पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

 ओजः कान्तिश्च विद्यते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः। माधुर्यसौकुमार्ययोरभावात् समासबहुला अत्युल्नणपदा च ।

अत्र श्लोकः-

  'समस्तात्युद्भटपदामोजःकान्तिगुणान्विताम् ।
  गौडीयामपि गायन्ति रीतिं रीतिविचक्षणाः ॥'

उदाहरणम्-

  'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-
   ष्टंकारध्वनिरायेबालचरितप्रस्तावनाडिण्डिमः।

ओजः कान्तिश्च विद्यते इति । अत्र भूमार्थेन मतुपा ओजःकान्त्योः प्राचुर्यप्रतिपादनात् अनुकूलानामनुल्बणानामन्येषां गुणानामनिराकरणम् , प्रतिकूलयोस्तु माधुर्यसौकुमार्ययोरपवारणम् , अत एव दीर्घसमासत्वम् , अत्युद्भटपदत्वं च सूचितम् ; तदिदमभिसंधायाह--माधुर्यसौकुमार्ययोरभावादिति । प्रतिपादितेऽर्थे प्राचामाभाणकं प्रमाणयति--- समस्तेति । समस्तानि समासवृत्तिमापनानि अत्युद्भटानि पदानि यस्या इति विग्रहः । लक्षिताया रीतेलक्ष्यमुपक्षिपति--उदाहरणमिति । एषा खलु धनुर्धरधुरन्धरेण रघुनन्दनेन गाढाकर्षणात्खण्डिते खण्डपरशोः कोदण्डे तद्भङ्गसंघटितनिराघाटघोषवर्णनोपोद्धातेन तस्यैव भुजबलभूमानमभिलक्षयतो लक्ष्मणस्योक्तिः । दोर्दण्डेन अञ्चितमाकृष्टम् । औचित्यादञ्चतिरत्राकर्षणे वर्तते । ननु यद्याकर्षणमञ्चतेरर्थ', तर्ह्यपूजनार्थस्य तस्य 'नाञ्चेः पूजायाम्' इति नलोपप्रतिषेधो न सिद्धयेत् , ' अञ्चेः पूजायाम्' इति इङागमश्च न स्यादिति न चोदनीयम् ; अत्र कवेः कार्यकारणयोरभेदोपचाराद्दुराधर्षधनुराकर्षणमेव पूजनं विवक्षितमित्यविरोधः । आर्यः अग्रजः । तदुक्तं भामहेन, 'भगवन्तोऽवरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः । विप्रामात्याग्रजास्त्वार्या नटीसूत्रभृतौ मिथः॥' तस्य यत् बालचरितं ताटकावधादि धनुर्भङ्गान्तं तदेव प्रस्तावना तत्र डिण्डिमः ॥ अत्र बालचरितस्य प्रस्तावनात्वरूपणेन रावणवधान्तस्य तस्य कुमारचरितस्यापि नाटकत्वमासूच्यते । तथा च कुमारचरितनाटकस्य 'बालचरितं प्रस्तावना प्राथमिकमङ्गमिति परम्परितरूपकौचित्यमपि परिगृहीतं भवति । प्रस्तावनास्वरूपं दशरूपके दर्शितम् , 'सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्ये