

१५७५ । मुद्गादण् । (४-४-२५)

मौद ओदनः ।

१५७६ । व्यञ्जनैरुपसिक्ते । (४-४-२६)

ठक् । दध्ना उपसिक्तं दाधिकम् ।

१५७७ । ओजःसहोऽम्भसा वर्तते । (४-४-२७)

ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिकौ मत्स्यः ।

१५७८ । तत्प्रत्यनुपूर्वमीपलोमकूलम् । (४-४-२८)


इत्यस्मात् विनिमयार्थकात् “उदीचां माङो व्यतिहारे' इति क्ताप्रत्यये गतिसमासे ल्यपि “मयते रिदन्यतरस्याम्' इति इत्वे ‘ह्रस्वस्य पिति' इति तुगागमे अपमित्येत्यव्ययम् । ‘क्तातोसुन्कसुन:’ इत्युक्त्तेरित्यर्थः । निर्वृत्तमित्यर्थे अपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाञ्च तृतीयान्तात् क्रक कन् च यथासङ्खय स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वासम्भवात् प्रथमादिति लभ्यते संसृष्टे ॥ संसृष्टमित्यर्थे तृतीयान्तात् ठक् इत्यर्थः । चूर्णदिनिः ॥ संसृष्टमित्यर्थे तृतीया न्तादिति शेषः । लवणाल्लुक् ॥ पूर्वसूत्रविहितस्येति शेषः । मुद्गादण् ॥ तेन संसृष्ट मित्यर्थे तृतीयान्तादिति शेषः । मौद्ग ओदन इति ॥ मुद्गैः संसृष्ट इत्यर्थः । व्यञ्जनै . रुपसिक्ते ॥ उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यः ठगित्यर्थः । सेचनेन मृद्वि करणमुपसेकः । संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम् । व्यञ्जनवाचिभ्यः उपसिक्त एवेति । तेनेह न। सूपेन संसृष्टा स्थाली । ओजःसहो ॥ वर्तते व्याप्रियते इत्यर्थे ओजस् , सहस्, अम्भस् एभ्यः तृतीयान्तेभ्यः ठक् स्यादित्यर्थः । औजसिक इति ॥ ओजसा बलेन वर्तते, युद्धे व्याप्रियते इत्यर्थः । साहसिक इति ॥ सहसा प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियते इत्यर्थः । आम्भसिक इति ॥ अम्भसा हेतुना सञ्चारे व्याप्रियते इत्यर्थः । तत्प्रत्यनु पूर्व ॥ तदिति द्वितीयान्तानुकरणम्। प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्यः ईपलोमकूलशब्देभ्यः वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीप वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात् कथं