पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७९९
बालमनोरमा ।

ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैका दशिक:-दशैकादशिकी । दशैकादशान्प्रायच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः।

१५८२ । उञ्छति । (४-४-३२)

बदराण्युञ्छति बादृरिकः ।

१५८३ । रक्षति । (४-४-३३)

समाजं रक्षति सामाजिकः ।

१५८४ । शब्ददर्दूरं करोति । (४-४-३४)

शब्दं करोति शाब्दिकः । दार्दुरिकः ।

१५८५ । पक्षिमत्स्यमृगान्हन्ति । (४-४-३५)

'स्वरूपस्य (पर्यायाणां) विशेषाणां ग्रहणम्’ (वा ५२३) । “मत्स्यपर्या येषु मीनस्यैव' (भाष्येष्टिः) । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः ।


ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्काः एकादशार्थत्वात् एकादशशब्देन उपचर्यन्ते। ततश्च एकादश च ते दश चेति कर्मधारये “सङ्खयाया अल्पीयस्याः’ इति दशन्शब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशाः इति रूपमित्यर्थः । दशैकादशिक इति ॥ एकादश निष्काः नाधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति । दशैकादशान् प्रयच्छतीति ॥ इहापीति ॥ विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्देश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणादातैव तद्धितार्थः प्रधानभूत इत्यर्थः । उञ्छति ॥ तदिति द्वितीयान्तमनुवर्तते । उञ्छतीत्यर्थे द्वितीयान्ताठ्ठगित्यर्थः । पतितस्य व्रीह्यादेः कणशः आदानमुञ्छः । रक्षति ॥ अस्मिन्नर्थे द्वितीयान्ताट्ठगित्यर्थः । शब्ददर्दूरङ्करोति ॥ शब्दङ्करोति दुर्दर करोतीति विग्रहे द्वितीयान्ताट्टगित्यर्थः । इह शब्दविषय प्रकृतिप्रत्ययविभागपूर्वकज्ञाने करो तिर्वर्तते । व्याख्यानात् । तेनेह न । शब्दङ्करोति खरः । दार्दुरिक इति ॥ “दर्दूर स्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दूरा चण्डिकायां स्यात्पामजाले तु दर्दूरम् ॥” इति विश्वः । इह यथायोग्यमन्वयः । पक्षिमत्स्यमृगान्हन्ति । अस्मिन्नर्थे पक्ष्यादिशब्दभ्यो द्वितीया न्तेभ्यः ठगित्यर्थः । स्वरूपस्येति ॥ पक्षिमत्स्यमृगशब्दैः तत्तत्स्वरूपाणान्तत्तत्पर्यायाणान्त द्विशेषवाचिनाञ्च प्रहणमित्यर्थः । 'स्वं रूपम्’ इति सूत्रभाष्ये तथोक्त्तेरिति भावः । मीनस्यै वेति ॥ मत्स्यपर्यायेषु मीनस्यैव ग्रहणम्। नत्वनिमिषादिशब्दानामित्यर्थः । इदमपि 'स्वं रूपम् इत्यत्र भाष्ये स्थितम् । पाक्षिक इति ॥ स्वरूपस्योदाहरणम् । शाकुनिक इति तु पक्षिपर्यायस्य ।