पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८००
[ठगधिकार
सिद्धान्तकौमुदीसहिता

१५८६ । परिपन्थं च तिष्ठति । (४-४-३६)

अस्माद्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक्स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । निपातनात् पन्थादेशः । परिपन्थं हन्ति पारिपन्थिक: ।

१५८७ । माथोत्तरपदपदव्यनुपदं धावति । (४-४-३७)

दण्डाकारो माथः पन्थाः दुण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ।

१५८८ । आक्रन्दाट्ठञ् च । (४-४-३८)

अस्माट्ठञ्स्यात्, चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ।

१५८९ । पदोत्तरपदं गृह्णााति । (४-४-३९)

पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ।


मायूरिक इति ॥ पक्षिविशेषस्य । तथा मात्स्यिकः मैनिकः, शाकुलिक इति क्रमेण स्वरूप पर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिकः, सारङ्गिकः इति क्रमेण स्वरूपपर्याय विशेषाणामुदाहरणम् । परिपन्थञ्च तिष्ठति ॥ अस्मादिनि ॥ परिपन्थशब्दादित्यर्थः । चकारात् हन्तीत्यनुकृष्यते । तदाह । तिष्ठति हन्ति चेति ॥ पन्थानं वर्जयित्वेति ॥ एतेन ‘अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वे ‘पञ्चम्यपाङ्परिभिः’ इति पञ्चम्याम् “अपपरि बाहिरञ्चवः पञ्चम्या' इति अव्ययीभावसमासः सूचितः । व्याप्य चेति ॥ एतेन सर्वतः शब्द पर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययी भावः प्रादिसमासो वेत्यपि बोध्द्यम् । उभयथापि क्रियाविशेषणत्वात् द्वितीयान्तत्वम् । निपातनात् पन्थादेश इति ॥ नेदम्प्रत्ययसंनियोगेन निपातनम् । किन्तु ततोऽन्यत्रापि परिपन्थशब्दोऽस्ति । इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वृत्तिकृतः । इदमेवा भिप्रेत्य विग्रहन्दर्शयति । परिपन्थन्तिष्ठतीति ॥ माथोत्तर ॥ माथोत्तरपद, पदवी , अनुपद, एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः । माथपदं व्याचष्टे । माथः पन्था इति ॥ मथ्यते गन्तृभिराहन्यते इति व्युत्पत्तेरिति भावः । दण्डमाथ इति ॥ शाकपार्थि वादिः । पन्थानन्धावतीति धावतेर्गत्यर्थत्वात् सकर्मकत्वम् । पादविवक इति ॥ पदवीन्धाव तीति विग्रहः । आनुपदिक इति ॥ अनुपदं धावतीति विग्रहः । आक्रन्दाट्ठञ् च ॥ अस्मादिति ॥ आक्रन्दशब्दाद्वितीयान्तादित्यर्थः । आक्रन्दन्ति अस्मिन्नित्याक्रन्दः । तदाह । आक्रन्दो दुःखिनां रोदनस्थानमिति ॥ पदोत्तरपदम् ॥ पदशब्दः उत्तरपदं यस्य