पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९८
[ठगधिकार
सिद्धान्तकौमुदीसहिता

द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक्स्यात् । क्रियाविशेषणत्वाद्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ।

१५७९ । परिमुखं च । (४-४-२९)

परिमुखं वर्तते पारिमुखिकः । चात्पारिपाश्विकः ।

१५८० । प्रयच्छति गर्ह्यम् । (४-४-३०)

द्विगुणार्थं द्रव्यं द्विगुणं, तत्प्रयच्छति द्वैगुणिकः। त्रैगुणिकः । ‘वृद्धेर्वृधुषि भावो वक्तव्य:’ (वा २९६५) । वार्धषिकः ।

१५८१ । कुसीददशैकादशात्ष्ठन्ष्टचौ । (४-४-३१)

गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदं, तत्प्रयच्छतीति कुसीदिकः-कुसीदिकी । एकादशार्थत्वादेकादश ते च


द्वितीयेत्यत आह । क्रियाविशेषणत्वादिति । इदश्च कारकनिरूपणे निरूपितम् । “क्रिया विशेषणानां प्रथमान्तत्वमेव' इति तु शब्देन्दुशखरे । प्रतीपमिति । प्रतिगताः आपो यस्मिन्निति बहुव्रीहिः । 'ऋक्पूः' इत्यकारः समासान्तः । “ह्यन्तरुपसर्गेभ्योऽप ईत्’ इति ईत्वम् । अनुगताः आपो यस्मिन् तदन्वीपम् । “ऊदनोर्देशे ' इत्यूत्त्वन्तु न , अदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ । अवयवार्थेषु तु नाभिनिवेष्टव्यम् । परिमुखञ्च ॥ अस्माद्द्वितीयान्तात् वर्तते इत्यर्थे ठगित्यर्थ । चादिति ॥ चकारादनुक्त समुच्चयार्थात् परिपार्श्वमित्यस्मादपि ठकि पारिपाश्विक इति भवतीत्यर्थः । पारिमुखिक इत्यस्य यतो यतः स्वामिनो मुखं तत्र वर्तते इत्यर्थः । एवं पारिपाश्विकः । प्रयच्छति गर्ह्यम् ॥ तदिति द्वितीयान्तमनुवर्तते । गर्ह्यं प्रयच्छतीत्यर्थे द्वितीयान्तादृगित्यर्थः । द्विगुणार्थं द्रव्यं द्विगुणमिति ॥ द्वैगुणिक इति ॥ वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षित मित्यर्थः । तत्प्रयच्छति द्वैगुणिक इति ॥ द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः “अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धक.” इत्यादिधर्मशास्त्रविरुद्धत्वादिद गर्ह्यमिति भावः । वृद्धेरिति ॥ वृद्धिशब्दात् युक्तार्थे ठकि प्रकृतेर्वृधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धुषिक इति ॥ वृध्यर्थे द्रव्यं वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दात् ठकः इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः । “वृध्याजीबस्तु वार्धुषिः” इति तु प्रमाद एव । कुसीद ॥ गर्ह्यार्थाभ्यामिति ॥ कुसीद, दशैकादश, आभ्यां द्वितीयान्ताभ्यां गर्ह्यार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात् ष्ठन्ष्टचौ स्तः इत्यर्थः । षित्वम् डीषर्थमित्याह । कुसीदिकीति ॥ नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ठन्प्रकृति दशैकादशशब्दं व्युत्पादयति । एकादशार्थ त्वादित्यादिना ॥ यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्काः