पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
२१
कामधेनुसहिता।

  द्राक्पर्ग्नस्तकपालसंपुटमितब्रह्माण्डमाण्डोदर-
   भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥'

माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥ १३ ॥

 माधुर्येण सौकुमार्येण च गुणेनोपपन्ना पाञ्चाली नाम रीतिः । ओजःकान्त्यभावात् अनुल्बणपदा विच्छाया च ।

 तथा च श्लोकः-

   'आश्लिष्टश्लथभावां तु पुराणच्छाययान्विताम् ।
   मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥'

अत्रोदाहरणम् --

  'ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते
   रात्रावत्र विहारंमण्डपतले पान्थः प्रसुप्तो युवा ।

प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् । प्रस्तावना वा तत्र स्यात्' इति । अन्यच्च 'वस्तुनः प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते' इति । द्राक्पर्यस्ते झटिति चलिते कपाले शकले तयोः संपुटः समुद्गकः तेन मितं परिमितं परिच्छिन्नं यत् ब्रह्माण्डं तदेव भाण्डं तस्योदरे भ्राम्यन् समन्तात्पर्यटन् पिण्डितः संकोचितः चण्डिमा यस्येति विग्रहः । तथा पुराणम् , ' अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरान् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्विधा । ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे' इति । अद्यापि चिरातीतेऽपि । टङ्कारध्वनिः प्रतिश्रुत् । न विश्राम्यति न विरमति । अत्र बन्धस्य गाढत्वौज्ज्वल्ययोरुत्कटत्वादुल्बणावोजःकान्तिगुणौ । समासभूयस्त्वोल्बणपदत्वे चातिस्फुटे।

 अथ पाञ्चालीं प्रपञ्चयति--- माधुर्येति । माधुर्यसौकुमार्यप्रतिपक्षयोरोजःकान्त्योरभावाद्वन्धस्य शैथिल्यम् , अनुल्बणपदत्वं चेत्याह-- ओज इति । आश्लिष्टेति । श्लोकः स्पष्टार्थः । उदाहरति-- ग्राम इति । इयं हि कस्यचि-