पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

  तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं
   येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥

एतासु तिसृषु रीतिषु रेखास्विव चित्रं काव्यं प्रतिष्ठितमिति ।

तासां पूर्वा ग्राह्या गुणसाकल्यात् ॥ १४ ॥

तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या, गुणानां साकल्यात् ।

न पुनरितरे स्तोकगुणत्वात् ॥ १५ ॥

इतरे गौडीयपाञ्चाल्यौ न ग्राह्ये, स्तोकगुणत्वात् ।


तदारोहणार्थमितराभ्यास इत्येके ॥ १६ ॥

द्रामीणस्य गृहे निशि निद्रातुं भद्रवेदिमधिशय्य पर्जन्यगर्जितैस्तर्जिते निजनिदेशापचारनिष्कृपकुपितकुसुमशरशरव्रातपातक्लिष्टतया निर्विष्टवति कष्टां दशां बैदेशिके तद्दण्डपातभीतिसमाकुलायाः कुलवृद्धायाः पुनरन्यमध्वन्य प्रत्युक्तिः । अत्र 'पथः ष्कन्' 'पन्थो ण नित्यम्' इति नित्यं गच्छतः पान्थत्वम् , अन्यस्य च पथिकत्वमिति वृत्तिकारवचनादर्थभेदमाश्रित्य, यदि पथिकाय वसतिर्न दीयेत तत्पान्थेन किमपराद्धमिति न चोदनीयम् ; पान्थपथिकशब्दयोः पर्यायतयाभिधानदर्शनात् कविभिरविशेषेण प्रयुज्यमानत्वात् । ‘अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।' इत्यमरः । 'तत्' इति अमङ्गलतयोच्चारयितुमनुचितत्वान्मरणं तच्छब्देन व्यपदिश्यते । करङ्कः शवः । रीतिस्वरूपं निरूप्य तदुपयोगं सदृष्टान्तमाचष्टे---- एतास्विति

 नन्वेतास्तिस्रो वृत्तयः समशीर्षकतया किं कविभिरुपादेयाः ? नेत्याहतासामिति । वृतिः स्पष्टार्था।

 प्रयोजकाभावादन्ययोर्न ग्राह्यत्वमित्याह-- न पुनरिति ।

 वाहारोहाय बालस्य मेषारोहानुशीलनवद्वैदर्भीसंदर्भलाभाय तदितराभ्यास इति केचिदाचक्षते । तत्पक्षं प्रतिक्षेप्तुमुपक्षिपति-- तदारोहणार्थमिति